पूर्वम्: ६।३।४८
अनन्तरम्: ६।३।५०
 
सूत्रम्
हृदयस्य हृल्लेखयदण्लासेषु॥ ६।३।४९
काशिका-वृत्तिः
हृदयस्य हृल् लेखयदण्लासेषु ६।३।५०

हृदयस्य हृतित्ययम् आदेशो भवति लेख यतण् लास इत्येतेषु परतः। हृदयं लिखति इति हृल्लेखः। यत् हृदयस्य प्रियम् हृद्यम्। अण् हृदयस्य इदं हार्दम्। लास हृदयस्य लासः हृल्लासः। लेख इति अणन्तस्य ग्रहणम् इष्यते। घञि तु हृदयस्य लेखो हृदयलेखः। एतदेव लेखग्रहणं ज्ञापकम्, उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तग्रहणस्य।
न्यासः
ह्मदयस्य ह्मल्लेखयदण्लासेषु। , ६।३।४९

"ह्मल्लेशः"। "कर्मण्यण्()" ३।२।१ "ह्मद्यः" इति। "प्राग्धिताद्? यत्()" ४।४।७५। "हार्दम्()" इति। "तस्येदम्()" ४।३।१२० इति प्राग्दीव्यतोऽण्()। "ह्मल्लासः" इति। लसनं लासः, भावे घञ्()। "कृद्योगा च षष्ठी समस्यते" (वा।८६) इति षष्ठीसमासः। "लेख इत्यणन्तस्य ग्रहणम्()" इति। एतच्च कात्ययनप्रभृतीनां प्रमाणभूतानां वचनाद्बिज्ञायते। कात्यायनेनोक्तं यत्()--"अण्ग्रहणे स्वरूपग्रहणं द्रष्टव्यम्(), कृतः? लेखग्रहणात्()" इति। भाष्यकृताप्युक्तम्()--"सर्वत्रैवोत्तरपदाधिकारे प्रत्ययग्रहणे स्वरपग्रहणं द्रष्टव्यम्(), कुतः? लेखगरहणात्()" इति। एतच्च वचनद्वयं कथमुपपद्यते? यदि लेख इत्यणन्तस्य ग्रहणं भवति, नान्यथा। अथ घञन्तस्यापि लेखशब्दस्य ग्रहणं कस्मान्न विज्ञायते? इत्याह--"घञि तु" इत्यादि। "एतदेव" इत्यादि। अण्ग्रहणादेव तदन्तस्य लेखशब्दस्य ग्रहणे सिद्धे तस्य पृथग्ग्रहणं क्रियणाणमेतज्ज्ञापयति--उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तं न गृह्रत इति। तेनेह यदण्ग्रहणे घरूपादिसूत्रे च ६।३।४२ घादिप्रत्ययग्रहणे प्रत्ययमात्रं गृह्रते, न तदन्तविधिरिति भावः॥
बाल-मनोरमा
ह्मदयस्य ह्मल्लेखयदण्लासेषु ९७३, ६।३।४९

ह्मदयस्य। लेख, यत्, अम्, लास-एषु परेषु ह्मदयस्य ह्मदादेश इत्यर्थः। ह्मदयं लिखतीति ह्मल्लेखः। "कर्मण्यण्"। ह्मद्यमिति। "ह्मदयस्य प्रियः" इति यत्प्रत्ययः। हार्दमिति। "तस्येद"मित्यण्, ह्मदादेशः। हल्लास इति। घञन्तोऽयमिति भावः। लेखेत्यणन्तस्य ग्रहणमिति। अण्प्रत्ययसाहचर्यादिति प्राञ्चः। व्याक्यानादिति तत्त्वम्। तर्हि लेखग्रहणमेव व्यर्थम्, अमैवे सिद्धेरित्यत आह--ज्ञापकमिति।

ज्ञाप्यांशमाह--उत्तरपदाधिकारे तदन्तविधिर्नास्तीति। तत्फलं तु घरूपकल्पब्ग्रहणे तदन्तविध्यभावः।

तत्त्व-बोधिनी
ह्मदयस्य ह्मल्लेखयदण्लासेषु ८२९, ६।३।४९

अणन्तस्य ग्रहणमिति। अण्प्रत्ययसाहचर्याल्लेखशब्दोऽणन्त एव निर्दिष्ट इति भावः। नन्वेवं लेखग्रहणमेव व्यर्थं स्यादण्ग्रहणेनैव सिद्धेरत आह--- ज्ञापकमिति। अत एव घरूपकल्पेषु तदन्तग्रहणं नेति व्याख्यातम्।