पूर्वम्: ६।२।१०७
अनन्तरम्: ६।२।१०९
 
सूत्रम्
नदी बन्धुनि॥ ६।२।१०८
काशिका-वृत्तिः
नदी बन्धुनि ६।२।१०९

बहुव्रीहौ समासे बन्धुन्युत्तरपदे नद्यन्तं पूर्वपदम् अन्तोदात्तं भवति। गार्गीबन्धुः। वात्सीबन्धुः। नदी इति किम्? ब्रह्मबन्धुः। ब्रह्मशब्द आद्युदात्तः। बन्धुनि इति किम्? गार्गीप्रियः।
न्यासः
नदी बन्धुनि। , ६।२।१०८

"बन्धुनि" इति। शब्दरूपापेक्षया नपुंसकलिङ्गनिर्देशः, अन्यथा बन्धुशब्दस्य पुंल्लिङ्गत्वात्? "बन्धौ" इति निर्देशं कुर्यात्()। "गार्गीबन्धुः, वात्सीबन्धुः" इति। गर्गवत्सशब्दाभ्यां गर्गादित्वात्? (४।१।१०५) यञ्? तदन्तात्? "यञश्च" ४।१।१६ इति ङीप्()। गार्गीवात्सीशब्दौ ञित्स्वरेणाद्युदात्तौ। "ब्राहृबन्धुः" इति। अत्र प्रकृतिभाव एव भवति पूर्वपदस्य। ब्राहृशब्दश्चायं "मनिन्()" (द।उ।६।७३) इत्यनुवत्र्तमाने "बृहेर्नोऽच्च" (द।उ।६।७४) इति भनिन्प्रत्ययान्तो व्युत्पाद्यते, तेनाद्युदात्तः। "गार्गीप्रियः" इति। गार्गीशब्दोऽपि प्रकृतिभावेनाद्युदात्त एव भवति॥