पूर्वम्: ६।४।३
अनन्तरम्: ६।४।५
 
सूत्रम्
न तिसृचतसृ॥ ६।४।४
काशिका-वृत्तिः
न तिसृचतसृ ६।४।४

तिसृ चतसृ इत्येतयोः नामि दीर्घो न भवति। तिसृणाम्। चतसृणाम्। इदम् एव नामि इति दीर्घप्रतिषेधवचनं ज्ञापकम् अचि र ऋतः ७।२।१०० इत्येतस्मात् पूर्वविप्रतिषेधेन नुडागमो भवति इति।
लघु-सिद्धान्त-कौमुदी
न तिसृचतसृ २२७, ६।४।४

एतयोर्नामि दीर्घो न। तिसृणाम्। तिसृषु॥ द्वे। द्वे। द्वाभ्याम्। द्वाभ्याम्। द्वाभ्याम्। द्वयोः। द्वयोः॥ गौरी। गौर्य्यौ। गौर्य्यः। हे गौरि। गौर्य्यै इत्यादि। एवं नद्यादयः॥ लक्ष्मीः। शेषं गौरीवत्॥ एवं तरीतन्त्र्यादयः॥ स्त्री। हे स्त्रि॥
न्यासः
न तिसृचतसृ। , ६।४।४

"तिसृ, चतसृ" इति "सुपां सुलुक्()" ७।१।३९ इति षष्ठीद्विवचनस्य लुकं कृत्वा निर्देशः कृतः। "तिसृणाम्(), चतसृणाम्()" इति। "त्रिचतुरोः स्त्रियां तिसृचतसृ" ७।२।९९ इति तिसृचतरुआआदेशौ भवतः। ननु चात्र दीर्घत्वस्य प्राप्तिरेव नास्ति। तत्? किं प्रतिषेधेनेति? तथा ह्रत्रादेशयोः कृतयोरुभयं प्राप्नोति--नुडागमः, "अचि र ऋतः" ७।२।१०० इति रेफादेशश्च, तत्र परत्वाद्रेफादेशे सत्यनजन्तमङ्गं भवति। अजन्तस्य दीर्घत्वेन भवितव्यम्(), दीर्घग्रहणेन "अचश्च" १।२।२८ इत्यस्या उपस्थापितत्वादित्यत आह--"इदमेव" इत्यादि। यद्यत्र रेफादेशः स्यादयं प्रतिषेधो न कृतः स्यात्(), कृतश्च, तस्()मादयं प्रतिषेधो ज्ञापयति--"अचि र ऋतः" (७।२।१००) इत्यस्मात्? पूर्वविप्रतिषेधेन नुडागमो भवतीति। तेन "नुमचिरऋत ज्वद्भावेभ्यो नुड्? भवति पूर्वविप्रतिषेधेन" इत्येतदुक्तं भवति॥
बाल-मनोरमा
न तिसृचतसृ २९८, ६।४।४

