पूर्वम्: ६।२।१५१
अनन्तरम्: ६।२।१५३
 
सूत्रम्
ऊनार्थकलहं तृतीयायाः॥ ६।२।१५२
काशिका-वृत्तिः
ऊनार्थकलहं तृतीआयाः ६।२।१५३

ऊनार्थान्युत्तरपदानि कलहशब्दश्च तृतीयान्तात् पराण्यनतोदात्तानि भवन्ति। माषोनम्। कार्षापणोनम्। माषविकलम्। कार्षापणविकलम्। कलह असिकलहः। वाक्कलहः। तृतीयापूर्वपदप्रकृतिस्वरापवदो योगः। अत्र केचिदर्थे इति स्वरूपग्रहणम् इच्छन्ति। धान्येन अर्थो धान्यार्थः। ऊनशब्देन एव त्वर्थनिर्देशर्थेन तदर्थानां ग्रहणम् इति प्रतिपदोक्तत्वादेव तृतीयासमासपरिग्रहे सिद्धे तृतीयाग्रहणं विस्पष्टार्थम्।
न्यासः
ऊनार्थकलहं तृतीयायाः। , ६।२।१५२

"माषोनम्()" इति। "पूर्वसदृश" २।१।३० इत्यादिना तृतीया समासः। एवं "कार्षापणोनम्()" इत्यादावपि। "कष खष शिष जष झष शष वष मष" (धा।पा।६८५-६९२) इत्यस्माद्घञ्(), तेन माषशब्द आद्युदात्तः। "इण्सिञ्जिदीङुष्यविभ्यो नक्()" (द।उ।५।३६) इति, तेनोनशब्दोऽन्तोदात्तः। कार्षस्यापणः कार्षापणः। कार्षापणशब्दः समासस्वरेणान्तोदात्तः। विगतः कलोऽस्येति विकलः। बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वेन विकलशब्द आद्युदात्तः। "असिकलहः" इति। "अच इः" (द।उ।१।६७) इति वर्तमाने "खनिकष्यञ्ज्यसि" (द।उ।१।६८) इत्यादिना सिन्तोदात्तः "कल गतौ" (धा।पा।१८६५), अस्मात्? पचाद्यच्()। कलयतीति कलः, कलं हन्तीति "अन्येष्वपि दृस्यते" ३।२।१०१ इति डः। तेन कलहशब्दोऽन्तोदात्तः। "अत्र केचित्()" इत्यादि। तह्र्रर्थ इति स्वरूपग्रहणम्(), एवं सत्यूनशब्देऽपि स्वरूपग्रहणं प्रसज्येत्(), ततश्च तदर्थानामन्येषां ग्रहणं न स्यात्()? इत्यत आह--"उनशब्देनैव" इत्यादि। ऊनशब्दोऽन्यमतानां विशेषं दर्शयति। अन्ये हि--अर्थग्रहणे नानर्थकानां ग्रहणं भवतीति मन्यन्ते। केचित्तु-ऊनशब्देनैवार्थनिर्देशार्थेनार्थनिर्देशः प्रयोजनं यस्य स तथोक्तः। शब्दप्रधाने हि निर्देशे स्वरूपग्रहणं [स्वरूपं ग्रहणम्()--इति मुद्रितः पाठः] भवतीत्युक्तम्()। इह चोन इत्यर्थप्रधाननिर्देशः। तेनोनशब्दोऽर्थनिर्देशार्थः" इत्याहुः। तस्मात्? तत्रैव तदर्थानां ग्रहणम्()। इतिकरणो हेतौ। यस्मादूनशब्देनैवार्थनिर्देशार्थन तदर्थानां ग्रहणम्(), तस्मादत्र केचिदर्थ इति स्वरूपग्रहणमिच्छन्ति। "धान्यार्थः" इति। "तृतीया तत्कृतार्थेन" २।१।२९ इति समासः। "धने धान्ये" (धा।पा।११०४), अस्माण्ण्यत्()। धान्यमन्तस्वरितम्()। अथ धाने साधु धान्यम्(), "प्राग्धिताद्यत्()" ४।४।७५ तेन "यतोऽनावः" ६।१।२०७ इति धान्यमाद्युदात्तम्()। अत्रार्थशब्दः "प्रामादीनाञ्च" (फि।सू।२।३८) इत्याद्युदात्तः। तृतीयाग्रहणं किमर्थम्()? अनूनम्(), अकलह इत्यत्र मा भूदिति चेत्()? नैतदस्ति;इह हि प्रतिपदोक्तपरिभाषयो(व्या।प।३)नार्थकलहादीनां प्रतिपदोक्तो यः समासः स एव परिगृह्रते। तत्? किमनूमकलह इत्येतन्निवृत्यर्थेन तृतीयाग्रहणेन? इत्यत आह--"प्रतिपदोक्तम्()" इत्यादि। गतार्थम्()।