पूर्वम्: २।१।३८
अनन्तरम्: २।१।४०
 
प्रथमावृत्तिः

सूत्रम्॥ सप्तमी शौण्डैः॥ २।१।३९

पदच्छेदः॥ सप्तमी १।१ ४७ शौण्डैः ७।१ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
सप्तमी शौण्डैः २।१।४०

सप्तम्यन्तं शौण्डाऽदिभिः सह समस्यते, तत्पुरुषाश्च समासो भवति। अक्षेषु शौण्डः अक्षशौण्डः। अक्षधूर्तः। अक्षकितवः। शौण्ड। धूर्त। कितव। व्याड। प्रवीण। संवीत। अन्तर्। अन्तःशब्दस्त्वराधिकरनप्रधान एव पठ्यते। अधि। पटु। पण्डित। चपल। निपुण। वृत्तौ प्रसक्तिक्रियाया अन्तर्भावदक्षादिषु अधिकरणे सप्तमी।
लघु-सिद्धान्त-कौमुदी
सप्तमी शौण्डैः ९३७, २।१।३९

सप्तम्यन्तं शौण्डादिभिः प्राग्वत्। अक्षेषु शौण्डः अक्षशोण्ड इत्यादि। द्वितीयातृतीयेत्यादियोगविभागादन्यत्रापि तृतीयादिविभक्तीनां प्रयोगवशात्समासो ज्ञेयः॥
न्यासः
सप्तमी शौण्डैः। , २।१।३९

शौण्डैरिति बहुवचननिर्देशादाद्यर्थो गम्यत इत्याह-- "शौण्डादिभिः" इत। केन पुनर्विहितायां सप्तम्यां तदन्तस्य शौण्डादिभिः समासो विधीयते? "सप्तम्यधिकरणे च" २।३।३६ इत्यनेनेति चेत्, वात्र्तमेतत्। तथा ह्रधिकरणं कारकम्, तच्च क्रियापेक्षम्। न चाक्षशौण्ड इत्यादौ वृत्तौ काचन क्रिया श्रूयते। तत्कुतोऽधिकरणस्येह सम्भवः? न च शक्यते वक्तुम्()-- अस्मादेव वचनाच्छौण्डादिभिर्योगे सप्तमी भविष्यतीति, देवदत्तः शौण्ड इत्यत्रापि प्रसङ्घः स्यादित्यत आह-- "वृत्तौ" इत्यादि। अस्त्येवात्र प्रसक्तिक्रिया। सा तु समासार्थ एवान्तर्भूतेतिगम्यमानत्वाद्द्वृतौ क्रियापदं न प्रयुज्यते। तस्या यत्साधनमधिकरणं तत्र सप्तमीत्यदोषः। अन्तः शब्दस्त्वत्राधिकरणप्रधान एव पठ()ते। तस्य प्रयोगे तत्सामानाधिकरण्यमेव सप्तम्याः कारणम्। वनेऽन्तर्वनान्तर्वसतीति पूर्वपदार्थप्रधान्ये तु "विभक्त्यर्थे यदव्ययम्" २।१।६ इत्यव्ययीभाव एव भवतिः- अन्तर्वणमिति। अधिशब्दोऽत्र पठ()ते-- तस्याधिकरणप्राधान्ये सत्यव्ययीभावः- अधिस्त्रि। आधेयप्राधान्ये तु तत्पुरुषः-- ब्राआहृणेष्वपि ब्राआहृणाधीन इति। ब्राआहृणाधिशब्दः केवलो न प्रयुज्यते। "अष()डक्षाशित" ५।४।७ इत्यादिनाऽध्युत्तरपदात् स्वार्थिकस्य नित्यस्य खस्य विधानात्॥
बाल-मनोरमा
सप्तमी शौण्डैः ७०८, २।१।३९

सप्तमी शौण्डैः। शौण्डादिभिरिति। बहुवचननिर्देशाद्गणपाठाच्च शौण्डशब्दस्तदादपरः। अक्षेषु शौण्ड इति। शौण्डः=क्रियाकुशलः। वौषयिकाधिकरणत्वे सप्तमी। अक्षविषयकक्रीडाकुशल इत्यर्थः। अत्रेति। शौण्डादावित्यर्थः। ई()आराधीन इति। "प्रपञ्च" इति शेषः। "ई()आरे अधि" इति विग्रहः। "अधिरी()ओरे" इत्यधेः कर्मप्रवचनीयत्वम्। "यस्मादधिक"मिति सप्तमी। तदन्तस्याऽधिना समासः। सुब्लुक्। "अषडक्षे"त्यद्युत्तरपदत्वात्खः। ईनादेशः। "ई()आराधीन" इति रूपम्।

तत्त्व-बोधिनी
सप्तमी शौण्डैः ६३०, २।१।३९

सप्तमी शौण्डैः। बहुवचननिर्देशाद्गणपाठसामथ्र्याच्च आद्यर्थावगतिरित्यभिप्रेत्याह--शौण्डादिभिरिति। अक्षशौण्ड इति। शौण्डः=प्रवीणः। इह आसक्ति रूपा क्रिया वृत्तावन्तर्भवतीति, तद्द्वारकं च सामथ्र्यम्। यथा दध्योदनगुडधानादौ उपसेचनमिश्रीकरणादिद्वारा सामथ्र्यम्। तेन "कारकाणां क्रिययैव संबन्ध" इति नियमस्य न व्यभिचारः। आधिशब्द इति। "आधेयप्रधान"इति शेषः। अधिकरणप्रधानस्य त्वव्ययीभाव एव। अधिहरीति यथा। ख इति। "नित्य"मिति शेषः। "विभाषाञ्चेः" इति विभाषाग्रहणसामथ्र्यादिति वक्ष्यमाणत्वात्। अन्तः शब्दोऽत्र पठ()ते, स चाधिकरणप्रधानः। मध्ये इत्यर्थात्। तद्योगेऽवयविन आधारत्वविवक्षायां सप्तमी, यथा " वृक्षे शाखे"ति। वने अन्तर्वनान्तर्वसति। यस्त्वधिकरणकत्वमात्रवृत्तिरन्तः शब्दस्तस्य तु "विभक्त्यर्थे"इति नित्यमव्ययीभावः। "प्रनिरन्तः शरे" इथि णत्वम्। वने इति अन्तर्वणम्। यत्तु तत्पुरुषस्य वैकल्पिकत्वात्पक्षे अवययीभाव इति हरदत्तेनोक्तम्। तच्चिन्त्यम्। तत्पुरुषस्य वैकल्पिकत्वेऽप्यव्ययीभावस्य नित्यत्वाद्वने अन्तरिति तदुक्तस्वपदविग्रहस्याऽयोगात्। किं च विभक्त्यर्थमात्रवृत्तेरव्ययीभावः, वचनग्रहणसामथ्र्यात्। अन्यथा वृक्षस्योपरीत्यादावतिप्रसङ्गः स्यात्। ततश्च मध्यवाचिनः प्रसङ्गः एव नास्तीति दिक्। शौण्ड। धूर्त। कितव। व्याड। प्रवीण। संवीत। अन्तर्। अधि। पटु। पण्डित। कुशल। चपल। निपुण। वृत्।