पूर्वम्: ६।४।२९
अनन्तरम्: ६।४।३१
 
सूत्रम्
नाञ्चेः पूजायाम्॥ ६।४।३०
काशिका-वृत्तिः
न अञ्चेः पूजायाम् ६।४।३०

अञ्चेः पूजायाम् अर्थे नकारस्य लोपो न भवति। अञ्चिता अस्य गुराः। अञ्चितम् एव शिरो वहति। अञ्चेः पूजयाम् ७।२।५३ इति इडागमः। पूजायाम् इति किम्? उदक्तमुदकं कूपात्। उद्धृतम् इत्यर्थः। यस्य विभाषा ७।२।१५ इति इट्प्रतिषेधः।
लघु-सिद्धान्त-कौमुदी
नाञ्चेः पूजायाम् ३४३, ६।४।३०

पूजार्थस्याञ्चतेरुपधाया नस्य लोपो न। प्राङ्। प्राञ्चौ। नलोपाभावादलोपो न। प्राञ्चः। प्राङ्भ्याम्। प्राङ्क्षु॥ एवं पूजार्थे प्रत्यङ्ङादयः॥ क्रुङ्। क्रुञ्चौ। क्रुङ्भ्याम्॥ पयोमुक्, पयोमुग्। पयोमुचौ। पयोमुग्भ्याम्॥ उगित्त्वान्नुमि - ,
न्यासः
नाञ्चेः पूजायाम्?। , ६।४।३०

"अनिदिताम्()" ६।४।२४ इत्यनेन प्राप्तस्य नलोपस्यायं प्रतिषेधः। एतस्मादेव प्रतिषेधान्नकारोऽयं इतचुत्वो निर्दिश्यत इति गम्यते। अथ "नाञ्चेरिटि" इत्येव कस्मान्नोक्तम्? एवमपि ह्रुच्यमाने पूजायमेव प्रतषेधो लभ्येत, तथा हि--पूजायामेवाञ्चतेरिङ् विहितः? अशक्यमेवं वक्तुम्(), "अञ्चेः पूजायाम्()" ७।२।५३ इत्यनेन क्त्वानिष्ठयोर्नित्यमिङ विहितः। यस्तु क्त्वाप्रत्ययः "उदितो वा" ७।२।५६ इति पाक्षिक इडागमः, स पूजायामपि भवति, तत्रैवमुच्यमाने यदा क्त्वाप्रत्ययस्य पूजायामिण्न स्यात्(), तदा प्रतिषेधो न स्यात्()। "गुरुमङ्क्त्वा" इति। "न" इत्येतत्प्रतिषेधवचनमुत्तरार्थम्()। इह "अञ्चेरपूजायाम्()" इत्युच्यमाने सतीष्टं सिद्ध्यत्येव। "अञ्चिता अस्य गुरवः" इति। "मतिबुद्धि" ३।२।१८८ इत्यादना क्तः। "क्तस्य च वर्तमाने" २।३।६७ इति षष्ठी। "यस्य विभाषेतीट्()प्रतिषेधः" इति। अञ्चितेः "उदितो वा" ७।२।५६ इति विकप्लेनेङविधानात्()॥
बाल-मनोरमा
नाञ्चेः पूजायाम् , ६।४।३०

