सूत्रम्
घञि च भावकरणयोः॥ ६।४।२७
काशिका-वृत्तिः
घञि च भावकरनयोः ६।४।२७
भावकरनवाचिनि घञि परतो रञ्जेः उपधाया नकारस्य लोपो भवति। भावे आश्चर्यो रागः। विचित्रो रागः। करणे रज्यते अनेन इति रागः। भावकरणयोः इति किम्? रजन्ति तस्मिन्निति रङ्गः।
लघु-सिद्धान्त-कौमुदी
घञि च भावकरणयोः ८५६, ६।४।२७
रञ्जेर्नलोपः स्यात्। रागः। अनयोः किम्? रज्यत्यस्मिन्निति रङ्गः॥
न्यासः
घञि च भावकरणयोः। , ६।४।२७
"रज्यतेऽनेनेति रागः" इति। "हलश्च"
३।३।१२१ इति घञ्()। एवं "रङ्गः" इत्यत्रापि॥
तत्त्व-बोधिनी
घञि च भावकरणयोः १५१८, ६।४।२७
प्रायिकमिति। सर्वात्मना संज्ञाग्रहमत्यागे "कृतः कटर" इत्यत्र "कारः कट" इति स्यादिति भावः। भाष्ये त्वनभिधानमाश्रित्य प्रत्याख्यातम्।