पूर्वम्: ६।३।८३
अनन्तरम्: ६।३।८५
 
सूत्रम्
ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्ण- वयोवचनबन्धुषु॥ ६।३।८४
काशिका-वृत्तिः
ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवर्योवचनबन्धुषु ६।३।८५

ज्योतिस् जनपद रात्रि नाभि नामन् गोत्र रूप स्थान वर्ण वयस् वचन बन्धु इत्येतेषु उत्तरपदेषु समानस्य स इत्ययम् आदेशो भवति। सज्योतिः। सजनपदः। सरात्रिः। सनाभिः। सनामा। सगोत्रः। सरूपः। सस्थानः सवर्णः। सवयाः। सवचनः। सबन्धुः।
न्यासः
ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु। , ६।३।८४

"सज्योति" इति। समानं ज्योतिरस्येति बहुव्रीहिः। एवं सजनपदादयो वेदितव्याः। तत्पुरुषेऽपि भवितव्यमेव; विशेषानुपातानात्()। "सनामा" इति। "सर्वनामस्थाने च" ६।४।८ इत्यादिना दीर्घः। "सवयाः" इति। अत्रापि "अत्वसन्तस्य" ६।४।१४ इति दीर्घ॥
तत्त्व-बोधिनी
ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु ८४८, ६।३।८४

सज्योतिरिति। समानं ज्योतिरस्येति बहुव्रीहिः। यस्मिन्ज्योतिषि आदित्ये नक्षत्रे वा संजातं तदस्तमयपर्यन्तमनुवर्तमानमाशौचं सज्योतिरित्युच्यते। इह "समानमध्यमध्यमवीराश्चे"ति प्रतिपदेक्त एव समासो न गृह्रते, "सरूपाणामेकशेषः"इति लिङ्गात्। किंतु बहुव्रीहिरपी"ति हरदत्तः।