पूर्वम्: ७।१।२०
अनन्तरम्: ७।१।२२
 
सूत्रम्
अष्टाभ्य औश्॥ ७।१।२१
काशिका-वृत्तिः
अष्टाभ्य औश् ७।१।२१

अश्टाभ्यः इति कृताकारो ऽष्टन्शब्दो गृह्यते। तस्मादुत्तरयोः जश्शसोः औशित्यादेशो भवति। अष्टौ तिष्ठन्ति। अष्टौ पश्य। कृताकारस्य ग्रहणं किम्? अष्ट तिष्ठन्ति। अष्ट पश्य। एतदेव कृतात्वस्य ग्रहणं ज्ञापकम् अष्टन आ विभक्तौ ७।२।८४ इत्यात्वविकल्पस्य। षड्भ्यो लुक् ७।१।२२ इत्यस्य अयम् अपवादः, नाप्राप्ते तस्मिन्निदम् आरभ्यते। यस् तु सुपो धातुप्रातिपदिकयोः २।४।७१ इति, तस्मिन् प्राप्ते च अप्राप्ते च इति स न बाध्यते, अष्टपुत्रः, अष्टभार्यः इति। तदन्तग्रहणम् अत्र इष्यते। परमाष्टौ। उत्तरमाष्टौ। प्रियाष्टनः इत्यत्रात्वस्य अभावादौश्त्वं न भवति।
लघु-सिद्धान्त-कौमुदी
अष्टाभ्य औश् ३०२, ७।१।२१

कृताकारादष्टनो जश्शसोरौश्। अष्टभ्य इति वक्तव्ये कृतात्वनिर्देशो जश्शसोर्विषये आत्वं ज्ञापयति। अष्टौ। अष्टौ। अष्टाभिः। अष्टाभ्यः। अष्टाभ्यः। अष्टानाम्। अष्टासु। आत्वाभावे अष्ट, पञ्चवत्॥
न्यासः
अष्टभ्य औश्?। , ७।१।२१

"कृताकारोऽष्टन्()शब्दो गृह्रते" इति। यत्रात्वं तत्रौश्त्वं यथा स्यादित्यभिप्रायः। "अष्टौ तिष्ठन्ति" इति। आत्वे कृत औश्त्वम्()। "अष्ट तिष्ठन्ति" इति। अत्रात्वाभावादौश्त्वं न भवति। कथं पुनरत्रात्वाभावः, यावता न तत्रात्वविधौ विकल्पस्य प्रतिपादकं किञ्चिदन्यतरस्यांग्रहणादिकमसति? इत्याह--"एतदेव" इत्यादि। कृतात्वनिर्देशस्थैतदेव प्रयोजनम्()--यत्रात्वं तत्रैवौशत्वं यथा स्यात्(), अन्यत्र मा भूदिति। यदि च नित्यमात्वं स्यात्? तदा कृतात्वस्य निर्देशोऽनर्थकः स्यात्(); व्यवर्त्त्याभावात्? "अष्टनः" इत्येवं ब्राऊयात्()। तदेवं लघुनिर्देशे सम्भवति सति यत्? कृतात्वस्य निर्देशो गरीयान्? क्रियते, तज्ज्ञापयति--विकल्पेनात्वं भवतीति। यद्यपि चायमर्थः "अष्टनो दीर्घात्()" ६।१।१६६ इत्यत्रापि ज्ञापितः, तथापि विस्मरणशीलानामनुग्रहाय पुनरिह ज्ञाप्यते। अथाष्टपुत्रः, अष्टभार्य इत्यत्र कस्मान्न भवति, "सुपो धातुप्रातिपदिकयोः" (२।४।७१) इति लुका बाधितत्वादिति चेत्()? न; इहापि तर्हि न स्यात्()--अष्टौ तिष्टन्ति, अष्टौ पश्येति। "षङ्भ्यो लुक्? ७।१।२२ इति लुका बाधितत्वात्()। अथौश्भावस्य लुगपवादत्वादत्र लुक्रं बाधित्वा स एव भवति। पूर्वत्रापि तर्हि स एव स्तात्(), अत एव हेतोः? इत्याह--"षङ्भ्यो लुगित्यस्यापवादोऽयम्()" इति। अत्रैवोपपत्तिमाह--"नाप्राप्ते" इत्यादि। "षङ्भ्यो लुक्()" ७।