पूर्वम्: ७।१।३२
अनन्तरम्: ७।१।३४
 
सूत्रम्
साम आकम्॥ ७।१।३३
काशिका-वृत्तिः
साम आकम् ७।१।३३

साम इति षष्थीबहुवचनम् आगतसुट्कं गृह्यते। तस्य युष्मदस्मद्भ्याम् उत्तरस्य आकम् इत्ययम् आदेशो भवति। युष्माकम्। अस्माकम्। अथ किमर्थम् आगतसुट्को गृह्यते, न घादेशविधानकाले सुड् विद्यते? तस्य एव तु भाविनः सुटो निवृत्त्यर्थम्। आदेशे कृते हि शेषेलोपे युष्मदस्मदोरकारान्तत्वात् सुट् प्राप्त्नोति, स स्थान्यन्तर्भूतत्वात् निवर्तते। दीर्घोच्चारणं सवर्णदिर्घार्थम्। अकमि तु सति ह्रस्वकरणे तद्विधानसामर्थ्यादेव सवर्णदीर्घत्वं न प्राप्नोति? तत्सामर्थ्यम् एत्वं प्रति भविष्यति इति अकारकरणमेत्वनिवृत्त्यर्थम् इति। अतो गुणे पररूपत्वं स्यात्।
न्यासः
साम आकम्?। , ७।१।३३

