पूर्वम्: ६।४।१३५
अनन्तरम्: ६।४।१३७
 
सूत्रम्
विभाषा ङिश्योः॥ ६।४।१३६
काशिका-वृत्तिः
विभाषा ङिश्योः ६।४।१३६

ङौ परतः शीशब्दे च अनो विभाषा अकारलोपो भवति। राज्ञि, राजनि। साम्नि, सामनि। साम्नी, सामनी।
लघु-सिद्धान्त-कौमुदी
विभाषा ङिश्योः २४९, ६।४।१३६

अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन् तस्याकारस्य लोपो वा स्याङत् ङिश्योः परयोः। दध्नि, दधनि। शेषं वारिवत्॥ एवमस्थिसक्थ्यक्षि॥ सुधि। सुधिनी। सुधीनि। हे सुधे, हे सुधि॥
न्यासः
विभाषा ङिश्योः। , ६।४।१३६

"शीशब्दे च" इति। एतेन "नपुंसकाच्च" ७।१।१९ इति यो विहितः शोशब्दस्तस्येदं ग्रहणम्(), न तु "जश्शसोः शिः" ७।१।२० इति यो विहितः शिशब्दस्तस्येदं ग्रहणमिति दर्शयति। कुतः पुनरेतज्ज्ञायते? शिशब्दे भसंज्ञाया अभावात्()॥
बाल-मनोरमा
विभाषा ङिश्योः २३५, ६।४।१३६

विभाषा ङिश्योः। "अल्लोपोऽन" इत्यनुवर्तते। "अङ्गस्ये"ति "भस्ये"ति चाधिकृतं। "भस्ये"त्यनेन च असर्वनामस्थानयजादिस्वादिपरत्वे पूर्ववदनो लभ्यते। तदाह--अङ्गावयव इति। ङिश्योरिति। ङिश्च शी चेति विग्रहः। "नपुंसकाच्चे"ति विहित एवाऽत्र शी गृह्रते, नतु जश्शसोश्शिः, तस्मिन् परे भत्वाऽसम्भवात्। पक्षे इति। यूषन्नादेशाऽभावपक्षे इत्यर्थः। अथ क्वचिच्छसादिभ्योऽन्यत्रापि पदाद्यादेशं साधायितुमाह--पद्दन्न इतीति। प्रकारेति। प्रकारः सादृश्यम्। तच्च प्रत्ययत्वेन बोध्यम्। प्रभृतिग्रहणस्य प्रकारार्थत्वे प्रमाणं दर्शयति--अत एवेति। प्रभृतिग्रहणस्य प्रकारार्थकत्वादेवेत्यर्थः। "ककुद्दोषणी याचते महादेवः" इत्येवं भाष्ये औङादेशभूतशीभावे परत उदाह्मतो दोषन्नादेशोऽत एव सङ्गच्छते इत्यन्वयः। तेनेति। प्रकारार्थकप्रभृतिग्रहणेनेत्यर्थः। "पदङ्घ्रि"रित्यत्र "प"दिति प्रथमैकवचनम्, "स्वान्तं ह्म"दित्यत्र ह्मदिति च सङ्गच्छत इत्यर्थः। आदिना निशादिसङ्ग्रहः। आसन्यं प्राणमिति। आसन्यं प्राणमूचुरिति चाऽत एव सङ्गच्छते इत्यन्वयः। आसनशब्दस्य आसन्नादेश इति भ्रमं वारयति--आस्ये भव इति। प्राणशब्दसमभिव्याहारादियमेव व्युत्पत्तिरिति भावः। "शरीरावयवाच्चे"त्यास्यशब्दाद्भवार्थे यत्प्रत्यये आसन्नादेशः। "ये चाऽभावाकर्मणोः" इति प्रकृतिभावा"न्नस्तद्धिते" इति टिलोपो न। प्रभृतिग्रहणस्य प्रकारार्थत्वाऽभावे त्विहाऽ‌ऽसन्नादेशो न स्यात्, यत्प्रत्ययस्य। शसादिषु सुप्स्वनन्तर्भावादिति भावः। ननु "दोषणी" इति भाष्ये नपुंसकप्रयोगोऽनुपपन्नः, "दोषं तस्य तथाविधस्ये"त्यादौ पुंस्त्वस्यैव प्रयोगदर्शनादित्यत आह--दोष्शब्दस्य द्वितीयैकवचनं दोरिति। पुंस्त्वे दोषमिति स्यादिति भावः।