१।२२ इत्यसमासे प्राप्नोति--अष्टौ तिष्ठन्तीत्यादौ, समासे च--अष्टपुत्र इत्यादौ। तस्मान्नाप्राप्ते अष्टभार्यः--इत्यत्र सुब्लुकैव भवितव्यमित्यौशत्वं न भवति। "तदन्तग्रहणम्()" इत्यादि। किं पुनरिष्यमाणमपि लभ्यते? "अङ्गाधिकारे तस्य तदुत्तरपदस्य च" (पु।प।वृ।८५) इति वचनात्()। अथ वा--अष्टाभ्य इत्यर्थप्रधाननिर्देशोऽ यं बहुवचननिर्द्देशादवसीयते। शब्दप्रधाने हि निर्देशे "अष्टनः" ब्राऊयात्()। अर्थाच्च शब्दद्वारेणैव जश्शसोः परत्वं विज्ञायत इति केवलाच्चाष्टनो भवति। तदन्ताच्चातदन्तेऽपि हि शब्दद्वेरेणार्थात्? परौ जश्शसौ भवत इति। यदि तदन्तग्रहणमत्रेष्यते, प्रियाष्टन इत्यत्रापि प्राप्नोति? अत आह--"प्रियाष्टनः" इत्यादि। प्रिया अष्टौ येषामिति बहुव्रीहिः। ननु च विकल्पेनात्वम्()। तत्र यदात्वं न भवति तदा मा भूदौश्त्वम्(); यदात्वं तदा स्यादेव; व्यवस्थितविभाषयात्रात्वं न भविष्यतीत्यदोषः॥
बाल-मनोरमा
अष्टाभ्य औश् , ७।१।२१

अष्टाभ्य औश्। "जश्शसोः शिः" इत्यतो जश्शसोरित्यनुवर्तते। अष्टाभ्य इति पञ्चमी। "तस्मादित्युत्तरस्ये"त्युपतिष्ठते। "अष्टा" इत्याकारान्तशब्दो विवक्षितः। तदाह--कृताकारादित्यादिना। नकारस्याऽ‌ऽत्वे कृते सति योऽष्टाशब्दास्तस्मादित्यर्थः। शित्त्वात्सर्वादेशः। "आदेः परस्ये"ति तु नात्र प्रवर्तते, "अनेकाल्शि"दिति परेण तस्या बाधात्। औशादेशोऽयं "षड्भ्यो लु"गित्यस्यापिबादः। ननु जश्शसोः परतोऽष्टन्शब्दस्यात्वं नास्त्येव, "अष्टन आ विभक्तौ" इति आत्वविधौ हलीत्यपकर्षस्य उक्तत्वात्। ततश्च जश्शसोरौ()इआधौ "कृताकारादष्टन" इत्यनुपपन्नम्। तत्राह-अष्टभ्य इति वक्तव्य इत्यादि। भ्यसि अष्टभ्यः, अष्टाभ्य इति रूपद्वये सत्यपि औ()इआधौ लाघवादष्टभ्य इत्येव निर्देश उचितः, आकारनिर्देशात्तु जश्शसोरचि परतोऽप्यात्वं विज्ञायत इत्यर्थः। ननु "अष्टन आ विभक्तौ" इति हलादिविभक्तौ अष्टनो नित्यमात्वविधानादष्टाभ्य इत्येव निर्देष्टव्यं, प्रामाणिकगौरवस्याऽदोषत्वात्। ततश्च औ()इआधौ "अष्टाभ्य" इति निर्देशो जश्शसोरष्टनः कथमात्वं ज्ञापयेदित्यत आह--वैकल्पिकं चेदमिति। ज्ञापकादिति। "अष्टनो दीर्घा"दिति सूत्रे दीर्घान्तादष्टन्शब्दात्पराऽसर्वनामस्थानविभक्तिरुदात्ता स्यादिति तदर्थः। अष्टाभिविंकर्षयतीत्यत्र भकारादिकार उदात्तः। "अनुदात्तं पदमेकवर्ज"मिति शिष्टमनुदात्तम्। दीर्घादिति