पूर्वम्: ६।१।६९
अनन्तरम्: ६।१।७१
 
प्रथमावृत्तिः

सूत्रम्॥ संहितायाम्॥ ६।१।७०

पदच्छेदः॥ संहितायाम् ७।१ १५२

अर्थः॥

अधिकारः अयम् {अनुदात्तं पदमेकवर्जम्} इति यावत्, प्रागेस्तस्मात् सूत्रात् यत् वक्ष्यति तत् संहितायाम् इत्येवं वेदितव्यम्।

उदाहरणम्॥

वक्ष्यति {इको यणचि} - दध्यत्र, मध्वत्र
काशिका-वृत्तिः
संहितायाम् ६।१।७२

अधिकारो ऽयम् अनुदात्तं पदम् एकवर्जम् ६।१।१५२ इति यावत्। प्रागेतस्मत् सूत्रादित उत्तरं यद् वक्ष्यामः संहितायाम् इत्येवं तद् वेदितव्यम्। वक्ष्यति इको यणचि ६।१।७४, दध्यत्र। मध्वत्र। संहितायाम् इति किम्? दधि अत्र। मधु अत्र।
न्यासः
संहितायाम्?। , ६।१।७०

"संहितायाम्()" इति विषयसप्तमीयम्()। तेन यदि कार्यिनिमित्तयोः संहिता विषयभूता भवति, तह्र्रेवं वक्ष्यमाणं कार्यं भवति; नान्यर्थेति वेदितव्यम्()।
बाल-मनोरमा
संहितायाम् १४४, ६।१।७०

संहितायाम्। इत्यधिकृत्येति। "छे चेत्यादि विधीयते" इति शेषः। यद्यप्येतदिको यणचीत्यत्रैव वक्तव्यन्तथापि सूत्रक्रमानुरोधादिहोक्तम्

तत्त्व-बोधिनी
संहितायाम् ११७, ६।१।७०

संहितायाम्। इत्यधिकृत्येति। एतच्च "इकोयणची"त्यत्रैव वक्तव्यमपि सूत्रक्रमानुरोधेनात्रोक्तम्