पूर्वम्: ६।१।७६
अनन्तरम्: ६।१।७८
 
सूत्रम्
धातोस्तन्निमित्तस्यैव॥ ६।१।७७
काशिका-वृत्तिः
धातोस् तन्निमित्तस्य एव ६।१।८०

एचः इति वर्तते, वान्तो यि प्रत्यये इति च। धातोर् य एच् तन्निमित्तो यकारादिप्रत्ययनिमित्तः, तस्य यकारादौ प्रत्यये परतो वान्तादेशो भवति। लव्यम्। पव्यम्। अवश्यलाव्यम्। अवश्यपाव्यम्। धातोः इति किम्? प्रातिपदिकस्य नियमो म भूत्। तत्र को दोषः? बाभ्रव्यः इत्यत्रा एव स्यात्, इह न स्यात् गव्यम्, नाव्यम् इति। तन्निमित्तस्य इति किम्? अतन्निमित्तस्य मा भूत्। उपोयते। औयत। लौयमानिः। पौयमानिः। अत इञ् ४।१।९५ एवकारकरणम् किम्? धात्ववधारणम् यथा स्यात्, तन्निमित्तावधारणम् मा भूतिति तानिमित्तस्य हि धातोश्च अधातोश्च भवति। बाभ्रव्यः। अवश्यलाव्यम्। लवम्।
न्यासः
धातोस्तन्निमित्तस्यैव। , ६।१।७७

पूर्वेणैव सिद्धे नियमार्थं वचनम्()। "तन्निमित्तस्य" इति। तच्छब्देन यकारादिप्रत्ययः प्रत्यवमृश्यते, स निमित्तं यस्य स तथोक्तः। "लव्यम्()" इति। "अचो यत्()" (३।१।९७) इति यत्? तमेव वकारमाश्रित्य "सार्वधातुकार्थधातकयोः" ७।३।८४ इत्योकारो विधीयमानस्तन्निमित्तो भवति। "अवश्यलाव्यम्()" इति। "ओरावश्यके" ३।१।१२५ इति ण्यत्(), "मयूरव्यंसकादयश्च" २।१।७१ इति समासः, "लुम्पेदवश्यमः कृत्ये" (काशिका।६।१।१४४) इति मकारलोपः। अत्रापि ण्यतमाश्रित्य "अचो ञ्णिति" ७।२।११५ इति विधीयमान औकारस्तन्निमित्तो भवतति। "प्रातिपदिकसय नियमो मा भूत्()" इति। असति हि धातुग्रहणे प्रातिपदिकस्यापि नियमः स्यात्()। ननु च प्रातिपदिकस्यापि नियम एतन्निमित्त्स्यैव भवति, नातनिमित्तस्येत्यर्थः स्यात, तथा च--पूर्वसूत्रस्यारम्भोऽनर्थकः स्यात्(), निर्विषयत्वात्()? नैष दोषः; यो हि धातोरिति किमिति पृच्छति स पूर्वयोगस्यारम्भं पृथङ्? नेच्छत्येव। स ह्रेवं मन्यते--"वान्तो यि प्रत्यये" ६।१।७६ तन्निमित्तस्यैवेत्येको योगः कत्र्तव्य इति। तत्र को दोष इति प्रातिपदिकनियमे सति यदि कश्चिद्दोष आपद्येत ततस्तन्निवृत्तये क्रियमाणं धातुग्रहणं शोभत इत्यभिप्रायः। "बाभ्रव्य इत्यत्रैव स्यात्()" इति। एतस्तन्निमित्तत्वात्()। "इह तु न स्यात्()--गव्यम्(), नाव्यम्()" इति। अतन्निमित्तत्वादेचः। "उपोयते" इति। वेञ एच आत्वे कृत उपपूर्वाल्लट्(), "भावकर्मणोः" १।३।१३ इत्यात्मनेपदम्(), "सार्वधातुके यक्()" ३।१।६७ इति यक्(), यजादित्वात्? सस्प्रसारणम्(), "अकृत्सार्वधातुकयोर्दीर्घः" ७।४।२५ इति दीर्घः, उपाकारेण सह "आद्गुणः" ६।१।८४ "औयत" इति। तस्यैव धातोर्लङ्(), पूर्ववदात्मनेपदादि, आडजादीनाम्()" ६।४।७२ इत्यट्(), "आटश्च" ६।१।८७ इति वृद्धिः। अयमौकारः पूर्वक ओकारश्च एतदुभयमप्यतन्निमित्तम्(), एतस्य मा भूदित्येवमर्थं तन्निमित्तगर्हणम्()। ननु चान्तरङ्गो यणादेशो वर्णमात्राश्रयत्वात्(), बहिरङ्गस्त्वेकादेश उभयपदाश्रयत्वात्(), ततश्च "असिद्धं बहिरङ्गमन्तरङ्गे" (व्या।प।४२) इत्यसिद्धत्वादेवात्र न भविष्यति? एवं तह्र्रोतज्ज्ञापयति--नेयमिह परिभाषोपतिष्ठत इति। तेनाक्षद्यूरित्यत्र बहिङ्गोऽप्यूडादेशोऽन्तरङ्गे यणादेशे कत्र्तव्ये नासिद्धो भवति। अन्यथा यद्ययमर्थो न ज्ञाप्येत तदाक्षैर्दीव्यतति क्विपि कृते "च्छ्वोः शुड--नुनासिके च" (६।४।१९) इत्यूडादेशे कृते तस्यासिद्धत्वात्? यणादेशो न स्यात्()। "लौयमानिः" इति। लूयमानस्यायत्यमित्यर्थे "अत इञ्()" (४।१।९५) इतीञ्? "तद्धितेष्वचामादेः" ७।२।११७ इति वृद्धिः, सा च तद्धितनिमित्ता, न तु यकारादिप्रत्ययनिमित्ता। सिद्धे हि विधिरारभ्यमाणः विनाप्येवकारकारणं नियमार्थो भविष्यतीत्यभिप्रायेणाह--"एवकारः किम्()" इति। इष्टतोऽवधारणार्थमेवकारकारणं क्रियत इति दर्शयन्नाह--"धात्ववधारणम्()" इत्यादि। एवकारे तन्निमित्तशब्दानन्तरमुच्चार्यमाणे यत एवकारकारणं ततोऽन्यत्रावधारणार्थमिति धात्वधारणं भवति। असति ह्रेवकारकारणे धातेरेव तन्निमित्तस्येति तन्निमित्तावधारणमप्यनिष्टं विज्ञायेत। तस्माद्धात्ववधारणं यथा स्यात्(), तन्निमित्तावधारणं मा भूदित्येवमर्थमेवकारकारणम्()। किं पुनर्धात्ववधारणे सतीष्टं रूपं सिध्यति यतस्तदिष्यते? इत्यत आह--"तन्निमित्त्स्य हि" इत्यादि। धात्ववधारणे हि सति तन्निमित्त्स्यानियतत्वादधातोश्च भवति बाभ्रव्य इति धातोश्च भवति--लव्यम्(), अवश्यलाव्यमिति। यदि तन्निमित्तावधारणं कृतं स्यात्? तदा धातोरेव तन्निमित्तस्येति। ततो बाभ्रव्य इत्यत्र न स्यात्(), न हि बभ्रूशब्दो धातुः। तस्माद्वात्ववधारणमितीष्यते॥
बाल-मनोरमा
धातोस्तन्निमित्तस्यैव ६५, ६।१।७७

