पूर्वम्: ६।३।२४
अनन्तरम्: ६।३।२६
 
सूत्रम्
देवताद्वंद्वे च॥ ६।३।२५
काशिका-वृत्तिः
देवताद्वन्द्वे च ६।३।२६

देवतावाचिनां यो द्वन्द्वः तत्र उत्तरपदे पूर्वपदस्य आनङादेशो भवति। इन्द्रावरुणौ। इन्द्रासोमौ। इन्द्राबृहस्पती। द्वन्द्वे इति वर्तमाने पुनर् द्वन्द्वग्रहणं प्रसिद्धसहाचर्यार्थम्। अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वम् इत्येतत् निपात्यते। तत्र ये लोके प्रसिद्धसाहचर्या वेदे च ये सहवापनिर्दिष्टास् तेषाम् इह ग्रहणं भवति। तेन ब्रहमप्रजापती, शिववैश्रवणौ इत्येवम् आदौ न भवति। उभ्यत्र वायोः प्रतिषेधो वक्तव्यः। अग्निवायू। वाय्वग्नी।
न्यासः
देवताद्वन्द्वे च। , ६।३।२५

अनुकारार्थमविद्यायोनिसम्बन्धार्थ च वचनम्()। ननु च "आनङृतो द्वन्द्वे" ६।३।२४ इत्यतो द्वन्द्वगरहणमनुवत्र्तत एव, तत्? किमर्थमिह पुनद्र्वन्द्वग्रहणम्()? इत्याह--"द्वन्द्व इत्यनुवत्र्तमाने" इत्यादि। पूर्वकं हि द्वन्द्वग्रहणं समासविशेषप्रतिपत्त्यर्थम्(), इदं तु प्रसिद्धसाहचर्यार्थम्()--येषां लोके वेदे च प्रसिद्धं साहचर्यमेषां पुनः--परिग्रहो यता स्यादित्येवमर्थम्()। अथ क्रियमाणेऽपि पुनद्र्वन्द्वग्रहणे कथमयमर्थो लभ्यते? इत्याह--"अत्यन्तसहचरिते" इत्यादि। "द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमण" ८।१।१५ इत्यत्रेदमुच्यते। "अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वमित्येतन्निपात्यते" इति। तेनायमर्थो लभ्यत इति दर्शयति। "वेदे च ये सहवापनिर्दिष्टाः" इति। सहवापः=सहदानम्(), तत्र निर्दिष्टाः सहवापनिर्दिष्टाः के पुनरेकहविसम्बन्धिनः? य एकं हूयमानं हविः प्रति सम्प्रदानत्वेन निर्दिष्टा एकत्र मन्त्रे--इन्द्रावरुणाभ्यां छागं हविर्निर्वपामीत्यादौ, ते वेदितव्याः। "उभयत्रि" इत्यादि। पूर्वपदत्व उत्तरपदत्वे च सति वायोरानङादेशस्य प्रतिषेधो वक्तव्यो व्याख्येयः। तत्रेदं व्याख्यानम्()--"विभाषा स्वसृपत्योः" ६।३।२३ इत्यतो विभाषाग्रहणमनुवत्र्तते, सा च व्यवस्थितविभाषा। तेन वायोरुत्तरपदत्वे पूर्वपदत्वे च सति न भविष्यतीति॥
बाल-मनोरमा
देवताद्वन्द्वे च ९१२, ६।३।२५

देवताद्वन्द्वे च। मित्रावरुणाविति। इह ऋदन्तत्वाऽभावात्पूर्वेणाऽप्राप्ते विधिरयम्।

वायुशब्देति। वायुशब्दस्य पूर्वपदत्वेनोत्तरपदत्वेन वा प्रयोगे सत्यानङः प्रतिषेधो वक्तव्य इत्यर्थः। ननु पूर्वसूत्राद्द्वन्द्वग्रहणेऽनुवर्तमाने पुनद्र्वन्द्वग्रहणं व्यर्थमित्यत आह-पुनरिति। निर्वापादौ प्रसिद्धसाहित्यकदेवतावाचकशब्दग्रहणार्थः। तेनेति। प्रसिद्धसाहचर्यग्रहणेनेत्यर्थः। एतदिति। एतत्=ब्राहृप्रजापतियुगलं हविर्भागित्वेन न वेदे प्रसिद्धमित्यर्थः। नापि लोके इति। प्रौढिवादमात्रमेवेदम्, "वेदे ये सहनिर्वापनिर्दिष्टाः" इत्येव भाष्ये दर्शनात्, लोकप्रसिद्धसाहचर्यग्रहणे पार्वतीपरमे()आरावित्यादावतिप्रसङ्गाच्च।

तत्त्व-बोधिनी
देवताद्वन्द्वे च ७८८, ६।३।२५

देवता। अनृकारान्तार्थमविद्यायोनिसम्बन्धार्थं च वचनम्।