विशेषणादष्टभिरित्यत्र आत्वाऽभावस्थले भिस उदात्तत्वं न भवति, किंतु मध्योदात्तत्वमेव, "झल्युपोत्तम"मित्यस्य प्रवृत्तेः। षट्()चतुर्भ्यो या झलादिविभक्तिस्तदन्ते पदे विद्यमानमुपोत्तममुदात्तं स्यादिति तदर्थः। यदि तु अष्टन आत्वं नित्यं स्यात्तर्हि अष्टभिरिति ह्यस्वान्तव्यावृत्तये क्रियमाणं दीर्घग्रहणमनर्थकं स्यात्, व्यावर्त्त्याऽभावात्। आत्वस्य विकल्पितत्वे तु तदभावपक्षे अष्टभिरिति व्यावर्त्त्यस्य सत्त्वाद्दीर्घग्रहणमर्थवत्। अतो दीर्घग्रहणमष्टन आत्वस्य वैकल्पिकत्वे ज्ञापकमित्यर्थः। अष्टाविति। अष्टन्शब्दाज्जश्शसोरौश्। शित्त्वात्सर्वादेशः। "अष्टाभ्य" इति निर्देशान्नकारस्यात्वं, सवर्णदीर्घः, वृद्धिरिति भावः। परमाष्टाविति। "अष्टाभ्य औ"शित्यस्य आङ्गत्वात्तदन्तेऽपि प्रवृत्तिरित्यर्थः। अष्टाभिरिति। हलादौ आत्वे सवर्णदीर्घः। अष्टानामिति। आदौ नुटि कृते सति हलादित्वादात्वम्। नच नान्तत्वप्रयुक्तषट्()संज्ञकशब्दसन्निपातमुपजीव्य प्रव#ऋत्तस्य नुटस्तद्विघातकमात्वं प्रति कथं निमित्तत्वमिति वाच्यं, नहि षट्सन्निपातेन जातस्य नुट आत्वेऽपि तद्विघातकत्वं, कृतात्वेऽपि स्थानिवत्त्वेन षट्त्वसत्त्वात् "शमामष्टानां दीर्घः श्यनी"त्यादिनिर्देशेनाऽत्र सन्निपातपरिभाषाया अनित्यत्वाश्रयणाच्चेति भावः। आत्वाऽभावे इति। "अष्टनो दीर्घा"दिति दीर्घग्रहणेनात्वविकल्पस्य ज्ञापितत्वादिति भावः। यद्यपि "अष्टनो दीर्घा"दिति सूत्रे शसादिविभक्तिषु परतः स्वरविधायके दीर्घग्रहणं शसादिष्वेवात्वविकल्पं ज्ञापयितुं शक्नोति नतु जसि, तथापि ज्ञापकस्य सामान्यापेक्षत्वाज्जास्यप्यात्वविकल्प इति भावः।

प्रिया अष्टौ यस्येति बहुव्रीहौ प्रियाष्टन्शब्दो विशेष्टनिघ्न एकद्विबहुवचनान्तः। तत्र विशेषमाह--गौणत्वे त्विति। अष्टन्शब्दार्थस्याप्राधान्ये सतीत्यर्थः। आत्वाऽभावे इति। "अष्टनो दीर्घा"दिति दीर्घग्रहणेनात्वस्य वैकल्पिकत्वज्ञापनादिति भावः। राजवदिति। "प्रायेणे"ति शेषः। प्रियाष्टा प्रियाष्टानौ प्रियाष्टानः। प्रियाष्टानम्, प्रियाष्टानौ। शशि प्रियाष्ट इति। "अल्लोपोऽनः" इत्यकारलोपः। ननु कृतेऽल्लोपे नकारस्य ष्टुत्वेन णत्वं कुतो न स्यादित्यत आह--इहेति। इहाऽल्लोपस्य स्थानिवद्भावान्न ष्टुत्वमित्यन्वयः। अल्लोपस्य स्थानिवत्त्वे सति अकारव्यवहितत्वान्न ष्टुत्वमिति बावः। ननु स्थानिनि सति यत्कार्यं तदेवादेशेऽतिदेश्यते। स्थानिनि सति यत्कार्यं न