पूर्वम्: ६।३।४५
अनन्तरम्: ६।३।४७
 
प्रथमावृत्तिः

सूत्रम्॥ द्व्यष्टनः सङ्ख्यायामबहुव्रीह्यशीत्योः॥ ६।३।४६

पदच्छेदः॥ द्व्यष्टनः ६।१ ४८ सङ्ख्यायाम् ७।१ ४८ अबहुव्रीह्यशीत्योः ६।२ ४८ आत् १।१ ४५ उत्तरपदे ७।१

समासः॥

द्वौ च अष्ट च द्व्यष्ट, तस्य, ॰, समाहारद्वन्द्वः।
बहुव्रीहिश्च अशीतिश्च बहुव्रीह्यशीती। न बहुव्रीह्यशीती अबहुव्रीह्यशीती, तयोः ॰, द्वन्द्वगर्भ-नञ्तत्पुरुषः।

अर्थः॥

द्वि, अष्टन्, इत्येतयोः आकारादेशः भवति, सङ्ख्यायाम् उत्तरपदे अबहुव्रीह्यशीत्योः।

उदाहरणम्॥

द्वादश, द्वाविंशतिः, द्वात्रिंशत्। अष्टादश, अष्टाविंशतिः, अष्टात्रिशत्।
काशिका-वृत्तिः
द्व्यष्टनः सङ्ख्यायाम् अबहुव्रीह्यशीत्योः ६।३।४७

द्वि अष्टनित्येतयोः आकारादेशो भवति सङ्ख्यायाम् उत्तरपदे अबहुव्रीह्यशीत्योः। द्वादश। द्वाविंशतिः। द्वात्रिंशत्। अष्टादश। अष्टाविंशतिः। अष्टात्रिंशत्। द्व्यष्टनः इति किम्? पञ्चदश। सङ्ख्यायाम् इति किम्? द्वैमातुरः। आष्टमातुरः। अबहुव्रीह्यशित्योः इति किम्? द्वित्राः। त्रिदशाः। द्व्यशीतिः। प्राक् शतादिति वक्तव्यम्। इह मा भूत्, द्विशतम्। द्विसहस्रम्। अश्टशतम्। अष्टसहस्रम्।
लघु-सिद्धान्त-कौमुदी
द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः ९६३, ६।३।४६

आत्स्यात्। द्वौ च दश च द्वादश। अष्टाविंशतिः॥
न्यासः
द्व्यष्टनः संख्यायामबहुव्रीह्रशीत्योः। , ६।३।४६

