पूर्वम्: ६।४।९४
अनन्तरम्: ६।४।९६
 
सूत्रम्
ह्लादो निष्ठायाम्॥ ६।४।९५
काशिका-वृत्तिः
ह्लादो निष्ठायाम् ६।४।९५

ह्लादो ऽङ्गस्य उपधायाः ह्रस्वो भवति निष्ठायां परतः। प्रह्लन्नः। प्रह्लन्नवान्। निष्ठायाम् इति किम्? प्रह्लादयति। ह्लादः इति योगविभागः क्रियते, क्तिन्यपि यथा स्तात्, प्रह्लत्तिः इति।
न्यासः
ह्लादो निष्ठायाम्?। , ६।४।९५

"प्रह्लन्नः" इति। "ह्लादी सुखे च" (धा।पा।२७) "रदाभ्याम्()" ८।२।४२ इत्यादिना नत्त्वम्()। "प्रह्लादयति" इति हेतुमण्णिच्()॥
बाल-मनोरमा
ह्लादो निष्ठायाम् ८८०, ६।४।९५

ह्लादो निष्ठायाम्। ह्यस्वः स्यादिति। सेषपूरणमिदम्। "खचि ह्यस्वः" इत्यतस्तदनुवृत्तेरिति भावः। प्रह्लन्न इति। "ह्लादी सुखे"। क्तः। "()आईदितः" इति नेट्। "रदाभ्यांट मिति नत्वम्।

तत्त्व-बोधिनी
निष्ठायाम् ७२४, ६।४।९५

प्रह्लन्न इति। ह्लादी सुखे। ईदित्त्वादिडभावे "रदाभ्या"मिति नत्वम्।