पूर्वम्: ७।१।२६
अनन्तरम्: ७।१।२८
 
सूत्रम्
युष्मदस्मद्भ्यां ङसोऽश्॥ ७।१।२७
काशिका-वृत्तिः
युष्मदस्मद्भ्यां ङसो ऽश् ७।१।२७

युष्मदस्मदित्येताभ्याम् उत्तरस्य ङसः अशित्ययम् आदेशो भवति। तव स्वम्। मम स्वम्। शित्करणं सर्वादेशार्थम्। अन्यथा हि आदेशव्यपदेशप्रक्लृप्त्यर्थमादेरेव स्यात्, ततश्च यो ऽचि ७।२।८९ इतेतन् न स्यात्।
लघु-सिद्धान्त-कौमुदी
युष्मदस्मद्भ्यां ङसोऽश् ३२९, ७।१।२७

तव। मम। युवयोः। आवयोः॥
न्यासः
युष्मदस्मद्रभ्यां ङ्सोऽश्?। , ७।१।२७

यदि "शेषे लोपः" ७।२।९० इत्यन्तलोपः, तदास्य भावे प्राप्त इदं वचनम्()। अथ टिलोपः, तदा विभक्तेः श्रवणप्राप्त आदेशार्थं वचनम्()। "तद स्वम्(), मम स्वम्()" इति। "तदममौ ङसि" ७।२।९६ इति मपर्यन्तयोर्युष्मदस्मदोस्तवममादेशौ भवतः। "शेषे लोपः" ७।२।९० इति दकरलोपे कृते "अतो गुणे" ६।१।९४ पररूपत्वम्()। "शित्करणं सर्वादेशार्थम्()" इति। असति शित्करणे "आदेः परस्य" १।१।५३ इत्याकारस्यादेशोऽकारः स्यात्()। ननु चाकारस्याकारवचने प्रयोजनं नास्तीत्यन्तरेणापि शित्करणं सर्वादेशो भविष्यति, अन्तस्य वा। तत्र द्वयोरकारयोरतो गुणे पररूपत्वेनेष्टं सिध्यति? अत आह--"अन्यथा हि" इत्यादि। अन्यथा यदि शित्करणं न स्यात्? तदाऽ‌ऽदेश इति योऽयं व्यपदेशस्तस्य या प्रक्लृप्तिः=निष्पत्तिस्तदर्थमादेरेव स्यात्(); "आदेः परस्य" १।१।५३ इति वचनात्()। स्यादेतत्()--यद्यादेशव्यपदेशप्रक्लृप्तितः कश्चिदर्थः सम्पद्यते तदा स्यात्? तदर्थमादेरेव वचनम्(), न च ततः कश्चिदर्थः सम्पद्यते तस्मादयुक्तमेवेति? इत्यत आह--"ततश्च" इत्यादि। चशब्दो हेतौ। लिङ्? सम्भावनायाम्()। तत आदेशव्यपदेशप्रक्लृप्तेः "योऽचि" ७।२।८२ इति कार्यं न स्यात्()। एतद्धि यत्र विभक्तावादेशो नास्ति तत्र विधीयते; "अनादेशे" ७।२।८६ इत्यधिकारात्()। तस्मात्? प्रयोजनवत्यादेशवयपदेशप्रक्लृप्तिरिति तदर्थमादेरेव स्यात्(), ततश्चेटं रूपं न सिध्येत्()। तस्मात्? सर्वादिशार्थः शकारः कत्र्तव्यः॥
बाल-मनोरमा
युष्मदस्मद्भ्यां ङसोऽश् , ७।१।२७

युष्मदस्माद्भ्यां ङसोऽश्। स्पष्टमिति। युष्मदस्मद्भ्यां परस्य ङसोऽश् स्यादिति सुगममित्यर्थः। सित्त्वात्सर्वादेशः। तव ममेति। युष्मद् अस्, अस्मद् असितिस्थिते मपर्यन्तस्य तवममादेशयोः कृतयोरशादेशे दकारात्पूर्वयोरकारयोः पररूपेऽदो लोपः। अन्त्यलोपपक्षे दकारलोपः, त्रयाणामकाराणां पररूपमिति भावः। युवयोः आवयोरिति। युष्मद् ओस्, अस्मद् ओस् इति स्थिते मपर्यन्तस्य युवावादेशयोः "योऽची"ति दस्य यत्वे पररूपमिति भावः।

तत्त्व-बोधिनी
युष्मदस्यद्भ्यांङ्सोऽश् ३५२, ७।१।२७

युष्मादस्मद्()यां ङसोऽश्। शित्त्वं सर्वादेशार्थम्। अन्यथा हि "आदेः परस्ये"तिस्यात्। न चाऽकारस्याऽकारविधाने वैयथ्र्यम्, आदेशव्यपदेशेन यत्वनिवृत्त्यर्थत्वात्। न चावयवस्यादेशे सत्यपि विभक्तेरनादेशताऽस्त्येवेति वाच्यं, "सर्वे सर्वपदादेशा"इति सिद्धान्तात्। इदमेव शित्त्वं ज्ञापयति "सर्वे सर्वपदादेशाः"इति। अर्थवत्येव स्थान्यादेशभावविश्रान्तिरित्यर्थः। सिच्चङादयस्तु वचनसामथ्र्यादनर्थकस्यापि भवन्तीति मनोरमायां स्थितम्।