पूर्वम्: ६।४।८२
अनन्तरम्: ६।४।८४
 
सूत्रम्
ओः सुपि॥ ६।४।८३
काशिका-वृत्तिः
ओः सुपि ६।४।८३

धात्ववयवः संयोगः पूर्वो यस्मादुवर्णान् न भवति, तदन्तस्य अङ्गस्य अनेकाचः अजादौ सुपि परतो यणादेशो भवति। खलप्वौ। खलप्वः। शतस्वौ। शतस्वः। सकृल्ल्वौ। सकृल्ल्वः। सुपि इति किम्? लुलुवतुः। लुलुवुः। अनेकाचः इत्येव, लुवौ। लुवः। असंयोगपूर्वस्य इत्येव, कटप्रुवौ। कटप्रुवः। गतिकारकाभ्याम् अन्यपूर्वस्य न इष्यते, परमलुवौ। परमलुवः।
लघु-सिद्धान्त-कौमुदी
ओः सुपि २११, ६।४।८३

धात्ववयवसंयोगपूर्वो न भवति य उवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचोऽङ्गस्य यण् स्यादचि सुपि। खलप्वौ। खलप्वः। एवं सुल्वादयः॥ स्वभूः। स्वभुवौ। स्वभुवः॥ वर्षाभूः॥
न्यासः
ओः सुपि। , ६।४।८३

"खलप्वौ" इति। खलं पुनातीति "अन्येभ्योऽपि दृश्यते" ३।२।१७८ इति क्विप्()। "शतस्वौ" इति। अत्रापि शतं सूत्र इति "सत्सूद्विष" ३।१।६१ इत्यादिना क्विप्()। "सकृल्ल्वौ" इति। "तोर्लि" ८।४।५९ इति परसवर्णः। "कटप्रुवौ" इति। "प्रूङ्? गतौ" (धा।पा।९५७), ["प्रुङ्()"--धा।पा।] "क्विब्? वचप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसम्प्रसारणञ्च" इति क्विप्(), दीर्घत्वञ्च। "ओः" इति स्पष्टार्थम्()। अनुकारान्तनिवृत्यर्थन्तु न युज्यते; "य्वोः इत्यनुवृत्तेः। इकारस्य च पूर्वेणैव सिद्धो यण्()--उन्न्यौ; ग्रामण्याविति॥
बाल-मनोरमा
ओः सुपि २७९, ६।४।८३

ओः सुपि। "एरनेकाचः" इति सूत्रं, एरितिवर्जमनुवर्तते। "अचि श्नुधातु" इत्यतोऽचीत्यनुवृत्तं। तेन सुपीति विशेष्यते। तदादिविधिः। "इणो य" णित्यतो यणित्यनुवर्तते। तदाह--धात्ववयवेत्यादिना।

गतिकारकेति। इदमपि वार्तिकमत्रानुवर्तते इति भावः। खलप्वौ खलप्व इति। कारकपूर्वकत्वादिह यणिति भावः। हे खलपूः। खलप्वम् खलप्वौ खलप्वः। खलप्वा। खलप्वे। खलप्वः। खलप्वः खलप्वोः। खलप्वि। इह अजादौ "एरनेकाचः" इति "ओः सुपी"ति यण् च सर्वत्र पूर्वरूपसवर्णदीर्घापवादाः। एवं सुल्वादय इति। सुष्ठु लुनातीति सुलूः। गतिपूर्वकत्वादिहापि यण्। आदिना केदारलूरित्यादिसङ्ग्रहः। कटप्ररिति। "प्रुगतौ"। "क्विब्वची"त्यादिना क्विप्, उकारस्य दीर्घश्च। परमलुवाविति। परमश्चासौ लूश्चेति विग्रहः। गतिकारकेतरपूर्वकत्वान्न यण्। लुलुवतुरिति। अतुसि लुलू इत्यस्याऽनेकाच्त्वेऽपि सुप्परकत्वाऽभावान्न यणिति भावः। स्वभूरिति। स्वस्माद्भवतीति क्विप्। कारकपूर्वकत्वाद्यणि प्राप्ते आह-न भूसुधियोरिति। वर्षासु भवति वर्षाभूः। वर्षर्तावुत्पन्न इत्यर्थः। वर्षशब्दो नित्यस्त्रीलिङ्गबहुवचनान्तः। "अप्सुमनःसमासिकतावर्षाणां बहुत्वं चे"ति लिङ्गानुशासने स्त्र्यधिकारे सूत्रकृतोक्तेः। "वर्षाभूर्ददुरे पुमान्" इति यादवः। "न भूसुधियो"रिति निषेधे प्राप्ते-।

तत्त्व-बोधिनी
ओः सुपि २४१, ६।४।८३

ओः सुपि। "इणो यण्ित्यतो यण्, "एरनेकाचः "इति सूत्रं च सर्वमनुवर्तते इवर्णवर्जम्, "ओ"रित्युकारस्य कार्यिणो निर्देशात्। "अचि श्नुधात्वि"ति सूत्राद्धातुः "एरनेकाचः"इत्यत्रेव संवध्यत इत्याशयेन व्याचष्टे---धात्ववयवसंयोगेत्यादि।