पूर्वम्: ६।३।१८
अनन्तरम्: ६।३।२०
 
सूत्रम्
स्थे च भाषायाम्॥ ६।३।१९
काशिका-वृत्तिः
स्थे च भाषायाम् ६।३।२०

स्थे च उत्तरपदे भाषायाम् सप्तम्या अलुक् न भवति। समस्थः। विषमस्थः। कूटस्थः। पर्वतस्थः। भाषायाम् इति किम्? कृणोम्यारेष्ठः। पूर्वपदात् ८।३।१०८ इति षत्वम्।
न्यासः
स्थे च भाषायाम्?। , ६।३।१९

अयमपि "तत्पुरुषे" ६।३।१३ इत्यादिना प्राप्तस्यालुकः प्रतिषेधः। "समस्थः" इति। समे तिष्ठतीति कः "आतो लोप इटि च" ६।४।६४ इत्यकारलोपः। "कृष्णोऽस्याखरेष्ठः" ["कृष्णोऽस्याखरेष्ठा" इति मुद्रितः पाठः "कृष्णोऽस्याखरेष्ठः" काशिका मुद्रितः पाठः--वाराणसी। "कृष्णोभ्यारेष्ठः"--काशिका--सं।प।पाठः] इति। "स्थः कः च" ३।२।७७ इति क्विप्प्रत्ययः॥
बाल-मनोरमा
स्थे च भाषायाम् ९६३, ६।३।१९

स्थे च भाषायाम्। "अनन्तरस्ये"ति न्यायात् "तत्पुरुषे कृती"त्यस्यैवायं निषेधः। अत एव "अनेकमन्यपदार्थे" इति सूत्रभाष्ये "सप्तम्युपमानपूर्वपदस्ये"ति वार्तिकव्याख्यावसरे कण्ठेस्थः कालो यस्येति विग्रहे कण्ठेस्थशब्दस्य समासत्वमभ्युपगम्य उत्तरपदलोप उपन्यस्तः सङ्गच्छते। यदा तु "अमूर्धंमस्तका"दित्यस्याप्ययं निषेधः स्यात्तर्हि तदसङ्गतिः स्यात्, लुक्प्रसङ्गात्।