पूर्वम्: ६।४।२८
अनन्तरम्: ६।४।३०
 
सूत्रम्
अवोदैधौद्मप्रश्रथहिमश्रथाः॥ ६।४।२९
काशिका-वृत्तिः
अवोदएद्ोद्मप्रश्रथहिमश्रथाः ६।४।२९

अवोद एध ओद्म प्रश्रथ हिमश्रथ इत्येते निपात्यन्ते। अवोद इति उन्देरवपूर्वस्य घञि नलोपो निपात्यते। एध इति इन्धेर् घञि नलोपो गुणश्च निपात्यते। न धातुलोप आर्धधातुके १।१।४ इति हि प्रतिषेधः स्यात्। ओद्म इति उन्देरौणादिके मन्प्रत्यये नलोपो गुणश्च निपात्यते। प्रश्रथ इति प्रपूर्वस्य श्रन्थेर्घञि नलोपो वृद्ध्यभवश्च निपात्यते। हिमश्रथ इति हिमपूर्वस्य श्रन्थेः घञ्येव निपातनम्।
न्यासः
अवोदैधोद्मपरश्रथहिमश्रथाः। , ६।४।२९

"अवोदः" इति। उपसर्गेण सह "आद्गुणः" ६।१।८४। "न धातुलोपः" १।१।४ इत्यादिना प्रतिषेधो न भवति; अनिग्लक्षणत्वाद्गुणस्य। "गुणश्च निपात्यते" इति। ननु च "पुगन्तलधूपधस्य" ७।३।८६ इत्येवं गुणः सिद्धः। तत्? किमर्थं निपात्यते? इत्याह--"न धातुलोपः" इत्यादि। "औणादिके मन्प्रत्ययः" इति। "अर्त्तिसतुसुहुसृधृक्षिक्षुभायावापदयक्षिनौब्यो मन्()" (द।उ।७।२६) [अर्त्तिस्तुसुहुसृधृक्षिक्षुभायापदियक्षिनीभ्यो मन्()--द।उ।] इत्यर्त्त्यादिभ्यो विधीयमानो बहुलवचनादुन्देरपि भवति। "श्रन्तेः" इति। "श्रन्थ मोचनप्रतिहर्षणयोः" (धा।प।१५१०) इत्यस्य॥
तत्त्व-बोधिनी
अवोदैधौद्मप्रश्रथहिमश्रथाः १५१७, ६।४।२९

अवोदै। अवोद इति। उन्दी क्लेदनेऽवपूर्वः। घञि नलोपो निपात्यते। एध इति। इन्धेर्घञि नलोपो गुणश्च निपात्यते। "न धातुलोपे" इति निषेधादप्राप्ते गुणस्य निपातनमिति ज्ञेयम्। ओद्म इति। उन्देरौणादिके मन्प्रत्ययो नलोपो गुणश्चाऽत्रापि निपात्यते। श्रन्थेरिति। प्रपूर्वस्य हिमपूर्वस्य च घञि निपात्यते इति बोध्यम्।