पूर्वम्: ६।४।३९
अनन्तरम्: ६।४।४१
 
सूत्रम्
गमः क्वौ॥ ६।४।४०
काशिका-वृत्तिः
गमः क्वौ ६।४।४०

गमः क्वौ परतः अनुनासिकलोपो भवति। अङ्गगत्। कलिङ्गगत्। अध्वगतो हरयः। गमादीनाम् इति वक्तव्यम्। इह अपि यथा स्यात्, संयत्। परीतत्। ऊ च गमादीनाम् इति वक्तव्यम्। अग्रेगूः। अग्रेभ्रूः।
न्यासः
गमः क्वौ। , ६।४।४०

अयमप्यझलाद्यर्थ आरम्भः। "अध्वगतो हरयः" इति। अध्वानं गच्छन्तीति क्विप्(), तदन्तज्जस्()। "गमादीनाम्()" इत्यादि। गमादीनामनुनासिकलोपः क्वौ भवतीत्येतदर्थरूपं व्याख्येमित्यर्थः। तत्रेदं व्याख्यानम्()--पूर्वसूत्राच्चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः, तेन गमादीनां भविष्यति, न तु गमेरेव केवलस्येति। "संयत्()" इति। संपूर्वाद्? यमेः क्विप्()। "परितत्()" इति। परिपूर्वात्? तनोतेः, "नहिवृति" ६।३।११५ इत्यादिना दीर्घः। "ऊ च" इत्यादि। चकारादनुनासिकलोपः। क्वचिद्? "ऊङ च" इति पठ()ते, तत्र ङकारस्य प्रयोजनं चिन्त्यम्()। अलोऽन्त्यपरिभाषयैवात्र भविष्यति। "अग्रेगूः" इति। गमेः, भ्रमेश्चानुनासिकलोपे कृतेऽकारस्योकारः॥
बाल-मनोरमा
गमः क्वौ ७९६, ६।४।४०

अनुनासिकलोपः स्यादिति शेषपूरणमिदम्। "अनुदात्तोपदेशेटत्यतस्तदनुवृत्तेरिति भावः। झलादिप्रत्ययपरकत्वाऽभावादनुदात्तोपदेशेत्यप्राप्तौ वचनम्। अङ्गगमदिति। अङ्गाख्यं देशं गच्छतीति विग्रहः। क्विपि मकारलोपे तुक्। एवं वह्गगत्। कलिङ्गगदित्यादि। गमादीनामिति। "क्वावनुनासिकलोप" इति शेषः। पुरीतदिति। पुरिः = ह्मदयाख्यो मांसखण्डविशेषः,तं तनोत = आच्छादयतीति विग्रहः। ह्मदयकमलाच्छादको मेदोविशेषः। "पुरीतता हि ह्मदयमाच्छाद्यते" इति श्रुति"रिति कर्किभाष्यम्। तनेः क्विपि नकालोपे तुक्। "नहि वृत्तिवृषी"ति पूर्वपदस्य दीर्घः। संयदिति। यमेः क्विप्। मलोपे तुक्। सुनदिति। नमेः क्विपि मलोपे तुक्। ऊ चेति। गमादीनामुपधाया ऊभावश्चेति वक्तव्यमित्यर्थः। लोपश्चेति।चकारादनुनासिकलोपः समुच्चीयते इति भावः। अग्रेगूरिति। अग्रे गच्छतीति विग्रहः। गमेरकास्य ऊभावः, मलोपश्च। "तत्पुरुषे कृति बहुल"मित्यलुक्। अग्रेभ्रूरिति। भ्रमेरकारस्य ऊभावः, मलोपश्च।