पूर्वम्: ७।१।३०
अनन्तरम्: ७।१।३२
 
सूत्रम्
पञ्चम्या अत्॥ ७।१।३१
काशिका-वृत्तिः
पञ्चम्या अत् ७।१।३१

पञ्चम्याः भ्यसः युष्मदस्मद्भ्याम् उत्तरस्य अतित्ययम् आदेशो भवति युष्मद् गच्छन्ति। अस्मद् गच्छन्ति।
लघु-सिद्धान्त-कौमुदी
पञ्चम्या अत् ३२७, ७।१।३१

आभ्यां पञ्चम्यां भ्यसोऽत्स्यात्। युष्मत्। अस्मत्॥
न्यासः
पञ्चम्या अत्?। , ७।१।३१

पूर्वेण प्राप्तस्य भ्यमोऽयमपवादः॥
बाल-मनोरमा
पञ्चम्या अत् , ७।१।३१

पञ्चम्या अत्। "युष्मदस्मद्भ्यां ङसोऽ"शित्यतो" युष्मदस्मद्भ्यामित्यनुवर्तते। "भ्यसोऽभ्य"मित्यतो "भ्यस" इति। तदाह-आभ्यामिति। युष्मदस्मद्भ्यामित्यर्थः। युष्मत् अस्मदिति। युष्मद् भ्यस्, अस्मद् भ्यसिति स्थिते भ्यसोऽदादेशः। शेषलोपश्च।