पूर्वम्: ६।४।१३४
अनन्तरम्: ६।४।१३६
 
सूत्रम्
षपूर्वहन्धृतराज्ञामणि॥ ६।४।१३५
काशिका-वृत्तिः
षपूर्वहन्धृतराज्ञाम् अणि ६।४।१३५

षकारपूर्वो यः अन् हनः धृतराज्ञश्च तस्य अकारलोपो भवति अणि परतः। औक्ष्णः। ताक्ष्णः। भ्रौणघ्नः। धार्तराज्ञः। षपूर्वहन्धृतराज्ञाम् इति किम्? सामनः। वैमनः। अनिति प्रकृतिभावेन अल्लोपटिलोपौ उभावपि न भवतः। अणि इति किम्? ताक्षण्यः।
न्यासः
षपूर्वहन्धृतराज्ञामणि। , ६।४।१३५

"अन्()" ६।४।१६७ इति प्रकृतिभावेनाल्लोपस्य निवृत्तिर्मा भूदित्येवमर्थ वचनम्()। "औक्ष्णः, ताक्ष्णः" इति। उक्षन्(), तक्षन्(), इत्येताभ्यामपत्यार्थेऽण्()। "भ्रौणाध्नः" इति। भ्रूणं हतवानिति "ब्राहृभ्रूणवृत्रेषु हनः" ३।२।८७ ["ब्राहृभ्रूणवृत्रेषु क्विप्()" इति सूत्रम्()] इति क्विप्(), तदन्तादण्(), "हो हन्तेर्ञ्णिन्नेषु" ७।३।५४ इति कुत्वम्()। "धात्र्तराज्ञः" इति। घृतराजशब्दाद्बहुव्रीहेरण्()। "सामनः, वैमनः" इति। "तस्येदम्()" ४।३।१२० इत्यण्(), "उभावपि न भवतिः" इति। अल्लोपटिलोपावुभावपि चापेक्ष्य प्रकृतिभावस्य विधानात्()। "ताक्षण्यः" इति। "कुर्वादिब्यो ण्यः" ४।१।१५१ इति ण्ये प्रकृते सेनान्तलक्षणकारित्वाण्ण्यप्रत्ययः" ४।१।१५२, "ये चाभावकर्मणोः" ६।४।१६८ इति प्रकृतिभावः॥
बाल-मनोरमा
षपूर्वहन्धृतराज्ञामणि ११४४, ६।४।१३५

ननु प्रकृतिभावादल्लोपो न स्यादत आह--षपूर्वहन्। "अल्लोपोऽनः" इत्यनुवर्तते। "भस्ये"त्यधिकृतं, तदाह--षपूर्व इति। ताक्ष्ण इति। "तक्ष्णोऽण उपसङ्ख्यान"मिति कारिलक्षणण्यस्यापवादोऽण्। ताक्षण्य इति। "सेनान्तलक्षणकारिभ्यश्च" इति ण्यः।

तत्त्व-बोधिनी
षपूर्वहन्धृतराज्ञामणि ९५१, ६।४।१३५

ताक्ष्ण इति। शिवादित्वात्, "तस्येदम्िति वाऽण्। ताक्ष्ण्य इति। कारिलक्षणोण्यः। कुलात्खः। केवलात्कुलशब्दात् "अपूर्वपदा"दित्यादिना विशेषविहिताभ्यामपि यङ्ङकञ्भ्यां खो न बाध्यते, तद्विधावन्यतरस्याङ्ग्रहणादित्याशयेनाह--।