संख्यातानुदेशोऽत्र न भवति। यदि हि स्यादष्टनोऽशीतौ प्रतिषेधः स्यात्(), तथा च तस्य वैयथ्र्यं स्यात्()। प्रतिषिद्धे ह्रात्त्वे सवर्णदीर्घत्वेन भवितव्यम्। अल्पाच्तरत्वाच्चाशीतिशब्दस्य पूर्वनिपातेकत्र्तव्ये परनिपातेन लक्षणव्यभिचारचिह्नेन सख्यातानुदेशाभावः सूचितः। "द्वादश" इति। द्वौ च दश चेति द्वन्द्वः। अथ वा द्वाभ्यामधिकादशेति समानाधिकरणाधिकारे शाकपार्थिवादीनामुपसंख्यानमुत्तरपदलोपश्च" (वा।८३) इत्युत्तरपदलोपी तत्पुरुष समासः। एवं "द्वाविंशतिः" इत्यादावपि वेदितव्यम्()। "द्वौमातुरः" इति। द्वयोर्मात्रोरपत्यमिति विगृह्र तद्धितार्थे समासः, ततः "मातुरुत्संख्यासम्भद्रपूर्वायाः" ४।१।११५ इत्यण्(); उकारश्चान्तादेशः। "द्वित्राः" इति। द्वौ वा त्रयो वेति विगृह्र "सङ्ख्ययाव्यय" २।२।२५ इत्यादिना बहुव्रीहिः, "बहुव्रीहौ संख्येये" (५।४।७३) इत्यादिना डच्? समासान्तः, टिलोपः। "द्विदशाः" इति। पूर्ववड्डच्(), बहुव्रीहिः। द्विर्दशेति विग्रहः। सुबर्थेऽयं समासः। अत्र हि दशसम्बन्धिन्यावृत्तिर्दशशब्देन लक्ष्यमाणा द्विशब्देन संख्यायते। तेन द्वौ दशकावित्ययमर्थो वेदितव्यः। समासः सुबर्थं गमयितुं समर्थ इति वृत्तौ सुज्? न प्रयुज्यते। "द्व्यशीतिः" इति। पूर्ववद्द्वन्द्वः; उत्तरपदलोपी वा तत्पुरुषः। "प्राक्? शतात्()" इत्यादि। शतात्? प्रागया संख्या तद्वाचिन्युत्तरपदे द्व्यष्टन आत्त्वं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--"विभाषा चत्वरिंशत" ६।३।४८ इत्यत्र वक्ष्यमाणविभाषाग्रहणं सिंहावलोकिनतन्यायेनेहाप्युपतिष्टते, सा च व्यवस्थितविभाषा। तेन प्राक्? शताद्या संख्या तद्वाचिन्यत्तरपदे भविष्यति। शतादिवाचिनि तु न भविष्यति। एवमुत्तरयोरपि योगयोः प्राक्शतात्? कार्यं भवतीति वेदितव्यम्()।
बाल-मनोरमा
द्व्यष्टनः सङ्ख्यायामबहुव्रीह्रशीत्योः ७९८, ६।३।४६

द्व्यष्टनः। शेषपूरणेन सूत्रं व्याचष्टे--आत्स्यादिति। द्विशब्दस्य अष्टन्शब्दस्य च सङ्ख्यावाचके उत्तरपदे परे आत्स्यान्न तु बहुव्रीह्रशीत्योरित्यर्थः। द्विशब्दस्योदाहरति--द्वादशेति। द्वौ च एकश्च द्व्येकाः, द्व्यधिक एकः द्व्येक इत्यादौ तु नास्ति, "एकादिनवान्तानां परस्परं द्वन्द्वतत्पुरुषौ न स्तः" इति "चार्थे इति सूत्रे भाष्ये ध्वनितत्वादिति शब्देन्दुशेखरे स्थितम्। द्वाविंशतिरिति। द्वौ च विंशतिश्चेति समाहारद्वन्द्वः। "स नपुंसक"मिति क्लीबत्वं तु न, किंतु लोकात् स्त्रीत्वम्। इतरेतरयोगस्तु न, अनभिधानात्। द्व्यधिका विंशतिरिति तत्पुरुषो वा। अथाऽष्टस्योदाहरति--अष्टादशेति। अष्टौ च दश चेति द्वन्द्वः। अष्टाधिका दशेति वा। अष्टाविंशतिरिति। अष्टौ च विशतिश्चेति समाहारद्वन्द्वः। स्त्रीत्वं लोकात्। अष्टाधिका विंशतिरिति वा। द्वित्रा इति। द्वौ वा त्रयो वेति विग्रहः। "सङ्ख्याव्यये"ति बहुव्रीहिः। "बहुव्रीहौ संख्येये ड"जिति डच्। बहुव्रीहित्वादत्र द्विशब्दस्य आत्त्वं न। द्व्यशीतिरिति। द्वौ चाओशीतिश्चेति समाहारद्वन्द्वः। स्त्रीत्वं लोकात्। द्व्यधिका अशीतिरिति वा। अत्राशीतिपरकत्वाद्द्विशब्दस्याऽ‌ऽत्त्वं न।

प्राक्शतादिति। "द्व्यष्टनः सङ्ख्याया"मित्येतच्छतप्रभृतिसङ्ख्याशब्दे परे न भवतीति वक्तव्यमित्यर्थः। द्विशतमिति। द्वौ च शतं चेति समाहारद्वन्द्वः। द्व्यधिकं शतिमिति वा। एवं द्विसहरुआमित्यत्रापि।