ननु ओयते औयतेत्यत्रापि ओकारस्य औकारस्य च वान्तो यीति वान्तादेशः स्यादित्याशङ्क्य वान्तो यीति सूत्र नियमयति--धातोस्तन्निमित्तस्यैव। एच इति, वान्तो यि प्रत्यय इति चानुवर्तते। स यादिप्रत्ययो निमित्तं यस्य स तन्निमित्तः। यादिप्रत्यये परे धातोरेचो भवन् वान्तादेशो यादिप्रत्ययनिमित्तकस्यैव एचो भवति, नान्यस्येत्यर्थः। तदाह--यादौ प्रत्यय इत्यादिना। लव्यमिति। लूञ्? छेदने। अचो यत्। "सार्वधातुकार्धधातुकयो"रित्यूकारस्य गुण ओकारः। तस्य धात्ववयवत्वाद्यादिप्रत्ययानिमित्तकत्वाच्च वान्तादेशः। अवश्यलाव्यमिति। "ओरावश्यके" इति लूञो ण्यत्। "अचो ञ्णिती"त्यूकारस्य वृद्धिरौकारः। "अवश्य"मित्यव्ययम्। मयूरव्यंसकादित्वात्समासः। "लुम्पेदवश्यमः कृत्ये"इति मलोपः। अत्र औकारस्य धात्ववयवत्वाद्यादिप्रत्ययनिमित्तकत्वाच्च वान्तादेशः। ननु लव्यमवश्यलाव्यमित्यत्र वान्तो यीत्येव वान्तादेशः सिद्धः, अतस्तन्निमित्तस्यैवेति नियमार्थमिदं सूत्रमिति स्थितिः। तन्नियमविधेः किं प्रयोजनमिति पृच्छति--तन्निमित्तस्यैवेति किमिति। नियमस्य किं प्रयोजनमित्यर्थः। ओयते इति। वेञ् तन्तुसन्ताने। कर्मणि लट् बावकर्मणोरित्यात्मनेपदम्। यक्। वचिस्वपियजादीना"मिति वकापरस्य संप्रसारणमुकारः पूर्वरूपम्। "अकृत्सार्वधातुकयो"रित्युकारस्य दीर्घः। आङा सह उकारस्य आद्गुण इति गुण ओकारः। तस्य परादिवद्भावेन धात्ववयवत्वेऽपि यादिप्रत्ययनिमित्तकत्वाऽभावान्न वान्तादेशः। नन्वत्र न धातुलोपसूत्रस्थभाष्यरीत्या आद्गुण इति गुणस्य ओकारस्य पदद्वयापेक्षत्वेन बहिरङ्गतया वान्तादेशे कर्तव्ये असिद्धत्वादोकाराऽभावान्न वान्तादेशप्रसक्तिरत्यस्वरसादाह--औयतेति। वैञः केवलात्कर्मणि तङ्। आत्मनेपदादि पूर्ववत्। आडजादीनामित्याट्। आटश्चेति वृद्धिरौकारः। तस्य परादिवद्भावेन धात्ववयवत्वेऽपि यादिप्रत्ययनिमित्तकत्वाऽभावान्न वान्तादेशः। नात्र वृद्धेर्बहिरङ्गत्वं, पदद्वयापेक्षत्वाऽभावात्। "सिद्धे सत्यारम्भो नियमार्थः" इति न्यायेन नियमविधिसिद्धेः, तन्निमित्तस्यैवेत्येवकारस्तु विपरीतनियमव्यावृत्त्यर्थः। #एवकाराऽभावे हि "यादिप्रत्ययनिमित्तकस्य चेदेचो वान्तादेशस्तर्हि धातोरेवैच" इत्यपि नियमः प्रतीयेत। तथा च "बाभ्रव्य" इत्यत्र वान्तादेशो न स्यात्। बभ्रोरपत्यं बाभ्रव्यः। "मधुबभ्र्वोब्र्राआहृणकौशिकयो"रिति यञ्। "ओर्गुण" इत्युकारस्य गुण ओकारः। तस्य यादिप्रत्ययनिमित्तकस्य धात्ववयवत्वाऽभावाद्वान्तादेशो न स्यात्। अत इष्टनिमावधारणार्थं तन्निमित्तस्यैवेत्येवकारः।

