पूर्वम्: ७।१।२५
अनन्तरम्: ७।१।२७
 
सूत्रम्
नेतराच्छन्दसि॥ ७।१।२६
काशिका-वृत्तिः
न इतराच् छन्दसि ७।१।२६

इतरशब्दादुत्तरयोः स्वमोः छन्दसि विषये अद्डादेशो न भवति। मृतमितरमाण्डमवापद्यत। वार्त्रघ्नम् इतरम्। छन्दसि इति किम्? इतरत् काष्ठम्। इतरत् कुड्यम्। अतो ऽम् ७।१।२४ इत्यस्मादनन्तरम् इतराच् छन्दसि इति वक्तव्यम्? नेतराच्छन्दसि इति वचनं योगविभगर्थम् एकतराद् धि सर्वत्र छन्दसि भाषायां प्रतिषेध इष्यते। एकतरम् तिष्ठति, एकतरं पश्य इति।
न्यासः
नेतराच्छन्दसि। , ७।१।२६

पूर्वेणाद्डादेशस्य प्रसकतस्यायं प्रतिषेधः। अथ "अतोऽम्()" ७।१।२४ इत्यस्यानन्तरं " इतराच्छन्दसि" इति कस्मान्नोक्तम्(), एवं हि नेति प्रतिषेधः कत्र्तव्यो न भवति, अमादेशोऽद्डादेशस्यापवादो भविष्यति? इत्याह--"अतोऽमित्यस्मादनन्तरम्()" इत्यादि। "योगविभागार्थम्()" इति। नेत्येकयोगविभागो यथा स्यादिति। किमर्थं पुनर्योगविभाग इष्यते? इत्याह--"एकतराद्धि" इत्यादि। एकशब्दाद्धि सर्वत्र प्रतिषेध इष्यते, स च नेति योगविभागाल्लभ्यते। तस्माद्योगविभाग इष्यते। स च यथान्यासे सिध्यति; नान्यथेति "नेतराच्छन्दसि" इत्युच्यते॥