तिसृ-नामिति स्थिते "नामी"ति दीर्घे प्राप्ते-न तिसृचतसृ। "तिसृचतसृ" इति लुप्तषष्ठीकं पदम्। "ढ्रलोपे" इत्यतो "दीर्घ" इत्यनुवर्तते। "नामी"ति सूत्रं चानुवर्तते। तदाह--तिसृ इत्यादिना। तिसृणामिति। ऋवर्णान्नस्ये"ति णत्वम्। ननु "अचि र" इति रत्वम् "ऋत उदि"त्युत्त्वस्य कथमपवादः स्यात्, उत्त्वस्य ङसिङसोरेव प्राप्तेः, त्रिचतुर्शब्दयोश्च नित्यं बहुवचनान्तत्वेन ङसिङसोरभावादिति चेन्न, "प्रियतिरुआ" इत्यादिबहुव्रीहौ तत्सत्त्वात्। तच्चानुपदमेव वक्ष्यते। ननु प्रियास्त्रयस्त्रीणि वा यस्याः सा प्रियत्रिरिति बहुव्रीहावपि तिरुआआदेशः कुतो न स्यादित्यत आहस्त्रियामित्यादि। प्रियत्रिशब्दो हि स्त्रीलिङ्गो नतु त्रिशब्दः। स्त्रियामिति। त्रिचतुरोर्विशेषणं, नतु तदन्तयोः, प्रमाणाऽभावात्। न चाङ्गत्वात्तदन्तलाभः इति वाच्यम्, एवमपि त्रिचतुरोरेव प्रत्यक्षश्रुतत्वेन स्त्रियामित्यस्य तद्विशेषणताया एवोचितत्वादिति भावः। "ङिति ह्यस्वश्चे"ति नदीत्वविकल्पं मत्वाह--मतिशब्दवदिति। आमि त्विति। षष्ठीबहुवचने "त्रेस्त्रयः" इति त्रयादेशस्य आङ्गत्वेन तदन्तेऽपि प्रवृत्तेरिति भावः। एवं च स्त्रियामित्यस्य त्रिचतुरन्ताङ्गविशेषणत्वे प्रियत्रिशब्दे पुंनपुंसकलिङ्गत्रिशब्दगर्भबहुव्रीहावतिव्याप्तिः स्यादिति त्रिचतुरोरेव स्त्रियामिति विशेषणमिति स्थितम्। अथ स्त्रीलिङ्गत्रिशब्दगर्भबहुव्रीहावव्याप्तिनिरासार्थमपि स्त्रियामिति त्रिचतुरोरेव विशेषणं, न तु तदन्तयोरिति मत्वाह--प्रियस्तिरुआ इत्यादि। प्रियतिसेति। समासे सत्यन्तर्वर्तिविभक्तेर्लुका लुप्तत्बात्तिरुआआदेशनिवृत्तौ प्रियत्रिशब्दात्सुः। अत्र प्रियत्रिशब्दस्य पुंलिङ्गत्वेऽपि त्रिशब्दस्य स्त्रीलिङ्गत्वात्तिरुआआदेशः। "ऋदुशन"सित्यनङ्। "सर्वनामस्थाने चे"ति दीर्घः। नलोपः। स्त्रियामित्यस्य त्रिचतुरन्ताङ्गविशेषणत्वे त्वत्राऽव्याप्तिः स्यादिति भावः।

ननु त्रिचतुरन्ताङ्गविशेषणत्वेऽपि नात्राऽव्याप्तिः, प्रियास्तिरुआओ यस्येति विग्रहवाक्ये प्रवृत्तस्य तिरुआआदेशस्य समासेऽप्यनुवृत्तिसंभवादिति चैन्मैवं, लौकिकवाक्यं हि परिनिष्ठितत्वात्समासस्य न प्रकृतिः, किन्त्वलौकिकमेव प्रक्रियावाक्यम्। ततश्च प्रिया अस् त्रिअसित्यलौकिकप्रक्रियावाक्ये समासप्रवृत्तौ "अन्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते" इति परिभाषया तिरुआआदेशं बाधित्वं विभक्तिलुकि प्रियत्रिशब्दात्समासात्सुबुत्पत्तौ त्रिचतुरोरित्यस्यङ्गत्वात्तदन्तविधावपि "निर्दिश्यमानस्यादेशा भवन्ती"ति परिभाषया त्रिशब्दस्य तिरुआआदेशः। स च स्तिरायमित्यस्य त्रिचतुरन्ताङ्गविशेषणत्वे सति न स्यात्, प्रियत्रिशब्दस्याङ्गस्य पुंलिङ्गत्वात्। सति चात्र तिरुआआदेशे "नद्यृतश्चे"ति कप्तु न। स हि समासान्तत्वात्समासवदलौकिकविग्रहवाक्ये प्रवृत्तिमर्हति। तदानीं च उत्तरपदस्य त्रिशब्दस्य ऋदन्तत्वाऽभावान्न कप्। अन्तर्वर्तिविभक्तेर्लुका लुप्तत्वेन प्रत्ययलक्षणाऽभावाच्च जस्निमित्तकतिरुआआदेशस्याऽभावात्। नचाऽकृते समासान्ते कपि प्रियात्रिशब्दात्सुबुत्पत्तौ तिरुआआदेशे सति कप् शङ्क्यः। अकृते कपि समासान्ते समासत्वस्यैव#आऽनिष्पत्त्या ततः सुबुत्पत्तेरसंभवादित्यास्तां तावत्। प्रियतिरुआआविति। गुणं बाधित्वा रत्वम्। प्रयतिरुआ इति। जसि पूर्वसवर्णदीर्घं बाधित्वा रत्वम्। प्रियतिरुआमिति। अमि पूर्वरूपं गुणं च बाधित्वा रत्वम्। "गुणदीर्घोत्त्वानामपवादः" इति पूर्वरूपास्याप्युपलक्षणम्। इत्यादीति। प्रियतिरुआऔ। प्रियतिरुआः। प्रियतिरुआआ। प्रियतिरुओ। ङसिङसोः-प्रियतिरुआ इत्येव, "ऋत उत्" इत्युत्त्वं बाधित्वा रत्वम्। प्रियतिस्रोः। आमि त्रयादेशं बाधित्वा परत्वात्तिरुआआदेशे सति रत्वं बाधित्वा "नुमचिरे"ति नुट्। प्रियतिसृणाम्। प्रियतिरुआः। "ऋतो ङी"ति गुणाऽपवादो रत्वम्। प्रियतिस्रोः। ननु प्रियास्तिरुआओ यस्य तत्कुलं प्रियत्रीति कथम्?। त्रिशब्दस्य स्त्रीलिङ्गत्वेन तिसृभावप्राप्तेरित्यत आह--स्वमोर्लुकेति। "स्वमोर्नपुंसका"दिति स्वमोर्लुका लुप्तत्वेन "न लुमते"ति प्रत्ययलक्षणाऽभावाद्विभक्तिपरकत्वाऽभावान्न तिसृभाव इत्यर्थः। अनित्यत्वादिति। "न लुमते"त्यस्याऽनित्यत्वम् "इकोऽचि विभक्तौ" इत्यज्ग्रहणादिति नपुंसकाधिकारे वक्ष्यते।

अजादिविभक्तौ "नपुंसकस्य झलचः" इति नुमपेक्षया परत्वा "दचि र ऋतः" इति रत्वमाशङ्क्याह--कत्वादिति ल्यब्लोपे पञ्चमी। पूर्वविप्रतिषेधेन रत्वं बाधित्वा नुमित्यर्थः। प्रियतिसृणी इति। रत्वं बाधित्वा नुमि णत्वम्। प्रियतिसृ()णीति। जश्शसोश्शिः। रत्वं बाधित्वा नुम्। शेः सर्वनामस्तानत्वान्नान्तलक्षणदीर्घः, णत्वम्। "प्रत्ययोत्तरपदयोश्चे"ति सूत्रे प्रियतिसृणी, प्रियतिसृ()णीति भाष्योदाहरणात्पूर्वविप्रतिषेधमाश्रित्य नुमा रत्वबाध इति बोध्यम्। प्रियतिसृणेति। टायां पुंवत्त्वाऽभावपक्षे नुमि रूपम्। प्रिततिरुओति। पुंवत्त्वे नुमभावाद्रत्वम्। इत्यादिति। आदिना प्रियतिरुओ, प्रियतिसृणे इत्यादि बोध्यम्। द्वेरत्वे इति। द्विशब्दाद्विभक्तौ सत्यां त्यदाद्यत्वे "अजाद्यतः" इति टाबित्यर्थः। द्वे इत्यादि। टापि सति सवर्णदीर्घे द्वाशब्दस्य रमावद्रूपाणीति भावः। इति इदन्ताः।

अथ ईदन्ताः। गौरीति गौरशब्दाद्गौरादिलक्षणङीषि "यस्येति च" इत्यकारलोपे गौरीशब्दः। तस्मात्सुः, हल्ङ्यादिलोप इति भावः। गौर्याविति। "दीर्घाज्जसि चे"ति पूर्वसवर्णदीर्घनिषेधे यणिति भावः। गौर्य इति। "दीर्घाज्जसि चे"ति पूर्वसवर्णदीर्घनिषेधे यणिति भावः। नदीकार्यमिति। "अम्बार्थनद्योह्र्यस्वः" "आण्नद्याः"। "ह्यस्वनद्यापो नुट्" "ङेराम्नीभ्यः" इति विहितमित्यर्थः। "यू स्त्र्याख्यौ" इति नदीत्वम्। बहुश्रेयसीवत्। एवं वाणीनद्यादय इति। "वण शब्दे" वण्यते शब्द्यते इति वाणी। "इञ्वपादिभ्यः"ति इञ्। "कृदिकारादक्तिनः" इति ङीष्। "नदट्" इति पचादौ पठिताट्टित्त्वान्ङीप्। आदिना कत्री दण्डिनीत्यादिसङ्ग्रहः। "सख्यशि()आईति भाषाया" मिति सखिशब्दात्ङीषि "यस्येति चे"तीकारलोपे सखीशब्दः।

तस्य "अनङ् सौ" इत्यनङं "सख्युरसम्बुद्धौ" इति णिद्वत्त्वं चाशङ्कते--प्रातिपदिकेति। "विभक्तौ लिङ्गविशिष्टाग्रहणम्"। "युवोरनाकौ" इत्यत्र "ङ्याप्प्रातिपदिकात्" इत्यत्र च भाष्ये इयं परिभाषा पठिता। विभक्तिनिमित्तके कार्ये कर्तव्ये प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य ग्रहणं नास्तीत्यर्थः। तथा च अनङ् णिद्वत्त्वं च न भवतीति भावः।

सखीति। ङ्यन्तत्वात्सुलोपः। सख्यैत्यादीति। गौरीवदेव रूपाणित्यर्थः। "लक्षेर्मुट् चे"ति लक्षधातोरीप्रत्यये मुडागमे लक्ष्मीशब्दः। तस्य विशेषमाह-अङ्यन्तत्वादिति। "कृदिकारादक्तिनः" इति ङीषि तु सुलोपो भवत्येव। शेषं गौरीवत्। स्त्रीति। "स्त्यै शब्दसंघातयोः"। स्त्यायतः सङ्गते भवतोऽयस्यां शुक्रशोणिते इति स्त्री। स्त्यायतेः ड्रट्। डटावितौ। ङित्त्वसामथ्र्यादभस्यापि टेर्लोपः। लोपोव्यो"रिति यलोपः। टित्त्वान्ङीप्। हल्ङ्यादिलोप इति भावः। हे स्त्रि इति। अम्बार्थेति ह्यस्वः। स्त्री औ इति स्थितेऽधात्विकारत्वात् "अचि श्नुधातु" इति इयङ्यप्राप्ते-।

तत्त्व-बोधिनी
न तिसृचतसृ २६०, ६।४।४

त्रिचतुरोर्विशेषणादिति। श्रुतत्वाद्भि "त्रिचतुरो"रित्यस्यैव "स्त्रिया"मिति विशेषणं, नाङ्गस्येति भावः। प्रियास्तिस्त्र इति। "प्रिया जस् त्रि जस्िति स्थिते "अन्तरङ्गानपि विधान्वहिपङ्गो लुग्बाधते"इत्यकृत एव तिरुआआदेशे सुपो लुकि कृते समासाद्या विभक्तिस्तस्यां परतस्तिरुआआदेशः। "स्त्रियाः पुंव"दिति प्रियाशब्दस्य पुंवद्भावः। "ऋदुशेन"त्यनङ्। यद्यपि इह जहत्स्वार्थावृत्तिपक्षे त्रिशब्दस्य निर्थकत्वेन स्त्रीवाचित्वं दुर्लभं, तथापि भूतपूर्वगत्या स्त्रियां वृत्तिर्बोध्या। "उत्तरपदार्थप्रधानस्तत्पुरुष"इत्यादिसिद्धान्तप्रवादस्यैवमेव निर्वाह्रत्वात्। "अजहत्स्वार्था वृत्ति"रिति पक्षे तु "स्त्रीनिष्ठसङ्ख्यासमर्पकयोस्त्रिचतुरो"रिति विवक्षितोऽर्थः, तेन प्रियास्त्रयस्त्रीणि वा यस्याः सा "प्रियत्रि"रित्यत्र प्रियत्रिशब्दस्य स्त्रियां वृत्तित्वेऽपि न तिस्त्रादेसप्रसङ्गः,"प्रत्ययोत्तरपदयोश्चे"त्येतत्सूत्रगतभाष्यग्रन्थसन्दर्भश्चोक्तव्याख्याने प्रमाणाम्। अनित्यत्वादिति। "इकोऽची"त्यज्ग्रहणमिह लिङ्गम्। तथाहि---भ्याम्मिसादिषु सत्यपि नुमि "नलोपः प्रातिपदिकान्तस्ये"ति तल्लोपसंभवाचीति व्यर्थम्। न च "न ङिसंबिद्द्यो"रिति निषेधात्सम्बुद्धौ लोपो न संभवतीति तत्रानिष्टवारणायाऽचीत्यावश्यकमिति वाच्यं, संबुद्धिश्च लुका लसुप्तेति नुमः प्राप्तेरेव तत्र दुर्लभत्वात्। "न लुमते"ति निषेधस्याऽनित्यतां विना तत्र प्रत्ययलक्षणाऽप्रवृत्तेः। नाप्युत्तरार्थं तदिति वाच्यम्, उत्तरत्रैव कर्तव्ये तत्राऽचीति करणस्य वैयथ्र्यात्। "न लुमते"ति निषेधस्याऽनित्यत्वे तु संबुद्धौ प्रतत्यलक्षणेन प्राप्तं नुमं वारयितुंम तदिति भवत्येवाऽज्ग्रहणं लिङ्गम्। न चेदमनित्यत्वं संबुद्धिगुणमात्रविषयकमित्यबिनिवेष्टव्यं, लक्ष्यानुरोधेनाऽन्यत्रापि क्वचित्तदब्युरगमे बाधकाऽभावात्। अतएव "प्रियतिसृ""प्रियत्री"ति रूपद्वयमपि कैयटेन स्वीकृतम्।

रादेशात्पूर्वविप्रतिषेधेन नुम्। रादेशादिति। तत्र "प्रियतिसृणी," "प्रियतिसृ()णी"ति भाष्यं मानम्। इत्यादीति। प्रियतिस्त्रे। प्रियातिसृणे। प्रियतिरुआः। प्रियतिसृणः। आमि रादेशं बाधित्वा पूर्वविप्रतिषेधेन नुम्, तं च बाधित्वा पूर्वविप्रतिषेधेन नुट्। प्रियतिसृणाम्। द्वेरत्वे सत्याबिति। विभक्तिसंनिपातकृतमपि त्यदाद्यत्वं टापो निमित्तं, "न यासयो"रिति निर्देशेन संनिपातपरिभाषायां अमित्यत्वादिति भावः।

विभक्तौ लिह्गविशिष्टाऽग्रहणम्। अङ्यन्तत्वादिति। केचिदिह "कृदिकारा"दिति पाक्षिक ङीषमिच्छन्ति तन्मते तु सुलोपः पक्षे स्यादेव। अतएव "वातप्रमी""श्री""लक्ष्मी"तिपक्षे ङ्यन्ताः सुसाधव इति रक्षितः। "लक्ष्मीर्लक्ष्मी हरिप्रिये"ति द्विरूपकोशश्च।