पूर्वम्: ६।३।१०२
अनन्तरम्: ६।३।१०४
 
सूत्रम्
का पथ्यक्षयोः॥ ६।३।१०३
काशिका-वृत्तिः
का पथ्यक्षयोः ६।३।१०४

पथिनक्ष इत्येतयोरुत्तरपदयोः कोः का इत्ययम् आदेशो भवति। कापथः। काक्षः।
न्यासः
का पथ्यक्षयोः। , ६।३।१०३

अनीषदर्थ आरम्भः। "कापथः" इति। कुत्सितः पन्थाः कापथः, "ऋक्पूः" ५।४।७४ इत्यादिनाकारः समासान्तः। "काक्षः" इति। कुत्सितोऽक्ष इति तत्पुरुषः। अथ वा--कुत्सिते अक्षिणी अस्येति बहुव्रीहिः, "बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्? षच्()" (५।४।११३) इति षच्? समासान्तः॥
बाल-मनोरमा
का पथ्यक्षयोः १०१५, ६।३।१०३

का पथ्यक्षयोः। पथिन्, अक्ष--अनयोः परतः कोः "का" इत्यादेशः स्यादित्यर्थः। कापथमिति। कुत्सितः पन्था इति विग्रहः। "कुगती"ति समासः। "ऋक्पू"रित्यप्रत्ययः। "पथः सङ्ख्याव्ययादे"रिति नपुंसकत्वम्। "कापथ" इति पाठे तु बहुव्रीहिः। काऽक्षशब्दे समासं दर्शयति--अक्षशब्देन तत्पुरुष इति। कुत्सितमक्षमिन्द्रियमिति विग्रहे "कुगती"ति समास इत्यर्थः। अक्षिशब्देनेति। कुत्सिते अक्षिणी यस्येति विग्रहे "बहुव्रीहौ सक्थ्यक्ष्णो"रिति षजित्यर्थः।

तत्त्व-बोधिनी
का पथ्यक्षयोः ८५८, ६।३।१०३

कापथमिति। कुत्सितः पन्थाः। "ऋक्पूरब्धू"रिति समासान्तः। "पथः सङ्ख्याव्ययादेः"इति नपुंसकत्वम्।