"सम इति षष्ठीबहुवचनमागतसुट्कं परिगृह्रते" इति। युष्मदस्मद्भ्यामुत्तरस्यान्यस्य सामशब्दस्यासम्भवात्()। आगतः सम्प्राप्तः सुट्? यत्र येन वा तत्तथोक्तम्()। "अथ" इत्यादौ वाक्य "आगतसुट्कः" इत्याम्प्रत्ययापेक्षया पुंल्लिङ्गत्वं वेदितव्यम्()! "अथ किमर्थमागतसुट्कः परिगृह्रते" इति पृष्टस्य ससुट्कस्यादेशो यथा स्यादिति प्रतिवचनमाशह्क्याह--"न हि" इत्यादि। "आमि सर्वनाम्नः सुट्()" ७।१।५२ इत्यत्र "आज्जसेरसुक्()" ७।१।५० इत्यत आदिति वत्र्तते, तेनाकारान्तात्? सर्वनाम्नः सुङ्? विधीयते। अकारान्तता च युष्मदस्मदोः "शेषे लोपः" ७।२।९० इत्यन्तलोपे सति भवति। शेषेलोपेनाप्याकमादेशे कृते भवितव्यम्()। तस्मादादेशविधानकाले सुण्न विद्यते। ततश्च ससुट्कस्यादेशो यथा स्यादित्येतत्प्रयोजनं नोपपद्यत इत्यन्यद्वक्तवयमित्यभिप्रायेणाह--"तस्यैव" इत्यादि। यद्यसुट्को गृह्रते "निर्दिश्यमानस्यादेशा भवन्ति" (व्या।प।१०६) इत्यसुट्कस्यैवादेशः स्यात्()। एवञ्चाभिनिवृत्ते स्थान्यादेशभावे पश्चाद्भवतः सुटः केन निवृत्तिः स्यात्()? इष्यते च तस्यापि निवृत्तिः। अतस्तस्य भाविनोऽपि निवृत्तिर्यथा स्यादित्येवमर्थं समुट्को गृह्रते। ननु च युष्मदस्मद्भ्यामुत्तरस्यामः सुडेव न प्राप्नोति, अकाराद्धि सर्वनाम्नः सुङ्? विधीयते, युष्मदस्मादोश्च त्यदाद्यत्वं नास्ति, "द्विपर्यन्तास्त्यदादयः" इति त्यदाद्यत्वस्याभावाच्छेषेलोपस्य च टिलोपादकारान्तता न सम्भवति; अतो भाविनोऽपि सुटो निवृत्तिर्नैव प्रयोजनमुपपद्यते? एतच्चोद्यमपाकर्त्तुम्? ""शेषे लोपः" इत्यन्तलोपः" इति ह्मदि कृत्वाऽ‌ऽह--"कृते हि" इत्यादि। अथ क्रियमाणे समुट्कस्य ग्रहणे कथमसौ निवत्र्तते, शास्त्रान्तराद्धि प्रसक्तस्य शास्त्रेण निवृत्तिः क्रियते, न चादेशविधानकले सुट्प्रसङ्गोऽस्ति? इत्याह--"स च स्थान्यन्तर्भूतत्वात्()" इत्यादि। यद्यादेशविधानकाले सुटः प्रसङ्गः सम्भवेत्? ततो भावी न निवत्र्तते, न चासावादेशकाले सम्भवति। तस्माद्भाविनः सुटः ससुट्कग्रहणेन स्थान्यन्तर्भूतत्वाद्यस्यामवस्थायां तस्य प्राप्तिस्तस्यां प्रसक्तः स निवत्र्तते; मन्यथा हि तस्य स्थान्यन्तर्भावोऽनर्थकः स्यात्()। स्यादेतत्()--यदि "शेषे लोपः" ७।२।९० इत्यन्तलोपस्ततः समुटकस्योपादानमर्थवद्भवति, यदा तु सेषेलोपष्टिलोपस्तदा नार्थः कस्मान्नाश्रीयते, तस्यानुपपत्तेः। अनुपपत्तिस्तु लक्षणाभावात्()। अन्त्यलोपस्यास्यैतदेवास्ति लक्षणमिति स एवाश्रितः। यद्येवम्(), युष्मद्ब्राआहृणीभ्योगच्छतीत्यन्त्यलोपे सति "अजाद्यतष्टाप्()" (४।१।४) इति टाप्प्रसज्येत? "अलिङ्गे युष्मदस्मदी" इति नैषोऽस्तप्रसङ्गः। "दीर्घोच्चारणम्()" इत्यादि। ननु चाकम्यपि अकः सवर्णदीर्घत्वे (६।१।१०१) न सिध्यत्येव? न; सिध्यति। "अतो गणे" (६।१।९७) इति पररूपत्वमपवादः प्राप्नोतीति चेत्()? न; अकारोच्चारणसामथ्र्यात्()। यदि अतो गुणे" (६।१।९७) पररूपत्वं स्यात्? तदाकारोच्चारणमनर्थकं स्यात्(), कमित्येव ब्रायादित्यत आह--"अकमि तु" इत्यादि। तुशब्दो दीर्घोच्चारणापेक्षया समुच्चयार्थः। इतिकरणो हेतौ। यदि ह्रकारोच्चारणस्य प्रयोजनं न स्यात्(), शक्यते वक्तुम्()--अकारोचचारणसामथ्र्यान्न भविष्यतीति; अस्ति च तसय प्रयोजनम्(), किं तत्()? "ब्राहुवचने झल्येत्()" ७।३।१०३ इत्येत्त्वं मा भूत्()। तस्मात्? सत्यप्यकारोच्चारण एतत्त्वनिवृत्त्यर्थे "अतो गुणे" ६।१।९४ पररूपत्वं स्यात्(), न सवर्णदीर्घत्वम्()। अतस्तदर्थं दीर्घोच्चारणं क्रियते॥
बाल-मनोरमा
साम आकम् , ७।१।३३

