पूर्वम्: ६।२।४३
अनन्तरम्: ६।२।४५
 
सूत्रम्
अर्थे॥ ६।२।४४
काशिका-वृत्तिः
अर्थे ६।२।४४

चतुर्थी इति वर्तते। अर्थशब्दे उत्तरपदे चतुर्थ्यन्तं पूर्वपदं प्रकृतिस्वरं भवति। मात्रे इदं मात्रर्थम्। पित्रर्थम्। देवतार्थम्। अतिथ्यर्थम्। मातृपितृशब्दावन्तोदात्तावुणादिषु निपातितौ। देवताशब्दो लित्स्वरेण मध्योदात्तः। अतिथिः इति अतेरिथिनिति इथिन्प्रत्ययान्तः। तदर्थविशेषा एव दारुहिरण्यादयो भवन्ति, न त्वर्थशब्दवाच्यं सामान्यं इत्यतदर्थार्थो ऽयम् आरम्भः। केचित् पुनराहुः ज्ञापकार्थम् इदम्। एतदनेन ज्ञाप्यते, पूर्वो विधिः प्रकृतिविकृत्योः समासे भवति। अश्वघासः, श्वश्रूसुरम् इत्यत्र सत्यपि तादर्थ्ये न भवति।
न्यासः
अर्थे। , ६।२।४४

"मातृपितृशब्दावन्तोदात्तौ" इति। "नप्तृनेष्ट्ट" (द।उ।२।३) इत्यादौ तृजन्तयोस्तयोर्निपातितत्वात्()। "लित्स्वरेण मध्योदात्तः" इति। "देवात्? तल्()" ५।४।२७ इति तल्()प्रत्ययन्तत्वात्()। किमर्थं पुनरेतत्(), न "चतुर्थी तदथे" ६।२।४३ इत्येवं सिद्धम्(), अर्थशब्दोऽपि तदर्थमेवोत्तरपदं भवति? इत्याह--"तदर्थविशेषा एव" इत्यादि। एवं मन्यते--अर्थशब्दोऽपि वृत्तौ विशेषवाची भवतीति। युक्तञ्चैतत्()। तदा मात्रर्थमित्युक्ते मात्रादिभ्यो व्यावृत्तरूपं विशिष्टमेव मात्रर्थं वस्तु प्रतीयते। "अ()आधासः" इत्यादिना ज्ञापकस्य प्रयोजनं दर्शयति॥