पूर्वम्: ६।३।५८
अनन्तरम्: ६।३।६०
 
सूत्रम्
मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च॥ ६।३।५९
काशिका-वृत्तिः
मन्थओदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च ६।३।६०

मन्थ ओदन सक्तु बिन्दु वज्र भार हार वीवध गाह इत्येतेषु उत्तरपदेसु उदकस्य उद इत्ययम् आदेशो भवति अन्यतरस्याम्। उदकेन मन्थः उदमन्थः, उदकमन्थः। ओदन उदकेन ओदनः उदौदनः, उदकौदनः। सक्तु उदकेन सक्तुः उदसक्तुः, उदकसक्तुः। बिन्दु उदकस्य बिन्दुः उदबिन्दुः, उदकबिन्दुः। वज्र उदकस्य वज्रः उदवज्रः, उदकवज्रः। भार उदकं विभर्ति इति उदभारः, उदकभारः। हार उदकं हरति इति उदहारः, उदकहारः। वीवध उदकस्य वीवधः उदवीवधः, उदकवीवधः। गाह उदकं गाहते इति उदगाहः, उदकगाहः।
न्यासः
मन्थैदनसक्तुबिन्दुजरभारहारवीवधगाहेषु च। , ६।३।५९

द्रवद्रव्यसंपृक्ताः सक्तवो मन्थ इत्युच्यते। तत्र मन्थशब्दोऽयं यद्यव्युत्पन्नं प्रातिपदिकम्(), तदोदकेन मन्थ इति "तृतीया" (२।१।३०) इति योगविभागात्? समासः। अथ व्युत्पाद्यते--मध्यत इति मन्थः, तदा "कर्त्तृकरणे कृता बहुलम्()" २।१।३१ इति समासः। सकत्वोदनाभ्यां "अन्नेन व्यञ्जनम्()" २।१।३३ इति समासः। बिन्दुवज्रवीवधैः "षष्ठी" २।२।८ इति भारहारगाहैरणन्तैः "उपपदमतिङ्" २।२।१९ इति॥
बाल-मनोरमा
मन्थौदनसक्तुविन्दुवज्रभारहारवीवधगाहेषु च ९८३, ६।३।५९

मन्थौदन। "उदकस्य उदादेशो वे"ति शेषः। अपूरयितव्यार्थं वचनम्। उदमन्थ उदकमन्थ इति। उदकमिश्रो मन्थ इति विग्रहः। द्रवद्रव्यसंपृक्ताः सक्तवो मन्थः। भर्जितयवपिष्टानि-सक्तवः। उदौदन उदकौदन इति। उदकमिश्र इत्यर्थः। इत्यादीति। उदसक्तवः, उदकसक्तवः। उदबिन्दवः, उदकबिन्दवः। उदवज्रः, उदकवज्रः। उदभारः, उदकभारः। उदहारः, उदकहारः। उदवीवधः, उदकवीवधः। उदगाहः, उदकगाहः। वीवधस्तु जलाद्याहरणयोग्य उभयतःशिक्यः स्कन्तबाह्रः काष्ठविशेषः।

तत्त्व-बोधिनी
मन्थौदनसक्तुविन्दुवज्राभारहारवीवधगाहेषु च ८३८, ६।३।५९

मन्थौद। उदमन्थ इति। द्रवद्रव्यसंस्कृताः सक्तवो--मन्थः। "उदकेन मन्थः"इति विग्रहे "तृतीये"ति योगविभागात्समास इति हरदत्तः।

इयङुवङ्भाविनामव्ययानां च नेति वाच्यम्। शुक्लीभाव इति। "ऊर्यादिच्विडाचश्चे"ति च्व्यन्तत्वान्निपातत्वेऽव्ययत्वम्।

अभ्रुकुंसादीनामिति वक्तब्यम्। भ्रूकुंस इत्यादि। "भ्रकुंसश्च भुकुंसश्च भ्रूकुंसश्चेति नर्तकः"इत्यमरः। "तन्द्री प्रमीला भ्रकुटिर्भ्रूकुटिः स्त्रिया"मिति च।