पूर्वम्: ७।२।९०
अनन्तरम्: ७।२।९२
 
सूत्रम्
मपर्यन्तस्य॥ ७।२।९१
काशिका-वृत्तिः
मपर्यन्तस्य ७।२।९१

मपर्यन्तस्य इत्ययम् अधिकारः। यदित ऊर्ध्वम् अनुक्रमिष्यामो मपर्यन्तस्य इत्येवं तद् वेदितव्यम्।
न्यासः
मपर्यन्तस्य। , ७।२।९१

"युवकाम्(), आवकाम्()" इति। "अव्ययसर्वनाम्नामकच्प्राक्टेः" ५।३।७१ इत्यकच। अत्र यदि मपर्यन्तस्येति नोच्यते, ततोऽवधेरनुपादानात्? साकच्कस्यापि स्यादित्यत आह--"साकच्कस्य सर्वस्य मा भूत्()" इति। असति मपर्यन्तग्रहणे, अवधेरनुपादनादनेकाल्वाच्चादेशस्य सर्वस्यैव स्यात्()। कः पुनः सर्वादेशे दोषः स्यात्()? इत्यत आह--"तथा च" इत्यादि। "अनिष्टं रूपं स्यात्()" इति। अकारस्य "योऽचि" ७।२।८९ इति यकारे कृते त्व्या, म्या इति स्यात्()। मपर्यन्तग्रहणे तु सति युष्मदस्मदोर्मपर्यन्तस्य स्थानित्वेनाधिकृतत्वादस्यैव वक्ष्यमाणा आदेशा भवन्तीति न कश्चिद्दोष इति। अथ परिग्रहणं किमर्थम्(), न मान्तस्येत्येवोच्यतेत, एवमपि ह्रुचयमानेऽन्तशब्दस्य समीपवचनत्वात्? तद्गुणसंविज्ञानस्य बहुव्रीहेराश्रयणात्? सिद्धमिष्टम्()? इत्यत आह--"मान्तस्य" इत्यादि। एतस्मिन्? साकच्कस्यादेशाभावे अथवैतस्मिन्? युवकामावकामित्यादिके शब्दरूपे मान्तस्येत्येवं सिद्धं यत्? परिग्रहणं कृतं तदवधिद्योतनार्थम्()। युष्टदस्मदोरवयवसय स्थानिनोऽवधिद्योतनार्थम्()। तस्मान्मान्ते युष्मच्छब्दे अस्मच्छब्दे च वक्ष्यमाणं कार्यं मा भूदित्येवमर्थम्()। कदा? इत्यादि--"यदा ण्यन्तयोः" इत्यादि। तदाचष्ट इति युष्मदस्मद्भ्यां णिचि कृते "णाविष्ठवत्? कार्यं प्रातपदिकस्य" (वा।८१३) इतीष्ठवद्भावाट्टिलोपः, ततः क्विप्(), तत्र "णेरनिटि" ६।४।५१ इति णिचो लोपे कृते यदा मान्तत्वं विद्यते युष्यदस्मदोस्तदा मा भूदिति। असत्यपि परिग्रहणे मान्स्येत्येन युष्मदस्मदोरित्ययवावस्थानं लभ्यते, ततश्च यत्र मान्ते युष्मदस्मदी, तत्रैव वक्ष्यमाणा आदेशा भवेयुः। परिग्रहणे त्ववधिद्योतनार्थे सति नियोगतो वज्र्यमानेन भवितव्यम्(); न हि तेन वनाऽवधिः सम्भवति। तत्र समुदायावयवस्थानीनिर्द्दिश्यते। यत्राच्छब्दो वर्जनीयोऽस्ति तत्रैव भविष्यति, न तु म#आन्तयोरयुष्मदस्मादोरेव। ननु च विभक्तिपरयोर्युष्मदस्मदोरादेशा विधास्यन्ते, न च मान्तवस्थायां विभक्तिपरतस्ति; णिलोपस्य स्थानिवद्भावात्(), तत्? किं मान्तस्य निवत्त्यर्थेन परिग्रहणेन? इत्याह--आह--"स्थानिवत्त्वं च" इत्यादि। "क्वौ लुप्ते न स्थानिवत्()" (वा।१।१।५८) इति वचनात्? स्थानिवद्भावोऽत्र नास्ति। तस्माद्विद्यत एव विभक्तिपरत्वमित्यभिप्रायः॥