पूर्वम्: ६।१।५१
अनन्तरम्: ६।१।५३
 
सूत्रम्
अपगुरो णमुलि॥ ६।१।५२
काशिका-वृत्तिः
अपगुरो णमुलि ६।१।५३

गुरी उद्यमने इत्यस्य धातोः अपपूरस्य णमुलि परतः एचः स्थाने विभाषा आकारः आदेशो भवति। अपगारमपगारम्। अपगोरमपगोरम्। आभीक्ष्ण्ये णमुल् च ३।४।२२ इति णमुल्। अस्यपगारम् युध्यन्ते, अस्यपगोरम् युध्यन्ते इत्यत्र द्वितीयायां च ३।४।५६ इति णमुल्।
न्यासः
अपगुरो णमुलि। , ६।१।५२

"अपगारमपगारम्()" इति। "आभीक्ष्ण्ये द्वे भवतः" (वा।८८७) इति द्वित्वम्()॥
तत्त्व-बोधिनी
अपगुरो णमुलि १६२९, ६।१।५२

अस्यपगोरमिति। असिमुद्यम्येत्यर्थः।