पूर्वम्: ६।३।१०
अनन्तरम्: ६।३।१२
 
सूत्रम्
अमूर्धमस्तकात् स्वाङ्गादकामे॥ ६।३।११
काशिका-वृत्तिः
अमूर्धमस्तकात् स्वाङ्गादकामे ६।३।१२

मूर्धमस्तकवर्जितात् स्वाङ्गादुत्तरस्याः सप्तम्याः अकामे उत्तरपदे ऽलुग् भवति। कण्ठे कालो ऽस्य कण्ठेकालः। उरसिलोमा। उदरेमणिः। अमूर्धमस्तकातिति किम्? मूर्धशिखः। मस्तकशिखः। अकामे इति किम्? मुखे कामो ऽस्य मुखकामः। स्वाङ्गातिति किम्? अक्षशौण्डः। हलदन्तातित्येव, अङ्गुलित्राणः। जङ्घावलिः।
न्यासः
अमूद्र्धमस्तकात्? स्वाङ्गादकामे। , ६।३।११

स्वाङ्गमद्रवादिलक्षणं पारिभाषिकं यत्? तदिह गृह्रते। "कण्ठेकालः" इति बहुव्रीहिः। "व्यधिकरणानामपि "बहुव्रीहिर्भवत्येव" इति बहुव्रीहिः। "समानाधिकरण" (वा।९७) इत्येतत्? प्रायकम्()। "अक्षशौण्डः" इति। "सप्तमी शौण्डैः" २।१।३९ इति समासः। "अङ्गुलित्राणजङ्घावलो" सप्तमीतत्पुरुषौ॥
बाल-मनोरमा
अमूर्धस्तकात्स्वाङ्गादकामे ९५५, ६।३।११

अमूर्धमस्तकात्। मूर्धंमस्तकशब्दवर्जितात्स्वाङ्गवाचकात्सप्तम्या अलुक्स्यात्, नतु कामशब्दे उत्तरपदे इत्यर्थः। अत्र संज्ञायामित्यनुवर्तते। अत एव "ह्मद्द्युभ्यां चे"त्यत्र ह्मद्ग्रहणमर्थवत्। कण्ठेकाल इति। शिवस्य नाम। उरसिलोमेति। कस्यचिन्नाम। अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः।