पूर्वम्: ७।२।९८
अनन्तरम्: ७।२।१००
 
सूत्रम्
त्रिचतुरोः स्त्रियां तिसृचतसृ॥ ७।२।९९
काशिका-वृत्तिः
त्रिचतुरोः स्त्रियां तिसृचतसृ ७।२।९९

त्रि चतुरित्येतयोः स्त्रियां वर्तमानयोः तिसृ चतसृ इत्येतावादेशौ भवतो विभक्तौ परतः। तिस्रः। चतस्रः। तिसृभिः। चतसृभिः। स्त्रियाम् इति किम्? त्रयः। चत्वारः। त्रीणिं। चत्वारि। स्त्रियाम् इति च एतत् त्रिचतुरोरेव विशेषणं न अङ्गस्य। तेन यदा त्रिचतुःशब्दौ स्त्रियाम्, अङ्गं तु लिङ्गान्तरे, तदा अप्यादेशौ भवत एव। प्रियाः तिस्रो ब्राह्मण्यो ऽस्य ब्राह्मणस्य प्रियतिसा ब्राह्मणः। प्रियतिस्रौ, प्रियतिस्रः। प्रियतिसृ ब्राह्मणकुलम्, प्रियतिसृणी, प्रियतिसृ̄णि। प्रियचतसा, प्रियचतस्रौ, प्रियचतस्रः। प्रियचतसृ, प्रियचतसृणी, प्रियचतसृ̄णि। नद्यृतश्च ५।४।१५३ इति समासान्तो न भवति, विभक्त्याश्रयत्वेन तिसृभावस्य बहिरङ्गलक्षणत्वात्। यदा तु त्रिचतुःशब्दौ लिङ्गान्तरे, स्त्रियाम् अङ्गम्, तदा आदेशौ न भवतः। प्रियाः त्रयो ऽस्याः, प्रियाणि त्रीणि वा अस्याः ब्राह्मण्याः सा प्रियत्रिः। प्रियत्री, प्रियत्रयः। प्रियचत्वा, प्रियचत्वारौ, प्रियचत्वारः। तिसृभावे संज्ञायां कन्युपसङ्ख्यानं कर्तव्यम्। तिसृका नाम ग्रामः। चतसर्याद्युदात्तनिपातनं कर्तव्यम्। चतस्त्रः पश्य इत्यत्र चतुरः शसि ६।१।१३२ इत्येष स्वरो मा भूत्। चतसृणाम् इत्यत्र तु षट्त्रिचतुर्भ्यो हलादिः ६।१।१७३ इत्येव स्वरो भवति। हलादिग्रहणसामर्थ्यान् निपातनस्वरो बाध्यते।
लघु-सिद्धान्त-कौमुदी
त्रिचतुरोः स्त्रियां तिसृचतसृ २२५, ७।२।९९