तत्त्व-बोधिनी
धातोस्तन्निमित्तस्यैव ५४, ६।१।७७

धातोस्तन्निमित्तस्यैव। पूर्वेण सिद्धे नियमार्थमिदम्। अत्र पूर्वसूत्रमनुवर्तते, "एच" इति च। तच्छब्देन यादिप्रत्ययः परामृश्यते योग्यत्वान्नतु संनिहितोऽपि धातुः। नहि स्वावयवस्यैचः स्वयं निमित्तं भवति। एवकारस्त्विष्टतोऽवधारणार्थः। अन्यथा हि "तन्निमित्तस्यैचो यदि भवति तर्हि धातोरेवे"ति विपरीतनियमः संभाव्येत। ततश्च "बाभ्रव्य" इत्यत्र न स्यात्। धातोस्त्वतन्निमित्तस्यापि स्यात्-ओयते इत्यादौ। तदेतत्सकलमभिप्रेत्याह-यादो प्रत्यये परे धातोरेचश्चेद्वान्तादेशा इत्यादि। लव्यमिति। लुनातेरचो यदिति यत्। सार्वधातुकार्धधातुकयोः" इति गुणः। अवश्यलाव्यमिति। "ओरावश्यके" इति ण्यत्। मयूरव्यंसकादित्वात् समासः। "लुम्पेदवश्यमः कृत्ये" इति मकारलोपः। "लव्य"मित्यादेः पूर्वसूत्रेणैव सिद्धे नियमसूत्रमिदं व्यर्थमित्याक्षिपति-तन्निमित्तस्यैवेति किमिति। एकदेशाक्षेपेऽपि सूत्रस्यैवायमाक्षेपः पर्यवसन्नः। ओयत इति। आङ्पूर्वाद्वेञः कर्मणि लट् ; यगात्मनेपदे यजादित्वात्संप्रसारणम्। पूर्वरूपम्। "अकृ"दिति दीर्घः। आद्गुणस्य परादिवद्भावेन दातोरेच्यत्वेऽपि यादिप्रत्ययनिमित्तकत्वं नास्तीति भावः। ओयत इति। वेञः कर्मणि लङ्। यगादि प्राग्वत्। "आडजादीनाम्"। "आटश्चे"ति वृद्धिः।