ननु भाष्यानुसाराद्दोष्शब्दस्य नपुंसकत्वमेव स्यादित्यत आह--भुजेति। "भुजबाहू प्रवेष्टो दो"रिति कोशात्पुंस्त्वमपीत्यर्थः। नन्वयं कोशो दोष्शब्दस्य नपुंसकत्वेऽप्युपपन्न इत्यत आह-साहचर्यादिति। पुंलिङ्गभुजादिशब्दसाहचर्यादित्यर्थः। "साहचर्याच्च कुत्रचि"दिति कोशे परिभाषितत्वादिति भावः। दोष्शब्दस्य पुंस्त्वसाधने फलं दर्शयति--दोषं तस्येति। "दोषं तस्य तथाविधस्य भजतश्चापस्य गृह्णन् गुण"मिति श्रीहर्षः। दोषं हस्तं दूषणं च भजतश्चापस्य गुणं मौर्वीम्, अतिशयं च गृह्णन्नित्यन्वयः। अत्र दोषमिति दोष्शब्दस्य पुंलिङ्गद्वितीयैकवचनम्। अत्र "सु प्रभृतिष्वि"ति वाच्ये "शस्प्रबृतिष्वि"ति वचनात्सुपि क्वचिदेव पदाद्यादेशा इति गम्यते। द्वयोरह्नोरिति। "तद्धितार्थ" इति समासः। "कालाठ्ठ"ञिति ठञ्। "द्विगोर्लुगनपत्ये" इति लुक्। "राजाहः सखिभ्यष्ट"जिति टच्। "अह्नोऽह्न एतेभ्यः" इत्यह्नादेशः। रामशब्दवद्रूपाणि।

तत्त्व-बोधिनी
विभाषा ङिश्योः १९९, ६।४।१३६

विभाषा ङिश्योः। "शी"ति-"नपुंसकाच्चे"ति विहितो गृह्रते, न तु "जश्शसोः शिः"। तस्मिन्नमत्वात्। "भस्ये"त्यनेनाऽसर्वनामस्थानस्यैव यजादेराक्षेपात्। तदेतदाह--अरुआवनामस्थानेत्यादि। ककुद्दोषणी इति। ककुत्--दोषणी इति च्छेदः। एकपदत्वे त्वनुपपत्तिरनुपदमेव वक्ष्यते। आसन्यमिति। "ये चाभावकर्मणो"रिति प्रकृतिभावात् "नस्तद्धिते" इति टिलोपो न। अत एवेति। "ककुद्दोषणी" इति प्रयोगादेवेत्यर्थः। यंद्यपि ककुच्चदोश्च तयोः समाहारः ककुद्दोः। ककुद्दोश्च ककुदोश्च ककुद्दोषणी कृते भाष्यं सुयोजमिति दोःशब्दस्य नपुंसकत्वे नेदं प्रमाणं, तथापि "ककु"दित्यस्य पृथक्पदत्वमेव न्याय्यम्। अन्यथा बाह्वोर्द्वित्वे लब्धेऽपि ककुद एकत्वं न लभ्येतेति भावः। "तमुपाद्रवदुद्यम्य दक्षिणं दोर्निशाचरः" इति रघुः। तत्र दक्षिणं दोरुद्यम्य तमुपाद्रवदित्यन्वयः। दोषं तस्येति। अयं च श्रीहर्षप्रयोगः। दोषं हस्तु दूषणं च भजतः चापस्येति संबन्धः। द्वयोरह्नोर्भव इति। तद्धितार्थ इति समासः। "राजाहःसखिभ्य" इति टच्, "अह्नोऽह्न एतेभ्यः" इति अह्नादेशः, कालाट्टञो "द्विगोर्लुगनपत्ये" इति लुक्।