पूर्वम्: ७।२।९३
अनन्तरम्: ७।२।९५
 
सूत्रम्
त्वाहौ सौ॥ ७।२।९४
काशिका-वृत्तिः
त्वाहौ सौ ७।२।९४

युष्मदस्मदोर् मपर्यन्तस्य सौ परे त्व अह इत्येतौ आदेशौ भवतः। त्वम्। अहम्। परमत्वम्। परमाहम्। अतित्वम्। अत्यहम्।
लघु-सिद्धान्त-कौमुदी
त्वाहौ सौ ३१४, ७।२।९४

अनयोर्मपर्यन्तस्य त्वाहौ आदेशौ स्तः॥
न्यासः
त्वाहौ सौ। , ७।२।९४

"त्वमावेकवचने" ७।२।९७ इति वक्ष्यति, तस्यायमपवादः। अथ त्वग्रहणं किमर्थम्(), "अहः सौ" इत्येवोच्येत, त्वादेशो हि "त्वमावेकवचने" (७।२।९७) इत्येवं भविष्यति? अशक्यमेवं वक्तुम्(); असति त्वग्रहणे युष्मदोऽप्यहादेशः स्यात्()। अथ वा--अत्र "अस्मदोऽहः सौ" इतेयवोच्येत? एवमपि गौरवं स्यात्()। तस्माद्यथान्या समेवास्तु॥
बाल-मनोरमा
त्वाहौ सौ , ७।२।९४

त्वाहौ सौ। त्वश्च अहश्च त्वाहौ। मपर्यन्तस्येत्यधिकृतम्। युष्मदस्मदोरनादेशे" इत्यतो युष्मदस्मदोरित्यनुवर्तते। तदाह--युष्मदस्मदोरित्यादिना। त्व अद् अम्, अह अद् अम् इति स्थितम्। यद्यप्यत्र "त्वमावेकवचने" #इत्येव युष्मच्छब्दस्य त्वादेशः सिद्धतस्तथापि युष्मानतिक्रान्तोऽतित्वमित्यत्र त्वादेशार्थमिह युष्मदस्त्वविधानम्। नहि "तत्र त्वमावेकवचने" इत्यस्य प्रवृत्तिरिति, अत्र युष्मच्छब्दस्य बुहुत्वविशिष्टे वृत्तेः। एकवचनशब्दो हि तत्र एकत्वविशिष्टवृत्तिवाची, नतु एकवचनसंज्ञकप्रत्ययवाचीत्यनुपदमेव वक्ष्यते।

तत्त्व-बोधिनी
त्वाहौ सौ ३४३, ७।२।९४

त्वाहौ सौ। यद्यपि युष्मदः "त्वमावेकवचने"इत्येवत्वादेशः सिद्धस्तथापि अस्मदोऽहादेशार्थमिदम्। किंच "त्वमौ"इति सूत्रेण युवां युष्मान् वाऽतिक्रान्तोऽतित्वमिति न सिध्यति, एकार्थवाचित्वऽभावाद्युष्मद इति भावः। युष्मदस्मदोरिति। एतच्च "युष्मदस्मदोरनादेशे"इत्यतो लभ्यते। शेषे। उक्तादन्यः शेषः, आत्वं यत्वं च प्रागुक्तम्, तद्विषयादन्यविभक्तिरिह शेषशब्दार्थस्तदेतद्द्याचष्टे----