पूर्वम्: ७।१।३१
अनन्तरम्: ७।१।३३
 
सूत्रम्
एकवचनस्य च॥ ७।१।३२
काशिका-वृत्तिः
एकवचनस्य च ७।१।३२

पञ्चम्या एकवचनस्य युष्मदस्मद्भ्याम् उत्तरस्य अतित्ययम् आदेशो भवति। त्वद् गच्छन्ति। मद् गच्छन्ति।
लघु-सिद्धान्त-कौमुदी
एकवचनस्य च ३२६, ७।१।३२

आभ्यां ङसेरत्। त्वत्। मत्॥
न्यासः
एकवचनस्य च। , ७।१।३२

चकारोदादेशानुकर्षणार्थः, भ्यसपेक्षया समुच्चयार्थो वा। "ङसेश्च" इति। वक्तव्ये, एकवचनक्तेति वचनं वैचित्र्यार्थम्()
बाल-मनोरमा
एकवचनस्य च , ७।१।३२

अथ पञ्चमी। एकवचनस्य च। "युष्मदस्यद्भ्यां ङसोऽश्" इत्यतो "युष्मदस्मद्भ्या"मित्यनुवर्तते, "पञ्चम्या अत्" इति च, तदाह-आभ्यामिति। युष्मस्मद्भ्यामित्यर्थः। अनेकाल्त्वात्सर्वादेशः। "न विभक्तौ" इति तस्य नेत्त्वम्। त्वत् मदिति। युष्मद् अस्, अस्मद् अस् इति स्थिते त्वमादेशयोः कृतयोः ङसेरदादेशे सति पररूपे "शेषे लोपः" इति टिलोपः। अन्त्यलोपपक्षे दकारलोपे सति त्रायाणामकाराणां पररूपमिति भावः। सुवचमिति। लाघवादिति भावः।