पूर्वम्: ६।४।३४
अनन्तरम्: ६।४।३६
 
सूत्रम्
शा हौ॥ ६।४।३५
काशिका-वृत्तिः
शा हौ ६।४।३५

शासो हौ परतः शा इत्ययम् आदेशो भवति। अनुशाधि। प्रशाधि। उपधायाः इति निवृत्तम्, ततः शासः इति स्थानेयोगा षष्ठी भवति। क्ङति एतदपि निवृत्तम्। तेन यदा वा छन्दसि ३।४।८८ इति पित्त्वं हिशब्दस्य तदा अप्यादेशो भवत्येव। शाधि इत्याद्युदात्तम् अपि छन्दसि दृश्यते।
न्यासः
शा हौ। , ६।४।३५

यद्यत्र "उपधायाः" ६।४।२४ इति वत्र्तते, ततो यथा पूर्वसूत्रे "शासः" ६।४।३४ इत्यवयवभूता षष्ठी, तथेहापि स्यात्? एवञ्चोपधाया एवायमादेशः, प्रसज्येत, सर्वादेशश्चेष्यत इति मनसि कृत्वाह--"उपधाया इति निवृत्तम्()" इति। तद्धि उपधागरहणं क्ङिद्ग्रहणेन सम्बद्धम्(), इह च क्ङिद्ग्रहणं निवृत्तम्()। तस्मात्? "उपधायाः" ६।४।२४ इत्यस्यापि निवृत्तिर्भवति। "क्ङिति" इत्येतदपि निवृत्तम्()" इति। "अनुदात्तोपदेश" ६।४।३७ इत्यादौ सूत्रे पुनः क्ङिद्ग्रहणात्()। "तेन" इत्यादिना क्ङिद्ग्रहणे निवृत्ते यदिष्टं सम्पद्यते तद्दर्शयति--यद्यत्र "क्ङिति" ६।४।२४ इत्येतदनुवत्र्तेतततो "वा च्छन्दसि" (३।४।८८) इति यसमिन्पक्षे हेरपित्त्वं न भवति तस्मिन्? पक्षे "सार्वधातुकमपित्()" (१।२।४) इति वचनात्? ङित्त्वं नास्तीति शाभावो न स्यात्()। क्ङिद्ग्रहणे तु निवृत्तेऽपित्त्वपक्षेऽपि भवत्येव। स्यादेतत्()--व्यवस्थितविभाषाविज्ञानाच्छास उत्तरस्य हेः पित्त्वं न भविष्यति, ततो नार्थः क्ङिद्ग्रहणेन निवर्त्तितेन? इत्यत आह--"शाधीत्येतत्()" इत्यादि। यदि शास उत्तरस्य हेः पक्षे पित्त्वं न स्यात्(), तदा शाधीत्येतत्? सतिशिष्टत्वेन प्रत्ययस्वरेणान्तोदात्तमेव स्यात्()। आद्युदात्तमपि च्छन्दसीष्यते। तच्च हेः पित्त्वे सति धातुस्वरेण सम्पद्यते, नान्यथा। तस्मादवश्यं च्छन्दसि यक्षे पित्त्वं विधेयम्()। अथ "आ हौ" इत्येवं कस्मान्नोक्तम्(), अकोरेऽपि हि "अलोऽन्त्यस्य" (१।१।५२) इति सकारस्य विहिते सवर्णदीर्घत्वेन शाधीत्येतत्? सिद्धं भवति? न सिद्ध्यति; पूर्वसूत्रेणोपधाया इत्त्वं स्यात्()। न चायं तस्य बाधको युज्यते; असति च सम्भवे बाधनं भवति, अस्ति च सम्भवो यदुभयं स्यात्(), अत्रास्ति सम्भवः। तस्मादकारेऽन्त्यसय विहित उपधाया इत्त्वं स्यादेव॥ "हन्तेः" इति। स्पिपा निर्देशो यङलुग्निवृत्त्यर्थः--"जङ्घहि"॥
बाल-मनोरमा
शा हौ ३१७, ६।४।३५

शा हौ। "शा" इति लुप्तप्रथमाकम्। "शास इदङित्यतः शास इत्यनुवर्तते। तदाह-- शास्तेरिति। इत्त्वापवारदः। ननु शासेः शाभावे सति झल्परत्वाऽभावात्कतं हेर्धिरित्यत आह-- तस्याभीयत्वेनेति। यद्यपि "धि चे"ति सलोपे शाधीति सिद्धम्, तथापि सलोपस्याऽसिद्धत्वात् "शास इ"दिति इत्त्वं स्यात्। तन्निवृत्तये शाविधानमित्याहुः। लङ्याह--अशादिति। "तिप्यनस्ते" रिति दत्वे चत्र्वविकल्प इति भावः। अशासुरिति। अभ्यस्तत्वाज्जुसिति भावः। अशाः अशादिति। "सिपि धातो"रिति रुत्वदत्वविकल्प इति भावः। अशिष्टम् अशिष्ट। अशासम् अशिष्व अशिष्म। शिष्यादिति। "शास इत् इति इत्त्वे "शासिवसी"ति ष इति भावः। अशिषदिति। अङि इत्त्वमिति भावः। दीधीङ्धातुरीकारान्तः। ङित्त्वादात्मनेपदी। एतदादयः पञ्चेति। इदं च माधवानुरोधेन। तत्त्वं त्वग्रे वक्ष्यते। जक्षित्यादित्वादभ्यस्तत्वाज्झस्य अदादेशः। दीध्यते। दीधीषे दीध्याथे दीधीध्वे। लट इडादेशे आह--

तत्त्व-बोधिनी
शा हौ २७५, ६।४।३५

शा हौ। शादेश इति। "धि चे"ति सलोपेन शाधीति रूपे सिद्धेऽपि सलोपस्याऽसिद्धत्वात् "शासै"दिति इत्वं स्यात्; तद्वारणाय शाविधानमित्याहुः।