पूर्वम्: ७।१।१०२
अनन्तरम्: ७।२।१
 
सूत्रम्
बहुलं छन्दसि॥ ७।१।१०३
काशिका-वृत्तिः
बहुलं छन्दसि ७।१।१०३

छन्दसि विषये ऋ̄कारान्तस्य धातोरङ्गस्य बहुलम् उकारादेशो भवति। ओष्ठ्यपूर्वस्य इत्युक्तम्, अनोष्थ्यपूर्वस्य अपि भवति। मित्रावरुणौ ततुरिः। दूरे ह्यध्वा जगुरिः। ओष्ठ्यपूर्वस्य अपि न भवति। पप्रितमम्। वव्रितमम्। क्वचिद् भवति। पुपुरिः। इति काशिकायां वृत्तौ सप्तमाध्यायस्य प्रथम्H पादः। । सप्तमाध्यायस्य द्वितीयः पादः।
न्यासः
बहुलं छन्दसि। , ७।१।१०३

"ततुरिः, जगुरिः" इति। तरतेर्गिरतेश्च "आदृगमहनजनः किकिनौ लिट्? च" ३।२।१७१ इति किकिनोरन्यतरः, ततश्चोत्त्वे "द्विर्वचनेऽचि" (१।१।५९) इति स्थानिवद्भावात् "तृ? गृ()", इति द्विरच्यते, "उरत्()" ७।४।६६ इत्यत्त्वम्()। "पप्रितमम्(), वव्रितमम्()" इति। "पृ(), वृ()" इत्येतयोः किकिनोरन्यतरः, यथदेशः। किप्रत्ययान्तात्? "अतिशायने तमप्()" ५।३।५५ इत्यादिना तमप्()॥ इति बोधिसत्त्वदेशीयाचार्य श्रीजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्चिकायां सप्तमाध्यायस्य प्रथमः पादः॥ - - - अथ सप्तमाध्यायः द्वितीयः पादः