भवति तदादेशे न भवति इत्येवं कार्याऽभावस्तु नातिदिश्यते। अन्यता "नायक" इत्यादौ आयाद्यभावप्रसङ्गादिति स्थानिवत्सूत्रे स्थितम्। तस्मादल्लोपस्य स्थानिवत्त्वान्न ष्टुत्वमित्यनुपपन्नम्। "अचः परस्मिन्" इति सूत्रं तु यद्यपि स्थानिनि सति यत्कार्यं न भवति तदादेशेऽपि न भवतीत्येवं कार्याऽभावस्यातिदेशकं तथापि न तस्यात्र प्रवृत्तिरस्ति। स्थानिभूतादच#ः पूर्वस्यैव विधौ तत्प्रवृत्तेः। इह च स्थानिभूतादचः परस्यैव ष्टुत्वप्रवृत्तेरित्यत आह--पूर्वस्मादपि विधाविति। स्थानिभूतादचः पूर्वस्मात्परस्यापि विधौ स्थानिवत्त्वाभ्युपगमादित्यर्थः। नच "पूर्वत्रासिद्धीये न स्थानिव"दिति निषेधः शङ्क्यः, "तस्य दोषः" इत्यत्र णत्वग्रहणं मास्त्वि"त्युक्तं। तद्रीत्याप्याह--बहिरङ्गस्याल्लोपस्यासिद्धत्वाद्वेति। अल्लोपोऽङ्गसंज्ञासंज्ञापेक्षत्वाद्बहिरङ्गः। ष्टुत्वं तु तदपेक्षयाल्पापेक्षत्वादन्तरङ्गम्। तस्मिन् कर्तव्ये बहिरङ्गस्याऽल्लोपस्यासिद्धत्वादकारव्यवहितत्वान्न ष्टुत्वमित्यर्थः। ननु यथोद्देशपक्षे "असिद्धं बहिरङ्ग"मिति षाष्ठीं परिभाषां प्रति ष्टुत्वस्याऽसिद्धतयाऽन्तरङ्गाऽभावेन परिभाषा अप्रवृत्तेः कथमिहाऽल्लोपस्याऽसिद्धत्वमित्यत आह--कार्यकालपक्षे इति। लक्ष्यानुरोधादिह यथोद्देशपक्षो नाश्रीयते इत्यन्यत्र विस्तरः। अथ प्रियाष्टन्शब्दस्यात्वपक्षे विशेषमाह-जश्शसोरिति। "अष्टाभ्य औ"शिति जश्शसोरौशादेशविधौ कृतात्वनिर्देशाज्ज्ञाप्यमानमात्वमष्टन्शब्दस्य प्राधान्ये सत्येव भवति, न तूपसर्जनत्वेऽपि, "अष्टाभ्य" इति बहुवचननिर्देशात्। अन्यथा "हाह" इति पञ्चम्यन्तवत् "अष्ट औश्" इति निर्दिशेदिति "ष्णान्ता षट्" इति सूत्रे भाष्ये स्पष्टम्। ततः किमित्यत आह--तेनेति। अष्टन्शब्दस्य गौणताया जश्शसोर्विषये आत्वाऽभावेनेत्यर्थः। हलादावेवेति। "अष्टन आ विभक्तौ" इत्यत्र "अष्टन" इत्येकवचननिर्देशेन अष्टन्शब्दार्थस्य प्राधान्याश्रयणे मानाऽभावादिति भावः। "गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः" इत्यपि नात्र प्रवर्तते, तथा सति "अष्टाभ्य औ"रित्यत्र बहुवचनवैयथ्र्यादिति बोध्यम्। हलादावेवेत्येवकारेण जश्शसोरप्यात्वस्य पक्षेऽपि व्यावृत्तिरूर्तैवानूद्यते। औङादौ तु हलादित्वाऽभावादेव आत्वस्य न प्रसक्तिः। प्रियाष्टा इति। सौ हलि "अष्टन आ विभक्तौ" इत्यात्वे रुत्वविसर्गाविति भावः। षड्भ्यो लुक्" इति "षट्चतुभ्र्य" इति च गौणतायां न प्रवर्तत