पूर्वम्: ७।१।२४
अनन्तरम्: ७।१।२६
 
सूत्रम्
अद्ड् डतरादिभ्यः पञ्चभ्यः॥ ७।१।२५
काशिका-वृत्तिः
अद्ड् डतराऽदिभ्यः पञ्चभ्यः ७।१।२५

डतरादिभ्यः परयोः स्वमोः अद्डित्ययम् आदेशो भवति। कतरत् तिष्ठति। कतरत् पश्य। कतमत् तिष्ठति। कतमत् पश्य। इतरत्। अन्यतरत्। अन्यत्। पञ्चभ्यः इति किम्? नेमं तिष्ठति। नेमं पश्य। डित्करणं किम्? कतरत् तिष्ठति इत्यत्र पूर्वसवर्नदीर्घो मा भूत्। इह तु कतरत् पश्य इति स्थनिवद्भावादमि पूर्वंत्वेन अपि सिध्यति। एवं तर्हि तकारादेश एव कस्मान् न विधीयते? हे कतरतिति सम्बुद्धेर् लोपो मा भूत्। अपृक्तश्चेदमो दोषो निवृत्ते डतरादिषु। अड्डित्त्वाड् डतरादीनां न लोपो न अपि दीर्घता।
लघु-सिद्धान्त-कौमुदी
अद्ड्डतरादिभ्यः पञ्चभ्यः २४२, ७।१।२५

एभ्यः क्लीबेभ्यः स्वमोः अद्डादेशः स्यात्॥
न्यासः
अद्ड्डतरादिभ्यः पञ्चभ्यः। , ७।१।२५

द्विडाकारोऽयं निद्र्दशः--तत्रैको डतरसम्बन्धी द्वितीयस्त्वादेशम्बन्धी। डतरादयश्चैते सर्वाद्यन्तःपातिनो गृह्रन्ते; न तु "द्वयोरेकस्य डतरच्()" ५।३।९२ इत्येवमादयः प्रत्ययाः। कुत एतत्()? नेतराच्छन्दसि" ७।१।२६ इति प्रतिषेधात्()। प्रत्ययग्रहणे हीतरशब्दात्? प्राप्तेरेव नास्तीति प्रतिषेधोऽनर्थकः स्यात्()। तेषां डतरादीनां मध्येऽन्त्यानि त्रीणि प्रातिपदिकानि; डतरडतमौ च प्रत्ययौ; तत्र प्रत्यग्रहणपरिभाषया (भो।प।सू।७) तदन्तयोग्र्रहणं भवति। "कतरत्()" इति। "किंयत्तदोर्निर्धारणे द्वयोरेकस्य डतरच्()" ५।३।९२। "कतमत्()" इति। "वा बहुनां जातिपरिप्रश्ने डतमच्()" ५।३।९३ "कतरत्? तिष्ठतीत्यत्र" इत्यादि। असति हि ङित्करणे कतरत्? तिष्ठतीत्यत्र "अकः सवर्णे दीर्घः" ६।१।९७ इत्यनुवत्र्तमाने "प्रथमयोः पूर्वसवर्णः" ६।१।९८ इति दीर्घः स्यात्(), अतः स मा भूदित्येवमर्थं ङित्करणं क्रियते। अत्र हि कृते दीर्घत्वप्रसङ्गो न भवति; टिलोपेनाऽकोऽपह्मतत्वात्()। किं पुनः कारणम्()--प्रथमैकवचनस्यैव ङित्करणस्य दीर्घाभावः प्रयोजनमुच्यते, न तु द्वितीयैकवचनस्य? इत्यत आह--"इह तु" इत्यादि। अमो हि स्थाने य आदेशस्तस्य "स्थानिवदादेशोऽनल्विधो" १।१।५५ इति स्थानिवद्भावादमि पूर्वत्वेनापि सिध्यति--कतरदित्येतत्(), तस्मात्? तत्र ङित्करणस्य दीर्घत्वाभावः प्रयोजनमिति नोच्यते। "तकारादेश एव कस्मान्न क्रियते" इति। यद्यत्र दीर्घत्वं नेष्यते तदा तकारादेश एव कत्र्तव्यः। तत्राप्ययमर्थः--दीर्घनिवृत्त्यर्थं ङित्करणं न कत्र्तव्यमिति। "हे कतरत्()" इत्यादि। यदि तकारादेश एव क्रियते तदा तस्य स्थानिवद्भावेन सम्बुद्धिभावोऽस्तीति "एङ् ह्यस्वात्? सम्बुद्धेः" ६।१।६७ इति लोपः प्राप्नोति, अतः स मा भूदित्येवमर्थं तकारादेशो न क्रियते। "अपृक्तश्च" इत्यादि। "हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तम्()" ६।१।६७ इत्यतश्चेदपृक्तग्रहणं सम्बुद्धिलोपेऽनुवत्र्तते तदामो दोषः--हे कुण्डेत्यत्र। निवृत्तेऽपृक्ताधिकारे डतरादिषु दोषः--हे कतरदिति। तस्माड्डित्करणादेवाकारलोपे कृते ह्यसवाभावान्न लोपः, न च दीर्घतेति॥
बाल-मनोरमा
अद्ड्डतरादिभ्यः पञ्चम्यः ३१३, ७।१।२५

अद्ड्डतरादिभ्यः। "अद्ड्-डतरादिभ्य" इति छेदः। दस्य ष्टुत्वेन डकारः, डस्य संयोगान्तलोपश्च आदेशस्वरूपावगतये न कृत इति कैयटः। डतर, डतम, अन्य, अन्यतर, इतर इति डतरादयः सर्वादिगणपठिताः। अत्र डक्त्रडतमौ प्रत्ययौ। अतस्तदन्तग्रहणं। "स्वमोर्नपुंसका"दिति सूत्रमनुवर्तते तदाह--एभ्य इत्यादिना।

तत्त्व-बोधिनी
अद्ड्डतरादिभ्यः पञ्चभ्यः २७५, ७।१।२५

अद्ड्डतरादिभ्यः। पञ्चभ्य इति किम्(), नेमं तिष्ठति। नेमं पश्य। डतरादयो "डतरडतमेतरान्यतरे"ति सर्वादिषु पठिताः। अद्डादेशः स्यादिति। जिघृक्षितादेशस्वरूपप्रतिपादमाय ष्टुत्वं न कृतम्।