तिसृभ्य उत्तरस्य जसो ऽन्त उदात्तो भवति। तिस्रस्तिष्ठन्ति। उदात्तस्वरितयोर् यणः स्वरितो ऽनुदात्तस्य
८।२।४ इत्यस्य अपवादः। शसि उदात्तयणो हल्पूर्वात्
६।१।१६८ इति सिद्धे ऽन्यत्र बहुवचने षट्त्रिचतुर्भ्यो हलादिः
६।१।१७३ इति विधानात् जसेव लभ्यते इति जस्ग्रहणम् उपसमस्तार्थम् एके इच्छन्ति अतितिस्त्रौ इत्यत्र स्वरो मा भूतिति।
"तिरुआस्तष्ठन्ति" इति। "त्रिचतुरोः स्त्रियां तिसृचतसृ"
७।२।९९ इति तिरुआआदेशः, "अचि र ऋतः"
७।२।१०० इति ऋकारस्य रादेशः। "उदात्तस्वरितयोः" इत्यादि। त्रिशब्दः प्रातपदिकस्वरेणान्तोदात्त इति तदादेशोऽपि तिसृशब्दोऽन्तोदात्त एव।
तत्र ऋकारस्यान्तोदात्तस्य स्थाने विहितो रफ उदात्तयण्? न भवति। ततः परस्य जसः "उदात्तस्वरितयोः"
८।२।४ इत्यादिना स्वरितः प्राप्नोति, अतोऽस्यायमपवादः।
अथ जस्ग्रहमं किमर्थम्(),
तिसृकेऽप्यत्र मा भूदिति चेत्()? स्यादेतत्()--त्रिशब्दात्? संज्ञायां कनि कृते तत्र च "तिसृभावे कन्युपसंख्यानम्()" (वा।
८३७) इति तिरुआआदेशे तिसृकेत्यत्रापि स्यात्? असति जस्()ग्रहण इति नैतदस्ति; नित्स्वरोऽत्र बाधको भविष्यति। नाप्रापते स्वरान्तरे तिसृस्वर आरभ्यते, स यथैव "अनुदात्तौ सुप्तितौ" (३।१।
४) इत्येतत्स्वरं बाधते तथा नित्स्वरमिति चेत्()? नैतदस्ति; यस्माद्येन नाप्राप्ते तस्य बाधनं भवति। न चाप्राप्ते "अनुदात्तौ सुप्तितौ" (३।१।
४) इत्येतस्मिन्? तिसृस्वर आरभ्यते, नित्स्वरे पुनः प्राप्ते चाप्राप्ते च।
अथ वा मध्येऽपवादाः पूर्वान्? विधीन्? बाधन्ते" (व्या।प।१०) इत्येव तिसृस्वरे "अनुदात्तौ सुप्तितौ"
३।१।४ एत्येतं बाधिष्यते, न नित्स्वरम्()।
शसादिनिवृत्त्यर्थं तर्हि जस्ग्रहणमिति चेत्()? एतदपि नास्ति;
शसि तावद्भवितव्यमेवान्तोदात्तेन--"उदात्तयणो हल्पूर्वात्? ६।१।१६८ इति। अन्यानि सर्वाणि बहुवचनानि हलादीनि, तत्र "षट्त्रिचतुर्भ्यो हलादिः"
६।१।१६८ इति। अन्यानि सर्वाणि बहुवचनानि हलादीनि, तत्र "षट्त्रिचतुर्भ्यो हलादिः"
६।१।१७३ इति "झल्युपोत्तमम्()"
६।१।७७ इत्युदात्तत्वेन भव#इतव्यम्()। बहुवचनविषयत्वाच्च तिसृशब्दसय द्विवचनैकवचने न स्तः। तत्रान्तरेण जस्ग्रहणं जस एव भविष्यतीत्यत आह--"जस्ग्रहणम्()" इत्यादि। एके भाष्यकारादयः। असति जस्ग्रहणे तिसृ अतिक्रान्ताविति प्रादिसमासे कृते अतितिरुआआवित्यत्रापि स्यात्(), तन्मा भूदित्येष दोष इत्युपसमस्तार्थं जस्ग्रहणमिच्छन्ति॥