इति च प्रागुक्तं न विस्मर्तव्यम्। तथा च अजादौ सर्वत्र राजवदेव रूपाणि, हलादिषु पक्षे सर्वं रूपम्। हलादिषु विभक्तिषु तु हाहाशब्दवदन्यच्च रूपम्। चकाराद्राजवदपि। तदित्थमत्र रूपाणि-प्रियाष्टाः-प्रियाष्टा, प्रियाष्टानौ, प्रियाष्टानः। प्रियाष्टानम्। प्रियाष्टानौ। प्रियाष्ट्नः। प्रियाष्ट्नः प्रियाष्टाभ्याम्--प्रियाष्टभ्याम्, प्र#इयाष्टाभ्यः--प्रियाष्टभ्यः। प्रियाष्ट्नः प्रियाष्ट्नोः प्रियाष्ट्नाम्। प्रियाष्ट्नि प्रियाष्टनि, प्रियाष्ट्नोः प्रियाष्टासु--प्रियाष्टसु। वस्तुतस्तु "ष्णान्त षट्" इति सूत्रे भाष्ये "अष्टन आ विभक्तौ" इत्यत्र "हली"त्यपकर्षमुक्त्वा "प्रियाष्टौ प्रियाष्टा इति न सिध्यति, प्रियष्टानौ प्रियष्टान इत्येव प्राप्नोती"ति शङ्किते "यथालक्षणमप्रयुक्ते" इति समाहितम्। "नैव वा लक्षणमप्रयुक्ते प्रवर्तते, प्रयुक्तानामेवान्वाख्यानात्" इति कैयटः। एवं च एषामनभिधानमेवोचितम्। अत एव "अष्टाभ्य औ"शिति सूत्रे भाष्ये "अष्टन आत्वमिह वैकल्पिकं यदयमात्वभूतस्य ग्रहणं करोति-अष्टाभ्य इति। अन्यथा अष्टन इत्येव ब्राऊयात्" इत्युक्तम्। प्रियाष्टन्शब्दस्य लोके प्रयोगसत्त्वे तु तत्र गौणे औशादेशप्रवृत्त्यभावाय बहुवचननिर्देशस्यावश्यकत्वात्तदसङ्गतिः स्पष्टैव। तस्मात्प्रियाष्टन्शब्दप्रयोगविचारः सर्वोऽप्यभित्तिचित्रायित इति शब्देन्दुशेखरे प्रपञ्चितम्। इति नान्ताः। अथ धान्ताः। "बुध अवगमने"कर्तरि क्विप्। बुध् इति धकारान्तः शब्दः। ततः सुबुत्पत्तिः। सौ विशेषमाह--भष्भाव इति। हल्भ्यादिना सुलोपे सति प्रत्ययलक्षणमाश्रित्य सकारपरकत्वाद्वा, पदान्तत्वाद्वा "एकाचो बशः" इति बकारस्य भष=भकार इत्यर्थः। झश्त्व चर्त्वे इति। "वाऽवसाने" इति चत्र्वविकल्प इति भावः। भ्यामादौ "स्वादिषु" इति पदत्वाद्भष्, जश्त्वम्। भुद्भ्याम्। भुद्भिः। भुद्भ्यः। भुत्सु इति धान्ताः।

तत्त्व-बोधिनी
अष्टाभ्य औश् ३३३, ७।१।२१

अष्टाभ्य औश्। शित्त्वात्सर्वादेशः। ननु "अनेकाल्शित्सर्वस्ये"ति सूत्रे शिद्ग्रहणं प्रत्याख्यायानेकाल्त्वादेव सर्वादेश इति सुवचम्। न च शस्येत्संज्ञायामन्काल्त्वं नास्तीति वाच्यं, शकरोच्चारणसामथ्र्यादत्र भूतपूर्वगत्याश्रयणात्। न चैवम् "अर्वश्रस्त्रसा"विति त्रादेसस्यापि सर्वादेशता स्यादिति वाच्यम्, ऋकारस्योगित्कार्यार्थत्वेन तत्र सामर्थ्योपक्षयात्। न चैवमशित्यादौ शकारः श्रवणार्थ एव स्यादिति शङ्क्यम्, अनुशतिकादिषु "ऐहलौकिक"मिति निर्देशेन शकारस्येत्संज्ञाभ्युपगमाजितिदिक्। कृताकारादिति। ननु "हली"त्यपकृष्यत इत्युक्तं तत्कथं कृताकारतेत्यत आह--अष्टभ्य इतीति। "अष्टाभ्य"इति कृतात्वस्येदमनुकारणम्, न तु लक्षणवशसंपन्नमात्वं, तथाहि सति वक्ष्यमाणज्ञापकेन तस्य वैकल्पिकतया लाघवार्थम् "अष्टभ्य औ"शित्येव ब्राऊशित्येव ब्राऊयादिति भावः। इदमिति। श्रुतमनुमितं चेत्यर्थः। अष्टनो दीर्घादिति। दीर्घान्तादष्टनः परा असर्वनामस्थानविभक्तिरुदात्ता स्यात्। अष्टभिः। दार्घात्किम्(ष्टमिः। मध्योदात्तमिदम्। "षटत्रिचतुर्भ्यो हलादिः"इति बाधित्वा "झल्युपोत्तम"मित्यस्य प्रवृत्तेः। "षट्त्रिचतुर्भ्यो या झलादिविभक्तिस्तदन्ते पदे उपोत्तममुदात्तं स्या"दिति तदर्थः। ननु "प्रियाष्ट्ने"त्यादौ विभक्तेरुदात्तत्वनिवारणायट दीर्घग्रहणमिहावश्यकमिति कथमस्यात्वविकल्पज्ञापकतेति चेदत्राहुः--"अष्टनो दीर्घा"दित्य त्रान्तोदात्तदित्युवर्त्त्यान्तोदात्तदष्टनः परेत्यादिव्याख्यानादष्टभिरित्यादौ विभ्केतदात्तत्वं सिद्द्यति। घृतादित्वेनाऽष्टनोऽन्तोदात्तत्वात्। "प्रियष्ट्न"इत्यादिबहुव्रीहौ तु पूर्वपदप्रकृतिस्वराभ्युपगमेनाष्टनोऽन्तोदात्तत्वाऽभावाद्विभक्त्युदात्तत्वं न प्रवर्तते इति दीर्धग्रहणं व्यर्थं सदुक्तार्थे ज्ञापकमेवेति। अष्टानामिति। "नुटः पश्चादेव संनिपातपरिभाषाया अनित्यत्वादात्वं, नतु ततः प्रा"गिति तु मनोरमायां स्थितम्। अत्र नव्याः--संनिपातपरिभाषयाऽ‌ऽत्वाभावेऽप्यत्र न क्षतिः ,"नोफ्धाया"इति दीर्घे नलोपे "पञ्चनां""सप्ताना"मितिवद्रूपसिद्धेः। न च"अष्टनो दीर्घा"दिति विभक्त्युदात्तत्वमात्वविधेः प्रयोजनमिति वाच्यं, "षट्त्रिचतुर्भ्यो हलादि"रित्यनेनैव तत्सिद्धेरिति। पूर्वस्मादपीति। न चात्र "पूर्वत्रासिद्धीये न स्थानिवत्िति निषेधः शङ्क्यः, "तस्य दोषः संयोगादिलोपलत्वणत्वेषु", इत्युक्तत्वादिति दिक्। प्राधान्य एवेति। औशत्वं हि लुङ्नुटाविब प्राधान्य एव भवति न तु गौणात्वे, "अष्टाभ्य"इति बहुवचननिर्देशात्। अन्यथा हि कृताऽ‌ऽत्वानुकरणेऽपि एकवचनेनैव निर्दिशेत्---"अष्टा औ"शिति "अष्ट"इति वा। एतच्च "ष्णान्ता ष"डिति सूत्रे भाष्यकैयटयोः स्पष्टम्। तथा चौश्व्तविधौ कृतात्वनिर्देशबलेनानुमीयमानमात्वं प्राधान्य एवोचितमिति भावः। "प्रियष्टा"---इति प्रथमैकवचनम्। उक्तार्थं सङ्गृह्णाति------प्रियाष्ट्नो राजवदिति। इति नान्ताः। भुदिति। बुध्यतेः क्विप्। इति धान्ताः।