स्त्रीलिङ्गयोरेतौ स्तो विभक्तौ॥
न्यासः
त्रिचतुरीः स्त्रियां तुसृचतसृ। , ७।२।९९

"त्रयः" इति। "जसि च" ७।३।१०९ इति गुणः। "चत्वारः" इति। "चतुरनडुहोरामुदात्तः" ७।१।९८ इत्याम्()। "त्रीणि" इति। "जश्शसोः शिः" ७।१।२० इति शिभावः, "नपुंसकस्य झलचः" ७।१।७२ नुम्(), "नोपधायाः" ६।४।७, "सरवनामस्थाने चासम्बुद्धौ" ६।४।८ इति दीर्घः। "स्त्रियामिति चैतत्? त्रिचतुरोर्विशेषणम्()" इति। तयोरेव श्रुतत्वात्()। "नाङ्गस्य" इति। एवकारस्य व्यवच्छेद्यं दर्शयति--"तेन" इति। विशेषणविशेष्यभावेन। यदि हि स्त्रियामित्यनेनाङ्गमेव विशेष्यते,["विशेष्येत"--मुद्रितपाठः] ततो यदा त्रिचतुशब्दौ पुंसि नपुंसके वा वत्र्तेते, अङ्गं ["अङ्गे"--मुद्रितपाठः] तु स्त्रियाम्(), तदाप्येतावादेशौ स्याताम्()। "त्रिचतुरोः स्त्रियाम्()" इत्यनेन विशेष्यमाणयोर्न भवतः। "प्रियत्रिः" इत्यादि। स्त्रिया अन्यपदार्थत्वादङ्गं स्त्रियां वत्र्तते, त्रिचतुःशब्दौ लिङ्गान्तरे। यदा त्वङ्गं पुंसि नपुंसके वा वत्र्तते, त्रिचतुःशब्दौ तु स्त्रियाम्(), तदा भवत एव। प्रियास्तिरुआओ बाह्रण्योऽस्येति प्रियतिसा, प्रियतिरुआऔ, प्रियतिस्नः। प्रियतिसृ ब्राआहृणकुलम्(), प्रियतिसृणो, प्रियतिसृणि। प्रियचतसृ ब्राआहृणकुलम्(), प्रियचतसृणी, प्रियचतसृणि। "तिसृभावे" इत्यादि। त्रिशब्दात्? संज्ञायां कन्()" ५।३।८७ इति कनि कृते विभक्त्यभावान्न प्राप्नोतीतीदमारभ्यते। उपसंख्यानशब्दस्य प्रतिपादनमर्थः। तत्रेदं प्रतपादनम्()--पूर्वसूत्रादिह चकारोऽनवत्र्तते, स चानुक्तसमुच्चयार्थः। तेन संज्ञायां कन्यपि भविष्यति। "तिसृका" इति। ग्रामस्यैषा संज्ञा। "चतसर्याद्युदात्तत्वनिपातनम्()" इति। चतरुआः पश्येत्यत्र "चतुरः शसि" ६।१।१६१ इत्यन्तोदात्तत्वं प्राप्नोति, आद्युदात्तञ्चेष्यते, तदर्थमाद्युदात्तत्वनिपातनं कत्र्तव्यम्()। निपातनस्वरेण बाधितत्वादन्तोदात्तत्वं मा भूदित्येवमर्थम्()। यथैवं तर्हि निपातनस्वरः शसिस्वरं बाधते, तथा "षट्()त्रिचतुर्भ्यो हलादिः" ६।१।१७३ इत्यमेन यदविभक्तेराद्युदात्तत्वं विधीयते तदपि बाधेत, ततश्चतसृणामित्यत्राम उदात्तत्वं न स्यत्()? इत्यत आह--"चतसृणामित्यत्र तु" इत्यादि। "हलादिग्रहणसामथ्र्यात्()" इति। तत्रैवायं हेतुः। हलादिग्रहणं हि तत्राजादिनिवृत्त्यर्थ क्रियते। चतुःशब्दश्चायं हुवचनविषयः। सर्वाणि बहुवचानि प्रथमाद्वितीयाषष्ठीबहुवचनेभ्योऽन्यानि हलादीनि। तत्रामो नुमचिरतृज्वद्भावेभ्यो पूर्वविप्रतिषेधेन नुटि कृते भवितव्यमाद्युदात्तत्वेन; हलादितत्वात्()। जसस्तु "अञ्जेश्छन्दस्यसर्वनामस्थानाम्()" ६।१।१६४ इत्यतोऽसर्वनामस्थानग्रहणस्यानुवत्र्तमानत्वादाद्युदात्तत्वं ["ग्रहणानुवर्तमानत्वात्()"--मुद्रितः पाठः] न भवति। तस्माच्छसो मा भूदित्येवमर्थं तत्र हलादिग्रहणं कृतम्। यदि च निपातनस्वरो न भविष्यति। तस्मान्मा भूद्धलादिग्रहणस्य व#ऐयथ्र्यम्()। इह हलादिग्रहमसमथ्र्याद्विभक्तिस्वरेण निपाततस्वरो बाध्यत इति, तेन चतसृणामित्यत्रान्तोदात्तत्वं भवति॥
बाल-मनोरमा
त्रिचतुरोः स्त्रियां तिसृचतसृ २९६, ७।२।९९

त्रिचतुरोः। एतयोरेताविति। त्रिचतुरोस्तिसृ चतसृ इत्येतावित्यर्थः। विभक्ताविति। "अष्टन आ विभक्तौ" इत्यतस्तदनुवृत्तेरिति भावः। जश्शसोः-तिसृ अस् इति स्थिते।

तत्त्व-बोधिनी
त्रिचतुरोः स्त्रियां तिसृचतसृ २५८, ७।२।९९

त्रिचतुरोः। "अष्टन आ विभक्ता"वित्यतोऽनुवर्तनादाह----विभक्तौ परत इति। "विभक्तौ किम्? "त्रिभार्यः चतुर्भार्य"इति केचित्। तन्मन्दम्। "स्त्रिया- पुंव"दिति पुंवद्भावेनापीष्टसिद्धेः। किंतु प्रियादौ पकतः पुंवद्भावो नेति "त्रिप्रिय"इत्याद्युदाहर्तव्यमिति नव्याः।