पूर्वम्: ६।४।९६
अनन्तरम्: ६।४।९८
 
सूत्रम्
इस्मन्त्रन्क्विषु च॥ ६।४।९७
काशिका-वृत्तिः
इस्मन्त्रन्क्विषु च ६।४।९७

इस् मन् त्रन् क्वि इत्येतेषु परतः छादेः उपधायाः ह्रस्वो भवति। छदिः। छद्म। छन्त्त्रम्। धामच्छत्। उपच्छत्।
न्यासः
इस्मन्त्रन्क्विषु च। , ६।४।९७

चकारश्चादेरनुकर्षणार्थः। "छदिः" इति। "अचिशुचिहुसृपिच्छादिच्छदिभ्य इसिः" (द।उ।९।३०) इतीसिप्रत्ययः। "छद्म" इति। "सर्वधातुभ्यो मनिन्()" (पं।उ।४।१५६) इति मिन्()। "छत्त्रम्()" इति। "सर्वधातुभ्यः ष्ट्रन्()" (द।उ।८।७९) इति ष्ट्रन्()। योगविभागोऽनेकोपसर्गस्यापि यथा स्यात्()--समुपातिच्छदिरिति॥
बाल-मनोरमा
इस्मन्त्रन्क्विषु च ७९५, ६।४।९७

इस्मन्त्रन्। इस्, मन्, त्रन्, क्वि एषां चतुर्णां द्वन्द्वः। "छादेर्घेद्व्युपसर्गेस्य"त्यतश्छादेरिति, "खचि ह्यस्वः" इत्यतो ह्यस्व इति चानुवर्तते। तदाह-- एषु छादेरिति। अर्थादाकारस्येति गम्यते, अलोन्त्यपरिभाषामाश्रित्य इकारस्य ह्यस्वविदौ प्रयोजनाऽभावात्। एवं च "ऊदुपधायाः" इत्यत उपधाया इति नानुवर्तनीयम्, ण्यन्तस्य छादेर्दकारोपधत्वात्।इस्- छदिः। मन्- छद्म। त्रन् - छत्रम्। क्वौ उदाहरति-- तनुच्छदिति। तनुं छादयतीति विग्रहः। अथ तनेः शमेश्च क्विपि विशेषमाह-- अनुनासिकस्येति। "अक्षद्यू"रित्यत्र आह-- च्छ्वोरिति। योरेकस्मिन् ऊठिजूरिति रूपम्। एवं त्वरेः तूरिति रूपम्। रिउआवेः क्विपि इकारवकारयोरूठि रुआऊरिति रूपम्। अवधातोः क्विपि अकारवकारयोरूठि ऊरिति रूपम्। वृद्धिरिति। जनानवतीति विग्रहे, अवेः क्विपि, अकारवकारयोरूठि , जन ऊ इति स्थिते आद्गुणं बाधित्वा "एत्येध्त्यूठ्सु" इति वृद्धिरौकारादेश इत्यर्थः। मूरिति। मवेः क्विपि, अकारवकारयोरूठ्। सुम्बो सुम्व इति। अनेकाच्त्वाद्गतिपूर्वत्वाच्च यणिति भावः। रादिति। मुर्छाधातोः क्विपि "राल्लोपः" इति चकारस्य लोपे सुलोपे "र्वो"रिति दीर्घे सुलोपे "र्वो"रिति दीर्घे धूरिति रूपमिति भावः।