पूर्वम्: ३।१।६०
अनन्तरम्: ३।१।६२
 
सूत्रम्
दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्॥ ३।१।६१
काशिका-वृत्तिः
दीपजनबुधपूरितायिप्यायिभ्यो ऽन्यतरस्याम् ३।१।६१

चिण् ते इति वर्तते। दीपी दीप्तौ, जनी प्रादुर्भावे, बुध अवगमने, पूरी आप्यायने, तायृ सन्तानपालनयोः, ओप्याऽयी वृद्धौ, एतेभ्यः परस्य च्लेः तशब्दे परतो ऽन्यतरस्यां चिणादेशो भवति। अदीपि, अदीपिष्ट। अजनि, अजनिष्ट। अबोधि, अबुद्ध। अपूरि, अपूरिष्ट। अतायि, अतायिष्ट। अप्यायि, अप्यायिष्ट।
लघु-सिद्धान्त-कौमुदी
दीपजनबुधपूरितायिप्यायिभ्योऽन्यरतस्याम् ६४३, ३।१।६१

एभ्यश्च्लेश्चिण् वा स्यादेकवचने तशब्दे परे॥
न्यासः
दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्। , ३।१।६१

"जनी प्रादुर्भावे" (धा।पा।११४९), "बुध अवगमने" (धा।पा।११७२) इति। एतेन "जन जनने" (धा।पा।११०५), "{ बुधिर् बोधने धा।पा।८७५ भ्वादिगतः (८५८) दिवादिगतश्च (११७२) "बुध अवबोधने" इत्येव पठ()ते। "अदुग्ध" इति। "शल इगुपधादनिटः क्सः" ३।१।४५ इति क्सः, तस्य "क्सस्याचि" ७।३।७२ इत्यतः "क्सस्य" इत्यनुवत्र्तमाने "लुग्वा दुहदिह" ७।३।७३ इति लुक्। "दादेर्धातोर्घः" ८।२।३२ पूर्ववज्जश्त्वम्। "अदोहि" इति। शुद्धे कर्मणि तशब्दः, तेनात्र नित्यं चिण् भवति॥
बाल-मनोरमा
दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् १६८, ३।१।६१

दीपजन। "च्लेः सि"जित्यत च्लेरिति, "चिण् ते पदः" इत्यस्माच्चिण् ते इति चानुवर्तते। तदाह--एभ्यश्च्लेरिति। एकवचन इति। दीपादीनामात्मनेपदित्वेन तेभ्यस्तशब्दस्य एकवचनत्वनियमादिति भावः।

तत्त्व-बोधिनी
दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् १४१, ३।१।६१

दीपजन। "दीपी दीप्तौ", "जनी प्रादुर्भावे", "बुध अवगमने", "पूरी आप्यायने"। एते दिवादयः।