पूर्वम्: ६।३।१००
अनन्तरम्: ६।३।१०२
 
सूत्रम्
रथवदयोश्च॥ ६।३।१०१
काशिका-वृत्तिः
रथवदयोश् च ६।३।१०२

रथ वद इत्येतयोश्च उत्तरपदयोः कोः कतित्ययम् आदेशो भवति। कद्रथः। कद्वदः।
न्यासः
रथवदयोश्च। , ६।३।१०१

अनजाद्यर्थोऽयं योगः। एवमुत्तरत्रापि॥
बाल-मनोरमा
रथवदयोश्च १०१३, ६।३।१०१

रथवदयोश्च। "कोः कत्तत्पुरुषे" इति शेषः। कद्रथः कद्वद इति। "कुगती"ति समासः। वदतीति वदः। कुत्सितो वदः कद्वदः।