पूजार्थादञ्चुधातोः क्विनि "अनिदिता"मिति नलोपे प्राप्ते--नाऽञ्चेः। "अनिदिता"मिति सूत्रात् "उपधायाः" "क्ङिती"त्यनुवर्तते। "श्नान्न लोपः" इत्यतो "नलोप" इत्यनुवर्तते। "ने"ति लुप्तषष्ठीकम्। तदाह--पूजार्थस्येत्यादिना। पूजाया गम्यत्वे सतीत्यर्थः, न त्वत्राञ्चुधातोः पूजार्थत्वमेवेह विवक्षितम्। अत एव "अञ्चितं गच्छती"त्यत्र नलोपो न। अञ्चतेरत्र समाधानमर्थः। समाहितो भूत्वा गच्छतीति गम्यते। समाधानं च अव्याकुलत्वम्, अव्याकुलं गच्छतीत्यर्थः। अव्याकुलगमने च पूजा गम्यते, नत्वञ्चतेरेव सोऽर्थ इति "अञ्चोनपादाने" इति सूत्रे भाष्यकैयटयोः स्पष्टम्। प्राङिति। प्रपूर्वादञ्चतेः क्विन्। प्रकर्षेण पूजनमञ्चेरर्थः। नलोपाऽभावे प्राञ्च इत्यतः सुबुत्पत्तिः। हल्ङ्यादिलोपः, संयोगान्तलोपः, ततोऽनुस्वारपरसवर्णनिवृत्तौ नकारस्य "क्विन्प्रत्ययस्य कुः" इति कुत्वेन ङकार इति भावः। प्राञ्चाविति। स्वाभाविकनकारस्य अनुस्वारपरसवर्णाविति भावः। अलुप्तेति। "उगिदचा"मित्यत्र नलोपिनोऽञ्चेतेरेव ग्रहणान्नुम्न। ततश्च नकारद्वयश्रवणं न शङ्क्यमिति भावः। नलोपाऽभावादिति। शसादावचि "अचः" इति लोपो न भवति। सुप्तनकारस्यैवाऽञ्चतेस्तत्र ग्रहणादिति भावः। प्राञ्च इति। प्र अञ्च् अस् इति स्थिते सवर्णदीर्घे रूपमिति भावः। "नाञ्चेः पूजाया"मित्यनारम्भे सुटि नुमैव रूपसिद्धावपि शसादावचि नकारश्रवणं न स्यात्, "अनिदिता"मिति लोपप्रसङ्गात्। असर्वनामस्थानतया "उगिदचा"मिति नुमश्चाऽप्रसक्तेरिति बोध्यम्। प्राङ्भ्यामिति। "स्वादिषु" इति पदत्वाच्चकारस्य संयोगान्तलोपेऽनुस्वारपरसवर्णनिवृत्तौ नकारस्य "क्विन्प्रत्ययस्ये"ति कुत्वेन ङकार इति भावः। इत्यादीति। प्राङ्भिः। प्राञ्चे, प्राङ्भ्याम्, प्राङ्भ्यः। प्राञ्चः, प्राञ्चोः, प्राञ्चाम्। प्राञ्चि, प्राञ्चोः। प्राङ्ख्ष्विति। "ङ्णोः कुक्टुक्" इति वा कुक्। "चयो द्वितीयाः" इति पक्षे खश्च बोध्यः। एवमिति। सुटि पूर्ववदेव रूपाणि। शसादावचि-प्रत्ययः। प्रत्यञ्चा। प्रत्यङ्भ्याम्। अमुमुयञ्चः। अमुमुयङ्भ्याम्। उदञ्चः। उदङ्भ्यामित्यादि ज्ञेयम्। क्रुञ्च कौटिल्येति। नलोपाभावोऽपीति। "अनिदिता"मिति नलोपाऽभावः, निरुपपदात्क्विन्नपि निपात्यत इत्यर्थः। सति तु नलोपे नकारो न श्रूयेत। "उगिदचा"मिति नुमः सर्वनामस्थानेऽप्यप्रवृत्तेः। वस्तुतस्तु स्वाभाविकञोपधस्यैव धातुपाठे निर्द#एशान्नलोपस्याऽत्र प्रसक्तिरेव नास्ति। अत एव "परेश्च घाङ्कयोः" इति सूत्रे भाष्ये "क्रुञ्चे"त्यत्र चकारे परे "चो कुः" इति कुत्वमाशङ्क्य ऋत्विगित्यादि सूत्रे क्रुञ्चेति निपातनात्कुत्वं नेत्युक्तं सङ्गच्छते। यदि तु नस्यानुस्वारपरसवर्णाभ्यां ञकारो निर्दिश्येत, तर्हि तस्य "चो कुः" इति कुत्वप्रसक्तिरेव नास्तीति तदसङ्गतिः स्यात्, कुत्वे कर्तव्ये परसवर्णस्याऽसिद्धत्वादित्यास्तां तावत्। नोपधत्वमभ्युपेत्य आह--क्रुङिति। हल्ङ्यादिलोपे संयोगान्तलोपे नकारस्य "क्विन्प्रत्ययस्ये"ति कुत्वम्। क्रुङ्भ्यामिति। संयोगान्तलोपे नकारस्य कुत्वं ङकारः। अत्र प्रथमैकवचने भ्यामादावपि कुत्वं निपातनादेव न भवति, चवर्गपञ्चमञकार एव सर्वत्रेति "परेश्च घाङ्कयोः" इति सूत्रभाष्यकैयटस्वरसः। पयोमुगिति। "मुच्लृ मोक्षणे"क्विप्। सुपूर्वात् "ओ व्रस्चू छेदने" इति धातोः क्विपि "ग्राहिज्ये"ति सम्प्रसारणे सुवृश्च्शब्दः। तस्य विशेषमाह-षत्वमिति। हल्ङ्यादिना सुलोपे कृते चकारस्य षत्वमित्यर्थः। सलोप इति। धातुपाठे व्रस्चू इति सस्य श्चुत्वे कृते "व्रश्चू" इति निर्देशः। तत्र श्चुत्वस्याऽसिद्धत्वात् "स्कोः" इति सकारस्य लोप इत्यर्थः। "वावसाने" इति चर्त्वे षस्य टः। तदभावे जश्त्वेन ड इत्यर्थः। सुवृट्()त्स्विति। चत्र्वस्याऽसिद्धत्वात्पूर्वं "डः सी"ति वा धुट्। ततस्चत्र्वमिति भावः। इति चान्ताः। अथ तान्ताः। अछ महच्छब्दे विशेषं वक्तुमाह--वर्तमाने। उणादिसूत्रमेतत्। निपात्यन्ते इति। तत्र "पृषु सेचने" "बृह वृद्धौ" अनयोर्गुणाऽभावः, महेः कर्मणि अतिप्रत्ययः, "गमेर्जगादेशश्चेति विशेषः। शतृवदिति। शतृप्रत्ययान्तवदित्यर्थः। उगित्त्वादिति। शतृवद्भावेन सुटि उगित्त्वान्नुमित्यर्थः। सान्तेति। सुटि महन्त स् औ इत्यादिस्थितौ नकारात्पूर्वस्य अकारस्य दीर्घ इत्यर्थः। मह्रते इति। कर्तरि कृत्" इति कत्र्रर्थं बाधित्वा निपातनात् "मह पूजायाम्" इति धातोः कर्मणि अतिप्रत्यय इति भावः। महानिति। नुमि दीर्घे सुलोपे संयोगान्तलोप इति भावः। महान्ताविति। नुमि दीर्घे अनुस्वारपरसवर्णाविति भावः। हे महन्निति। असंबुद्धावित्यनुवृत्तेः "सान्तमहतः" इति दीर्घो नेति भावः। महत इति। असर्वनामस्थानत्वाच्छसादौ न दीर्घः। धीरस्यास्तीत्यर्थे धीशब्दान्मतुप्, पकार इत्, उकार उच्चारणार्थः। तद्धितान्तत्वेन प्रातिपदिकत्वात्सुबुत्पत्तिः।

