पूर्वम्: ६।३।२०
अनन्तरम्: ६।३।२२
 
सूत्रम्
पुत्रेऽन्यतरस्याम्॥ ६।३।२१
काशिका-वृत्तिः
पुत्रे ऽन्यतरस्याम् ६।३।२२

पुत्रशब्दे उत्तरपदे आक्रोशे गम्यमाने ऽन्यतरस्यां षष्ठ्याः अलुग् भवति। दास्यःपुत्रः, दासीपुत्रः। वृषल्याःपुत्रः वृषलीपुत्रः। आक्रोशे इत्येव, ब्राह्मणीपुत्रः।
न्यासः
पुत्रेऽन्यतरस्याम्?। , ६।३।२१

बाल-मनोरमा
पुत्रेऽन्यतरस्याम् ९६५, ६।३।२१

पुत्रेऽन्यतरस्यां। निन्दायामिति। "आक्रोशे" इत्यनुवृत्तिलभ्यमिदम्। स्पष्टं चेदम् "आनङृतः" इत्यत्र भाष्ये।