पूर्वम्: ६।३।७८
अनन्तरम्: ६।३।८०
 
सूत्रम्
द्वितीये चानुपाख्ये॥ ६।३।७९
काशिका-वृत्तिः
द्वितीये च अनुपाख्ये ६।३।८०

द्वयोः सहयुक्तयोरप्रधानो यः स द्वितीयः। उपाख्यायते प्रत्यक्षत उपलभ्यते यः स उपाख्यः। उपाख्यादन्यः अनुपाख्यः अनुमेयः। तस्मिन् द्वितीये ऽनुपाख्ये सहस्य स इत्ययम् आदेशो भवति। साग्निः कपोतः। सपिशाचा वात्या। सराक्षसीका शाला। अग्न्यादयः साक्षादनुपलभ्यमानाः कपोतादिभिरनुमीयमानाः अनुपाख्या भवन्ति।
न्यासः
द्वितीये चानुपारव्ये। , ६।३।७९

"द्वयो सहप्रयुक्तयोरप्रधानो यः स द्वितीयः" इति। प्रधानेतरसन्निपाते सत्यप्रधान एव द्वितीयशब्दस्य प्रयोगात्()। तथा हि--स्वामिभृत्ययोः सहयुक्तयोर्भृत्य एव स्वामिनं प्रति द्वितीय उच्यते, न तु भृत्यं प्रति स्वामी। "उपाख्यायते यः स उपाख्यः" इति। "आतश्चोपसर्गे" ३।१।१३६ इति कः, स च भवन्? "कृत्यल्युटो बहुलम्()" ३।३।११३ इति कर्मणि भवति। "साग्निः कपोतः" इति। पूर्ववद्बहुव्रीहिः। अत्रागनिसहयुक्तः कपोतः, तयोर्हि साहचर्य लोके प्रसिद्धम्()। तत्राग्निरप्रधानः। तथा ह्रग्निः कपोतमनुविधत्ते--यत्र हि कपोतस्तत्राग्निनाऽवश्यं भवितव्यम्(), न तु यत्राग्निस्तत्र कपोतेनेति नासावग्निमनुविधत्ते, तेन कपोतस्य प्राधान्यम्()। अग्न्यादयः पुनरप्रधाना एव। "अग्न्यादयः" इति। अत्रादिशब्देन पिशाचदयो गृहयन्ते। तेन हि क्वचित्? प्रत्यक्षेण उपलभ्यन्ते, अपि तु कपोतादिभिरविनाभाविभिरनुमीयन्त इत्यनुपाख्या भवन्ति॥
बाल-मनोरमा
द्वितीये चानुपाख्ये ९९६, ६।३।७९

द्वितीये चानुपाख्ये। अप्रधानेऽसहाये द्वितीयशब्दो लाक्षणिकः। उपाख्यायते प्रतीयते उपलभ्यते इत्युपाख्यं=प्रत्यक्षम्। तदन्यदनुपाख्यम्। अनुमेयमिति यावत्। तदाह--अनुमेय इति। सहायवाचिन्युत्तरपदे परत इत्यर्थः। सराक्षसीकेति। "तेन सहे"ति बहुव्रीहिः। "नद्यृतश्चे"ति कप्। अनुमेयराक्षसीसहिता निशेत्यर्थः। तदाह--राक्षसी साक्षादिति।

तत्त्व-बोधिनी
द्वितीये चानुपाख्ये ८४६, ६।३।७९

द्वितीये। "अप्रधानो यः स द्वितीयः"इति लोकप्रसिद्धम्। उपाख्यं=प्रत्यक्षं, तद्भिन्नमनुमेयं। तदाह---अनुमेये इति। सराक्षसीकेति। "नद्यृतश्चे"ति कप्।