तत्त्व-बोधिनी
नाञ्चेः पूजायाम् ३७६, ६।४।३०

नाञ्चेऋ। नुमैव सिद्धे "प्राञ्चः "प्राञ्चे"त्यादौ नुमोऽभावेऽपि नकारश्रवणार्थः। प्राङिति। प्रकर्षेणाऽञ्चति पूजयतीति पूजार्थादञ्चेः क्विन्। प्रङ्क्षिति। "ङ्णोः कुक्टु"गिति वा कुक्। "चयो द्वितीया"इति क्षे खकारोऽपि बोध्यः। एवमिति। शसादिषु--प्रत्यञ्चः। प्रत्यङ्भ्याम्। अमुमुयञ्चः अमुमुयङ्भ्याम्। उदञ्चः। उदङ्भ्यामित्यादि ज्ञेयम्। क्रुञ्चतीति क्रुङ्। सलोप इति। श्चुत्वस्याऽसिद्धत्वात्पूर्वं "डः सी"ति वा धुट्। ततश्चत्र्वम्। इति चान्ताः। निपात्यन्तः इति। "पृषु सेचने"। "बृह वृद्धौ"। अत्र गुणाऽभावः। महेः कर्मणि प्रत्ययः। अतएव मह्रते पूज्यते महानिति व्याचष्टे। गमेस्तु जगादेशः। चत्वारोऽप्यतिप्रत्ययान्ताः। एतच्चोणादिषु स्फुटीकरिष्यते।