पूर्वम्: ७।१।२९
अनन्तरम्: ७।१।३१
 
सूत्रम्
भ्यसः भ्यम्॥ ७।१।३०
काशिका-वृत्तिः
भ्यसो भ्यम् ७।१।३०

युष्मदस्मद्भ्याम् उत्तरस्य भ्यसः भ्यम् इत्ययम् आदेशो भवति। युष्मभ्यं दीयते। अस्मभ्यं दीयते। भ्यमादेशे कृते शेषेलोपे च बहुवचने झल्येत् ७।३।१०३ इति एत्वं प्राप्नोति, ततङ्गवृत्ते पुनर्वृत्तावविधिर्निष्ठितस्य इति न भवति। केचित् पुनरभ्यमादेशमेत्वनिवृत्त्यर्थं कुर्वन्ति। येषां तु शेषेलोपः टिलोपः, तेषाम् अभ्यमादेश एव। उदात्तनिवृत्तिस्वरश्चादेरेव भवति।
लघु-सिद्धान्त-कौमुदी
भ्यसोऽभ्यम् ३२५, ७।१।३०

आभ्यां परस्य। युष्मभ्यम्। अस्मभ्यम्॥
न्यासः
भ्यसो भ्यम्?। , ७।१।३०

"युष्मभ्यम्(), अस्मभ्यम्()" इति। "शेषे लोपः" ७।२।९० इत्यन्तलोपः। यदि भ्यमादेशोऽयम्(), एवं सति तत्र विहिते शेषेलोपे च "बहुवचने झल्येत्()" ७।३।१०३ इत्येत्त्वं प्राप्नोति, ततश्चानिष्टरूपमापद्येत? इत्यत आह--"भ्यमादेशे कृते" इत्यादि। वत्र्तनं वृत्तम्(), अङ्गे वृत्तं यस्य तदङ्गवृत्तं कार्यम्(), तस्मिन्नङ्गवृत्ते कार्ये पुनरत्तरकालमङ्गवृत्तावपरस्य कार्यस्य प्राप्तौ तस्य कार्यस्यादिधिः;=अविधानम्()। निष्ठितस्येत्यनेन यत्समम्बन्धिनः कार्यस्याविधिर्भवति तदङ्गं विशिष्यते। निष्ठितम्()=परिसमाप्तम्(), प्रयोगार्हमङ्गम्। तत्सम्बन्धिनः कार्यस्याविधिर्भवति, नान्यसम्बन्धिन इत्यर्थः। "केचित्()" इत्यादि। तेषामन्त्यलोपे कृते "अतो गुणे" ६।१।९४ पररूपत्वं भवति। "येषां तु" इत्यादि। यैः "शेषे लोपः" ७।२।९० इत्यन्तलोपः क्रियते, तेषां मतभेदः--ते हि केचिद्भ्यमादेशमिच्छन्ति, केचिदभ्यमादेशम्()। येषां तु शेषेलोपष्टिलोपः तेषां मतेनायमभ्यमादेश एव, न भ्यमादेशः; अन्यथा युष्मब्यमिति न सिध्येवितयभिप्रायः। यदि तर्हि शेषेलोपष्टिलोपः, एवं सति "अनुदात्तस्य यत्रोदात्तलोपः" (६।१।१०१) इत्यनेनाभ्यम्()शब्दस्यान्()तोदात्तत्वं स्यात्()? इत्यत आह--"उदात्तनिवृत्तिस्वरश्च" इत्यादि। पूर्वपक्षवादिनोदात्तनिवृत्तिस्वरविधौ "कर्षात्वतो घञोऽन्त उदात्तः" ६।१।१५३ इत्यतोऽन्तग्रहणमनुवत्र्तत इति मन्यमानेन चोदितन्()। उत्तरपक्षवादिना तु "अन्तग्रहणं तत्र निवृत्तमुच्चारणक्रमप्रतयासत्त्या चादेरेवोदात्तत्वेन भवितुं युक्तम्()" इति। मन्यमानेन परिह्मतम्()॥
बाल-मनोरमा
भ्यसोऽभ्यम् , ७।१।३०

भ्यसोभ्यम्। भ्यम् अभ्यमिति वा छेदः। तदाद-भ्यस इति। "युष्मदस्मद्भ्यां परस्ये"ति शेषः, "युष्मदस्मद्भ्यां ङसोऽश्" इत्यतस्तदनुवृत्तेः। ननु ब्यमादेशपक्षे "शेषे लोपः" इत्यदो लोपे युष्मभ्यमस्मभ्यमिति मकारादकारो न श्रूयेतेत्यत आह--आद्य इति। लक्ष्यानुरोधादिहाऽन्त्यलोपपक्ष एवाश्रयणीयः। नन्वन्त्यलोपपक्षे दकारस्य लोपे सति "बहुवचने झल्येत्" इत्येत्त्वं स्यादित्यत आह--तत्राङ्गवृत्तेति। "अङ्गवृत्तेः पुनर्वृत्तावविधि"रिति परिभाषयेत्यर्थः। अङ्गेवृत्तं वर्तनं यस्य तत्-अङ्गवृत्तं, तस्मिन् कार्ये प्रवृत्ते सति अन्यस्य अङ्गकार्यस्य वृत्तौ प्रवृत्तिविषये अविधिः=विदिर्नास्तीत्यर्थः। प्रकृते च शेषलोपे अङ्गकार्ये प्रवृत्ते सति, अन्यत् अङ्गकार्यमेत्त्वं न भवतीति भावः। अभ्यम् त्विति। अब्यमादेशस्तु टिलोपपक्षे अन्त्यलोपपक्षे च अनुकूल इत्यर्थः। तत्र अन्त्यलोपपक्षे अभ्यमो झलादित्वाऽभावात्तस्मिन् परे एत्त्वं न। किन्तु पररूपे सति युष्मभ्यम् अस्मभ्यम् इति सिध्यति। टिलोपपक्षे तु अङ्गस्य अदन्तत्वाऽभावादपि एत्त्वं न।

तत्त्व-बोधिनी
भ्यसोऽभ्यम् ३५१, ७।१।३०

पक्षद्वयेऽपि साधुरिति। नन्वन्त्यलोपपक्षे पररूपं बाधित्वा सवर्णगदीर्घः स्यादकारोच्चारणसामथ्र्याजिति चेदत्राहुः, बहुवचने झल्ये"दित्येत्त्वनिवृत्याऽकारोतच्चारणस्य चरितार्थत्वादिति। यद्यप्यङ्गवृत्तपरिभाषया एत्वं सुपरुहरं, तथापि तस्या अनित्यत्वे इदमप्यकारोच्चारणं ज्ञापकमिति तत्त्वम्।