पूर्वम्: ६।४।९०
अनन्तरम्: ६।४।९२
 
सूत्रम्
वा चित्तविरागे॥ ६।४।९१
काशिका-वृत्तिः
वा चित्तविरागे ६।४।९१

चित्तविकरार्थे दोष उपधाया वा ऊकारादेशो भवति णौ परतः। चित्तं दूषयति, चित्तं दोषयति। प्रज्ञां दूषयति, प्रज्ञां दोषयति।
न्यासः
ना चित्तविरागे। , ६।४।९१

पूर्वेण नित्ये प्राप्ते विकल्पोऽयमारभ्यते। "चित्तविरागे" इति। चित्त्स्याप्रीतता। "चित्तं दोषयति" इति। चित्तदमप्रीतं विमुखं करोतीत्यर्थः। "चित्तविराग इति किम्()? साधनं दूषयत--अत्र पूर्वेण नित्यं भवति। णावित्येव--चित्तस्य दोषः। भावे घञ्()॥
बाल-मनोरमा
वा चित्तविरागे ४३२, ६।४।९१

वा चित्तविरागे। ऊदुपधाया इति, दोषो णाविति चानुवर्तते। चित्तविरागे दुष उपधाया ऊद्वा स्याण्णाविति फलितम्। विरागपदस्य विवरणम् - अप्रीततेति। इच्छाविरह इत्यर्थः। चित्तमिति। चित्तं दुष्यति। स्नानसन्ध्यावन्दनादिनित्यकर्मसु विरक्तं भवति। तत्प्रयोजयति काम इत्यर्थः। मितां ह्यस्व इति। णौ मितामुपधाया ह्यस्व इति प्राग्व्याख्यातमपि स्मारयति। जनीजषिति। इदमपि व्याख्यातं स्मार्यते। जृणातेस्त्विति। श्नाविकरणस्य अषित्त्वान्न मित्त्वमिति भावः। रञ्जेर्णाविति। णेः कित्त्वाऽभावानिदितामित्यप्राप्तौ वचनम्। "मृगरमणटपदस्य विवरणम्-- आखेटकमिति। मृगयेत्यर्थः। रजयति मृगानिति। "रञ्ज रागेट शब्विकरणः। "रञ्जेश्चे"ति शपि नलोपः। "रजन्ति मृगाः" ग्राह्रा भवन्ति। तान् मृगान् तादृग्व्यापारविषयान् करोति मृगवधासक्तो राजादिरित्यर्थः। अत्र नकारलोपः। रञ्जयति मृगांस्तृमदानेनेति। घातको मृगान् रक्षणाय तृणसमर्पणेन बन्धनस्थानगान् करोतीत्यर्थः। चुरादिष्विति। चुरादिषु ज्ञपादिपञ्चकान्तर्गतश्चिञ्धातुरस्ति।तस्मात्स्वार्थणिचि कृते "चिस्फुरो"रित्यात्वपक्षे पुकि मित्()तवादुपधाह्यस्वे चपयतीति रूपम्। आत्त्वाऽभावे तु वृद्धावायादेशे मित्त्वाद्ध्रस्वे चययतीति रूपमुक्तं चुरादावित्यर्थः। चिनोतेस्त्विति। श्नुविकरणस्य चिञ्धातोर्हेतुमण्णौ "चिस्फुरो" रित्यात्त्वे पुकि मित्त्वाऽभावाद्ध्रस्वाऽभावे चाययतीति रूपमित्यर्थः। स्फारयति-- स्फोरयतीति। "चिस्फुरोरित्यात्त्वविकल्पः। अपुस्फरत् -- अपुस्फुरदिति। स्फुर् इ अ त् इति द्वित्वे कर्तव्ये णावच आदेशस्य निषिद्धतया "स्फु"रित्युकारवतो द्वित्वे ततश्चिस्फुरोर्णावित्युत्तरखण्डे आत्त्वविकल्पः। आत्त्वपक्षे उपधाह्यस्व इति भावः।

तत्त्व-बोधिनी
वा चित्तविरागे ३७६, ६।४।९१

चित्तमिति। "चिती संज्ञाने" इत्यस्मात् क्तः। दूषयति दोषयति वेति। चित्तं दुषयति। स्नानसन्ध्यादौ विरक्तं भवति। तत्प्रयुङ्क्त इत्यर्थः। जृणातेस्त्विति। अपित्त्वादस्य मित्वं नेति भावः। आखेटकमिति।

*रञ्जेर्णौ मृगरमणे नलोपो वक्तव्यः। रजयतीति। रजन्ति मृगाः, ग्रहणमरणाद्यनुकूलव्यापारविषया भवन्ति, तान्मृगांस्तादृग्व्यापारविषयान्करोतीत्यर्थः। ज्ञपादिश्चिञिति। तेन मित्त्वाद्ध्रस्व इति भावः। स्वादिगणस्थस्य तु मित्त्वं नेत्युदाहरति--- चापयतीत्यादि। अपुस्फुरदिति। द्वित्वे कर्तव्ये अजादेशस्य स्थानिवत्त्वान्निषेधाद्वा "स्फु" रित्युकारवतो द्वित्वं, ततः "चिस्फुरोर्णौ" इति वा आत्वम्।