पूर्वम्: ६।२।१६९
अनन्तरम्: ६।२।१७१
 
सूत्रम्
वा जाते॥ ६।२।१७०
काशिका-वृत्तिः
वा जाते ६।२।१७१

जातशब्दे उत्तरपदे वा अन्त उदात्तो भवति बहुव्रीहौ समासे जातिकालसुखादिभ्यः। दन्तजातः, दन्तजातः। स्तनजातः, स्तनजातः। कालात् मासजातः, मासजातः। संवत्सरजातः, संवत्सरजातः। सुखादिभ्यः सुखजातः, सुखजातः। दुःखजातः, दुःखजातः।
न्यासः
वा जाते। , ६।२।१७०

जातशब्दोऽपि क्तान्त इति तस्यापि जात्यादिभ्यः परस्य पूर्वेण नित्यमन्तोदात्तत्वे विकल्पोऽयमुच्यते। "दन्तजातः" इति। "हसिमृग्रिण्वमिदमि"(द।उ।६।७) इत्यादिना तन्()--दन्तः। तेनायमाद्युदात्तः। "स्तनजातः" इति। स्तनशब्द उक्तस्वरः।