पूर्वम्: ६।२।१६७
अनन्तरम्: ६।२।१६९
 
सूत्रम्
निष्ठोपमानादन्यतरस्याम्॥ ६।२।१६८
काशिका-वृत्तिः
निष्ठाउपमानादन्यतरस्याम् ६।२।१६९

निष्ठान्तातुपमानवाचिनश्च मुखं स्वाङ्गम् उत्तरपदम् अन्यतरस्याम् बहुव्रीहौ समासे ऽन्तोदात्तं भवति। प्रक्षालितमुखः, प्रक्षालितमुखः, प्रक्षालितमुखः। यदा एतदुत्तरपदान्तोदात्तत्वं न भवति तदा निष्ठोपसर्गपूर्वम् अन्यतरस्याम् ६।२।१०९ इति पक्षे पूर्वपदान्तोदात्तत्वं, तदभावपक्षे ऽपि पूर्वपदप्रकृतिस्वरत्वेन गतिस्वरः इति त्रीण्युदाहरणानि भवन्ति। उपमानात् सिंहमुखः, सिंहमुखः। व्याघ्रमुखः, व्याघ्रमुखः।