साम आकम्। आभ्यामिति। "युष्मदस्मद्भ्यां ङसो"शित्यतस्तदनुवृत्तेरिति भावः। साम इति। सकारेण सहित आम्-साम्, तस्येत्यर्थः, ससुट्कस्य आम इति यावत्। ननु युष्मद् आम्, अस्मद् आमिति स्थिते अवर्णात्परत्वाऽभावात्सुटो न प्रसक्तिः। नच "शेषे लोपः" इति तस्य लोपे कृते।ञवर्णात्परत्वमस्तीति वाच्यम्, आकमादेशात्प्रागनादेशतया शेषेलोपस्यैवात्राऽप्रसक्तेः ससुट्कनिर्देशोऽनुपपन्नो व्यर्थश्चेत्यत आह--भाविन इति। भविष्यत इत्यर्थः। यदि तु "आम आकम्" इत्येवोच्येत, तर्हि आम आकमादेशे कृते दकारस्य शेषेलोपे सति स्थानिवत्त्वेन आकमादेशस्य आम्त्वात्तस्य चाऽवर्णात्परत्वात्सुडागमः स्यात्। तत एत्वषत्वयोर्युष्मेषाकम्, अस्मेषाकमिति स्यादतः ससुट्कनिर्देशः। यद्यपि आकमादेशप्रवृत्तकाले सुटो न प्रसक्तिस्तथापि आकमादेशोत्तरं दकारलोपे कृते स्थानिवत्त्वेन यः सुट भविष्यति, तस्यापि स्थानषष्ठ()आ स्वीकरणान्निवृत्तिर्भवति। अन्यता ससुट्कनिर्देशवैयथ्र्यादिति भावः। यदि तु शेषस्य लोप एवाश्रीयते, तदा कृतेऽप्याकमादेशेऽदो लोपेऽवर्णात्परत्वाऽभावादेव सुटः प्रसक्त्यभावलात्ससुट् कनिर्देशो मास्तु। युष्माकम् अस्माकमिति। आकमादेशे कृतेऽदो लोपे रूपम्। दकारलोपे तु सवर्णदीर्घः। एतदर्थमेव दीर्घोच्चारणम्। अन्यता पररूपापत्तेः। न चाऽकारोच्चारणसामथ्र्यादेव पररूपनिरास इति वाच्यं, "क"मादेशे प्राप्तबहुवचने झल्ये"दित्येत्त्वनिवृत्त्या चरितार्थत्वादित्यलम्। त्वयि मयीति। युष्मद् इ, अस्मद् इ इति स्थिते मपर्यन्तस्य त्वमादेशयो "र्योऽची"ति दस्य यत्वे पररूपे रूपमिति भावः। युवयोः #आवयोरिति। प्राग्वत्। युष्मासु अस्मास्विति। युष्मदस्मदोरनादेशे" इति दकारस्य आत्वे सवर्णदीर्घ इति भावः। "त्वमावेकवचने" इत्यत्र "युवावौ द्विवचने" इत्यत्र च एकवचनद्विवचनशब्दौ यौगिकौ, नतु प्रत्ययपराविति स्थितम्।

तत्फलं श्लोकचतुष्टयेन सङ्गृह्णाति--समस्यमाने इति। तत्र प्रथमश्लोके "चे"दित्यनन्तरम् "अपी"त्यध्याहार्यम्। यदि समस्यमाने युष्मदस्मदी द्व्येकत्ववाचिनी तदा समासार्थोऽन्यसङ्ख्यश्चेदपि युवावौ त्वमावपि स्त इत्यन्वयः। त्वां मां वा अतिक्रान्तः; अतिक्रान्तौ, अतिक्रान्ता इति, युवामावां वा अतिक्रान्तः, अतिक्रान्तौ, अतिक्रान्ता इति च विग्रहे-"अत्यादयः क्रान्ताद्यर्थे द्वितीयया" इति समासं लभमाने युष्मदस्मदी द्वित्वैकत्वान्यतरविशिष्टार्थवाचिनी यदा तदा समासार्थः मुख्यविशेष्यभूतोऽन्यसङ्ख्यश्चेदपि युष्मदस्मदर्थगतसङ्ख्यापेक्षया अन्यसङ्ख्याकश्चेदपि युष्मदस्मर्थगतद्वित्वे युवावौ, तदर्थगतैकत्वे त्वमौ च द्विवचनैकवचनप्रत्ययपरत्वाऽभावेऽपि युष्मदस्मदर्थगतसङ्ख्यापेक्षया अन्यसङ्ख्याकश्चेदपि युष्मदस्मर्थगतद्वित्वे युवावौ, तदर्थगतैकत्वे त्वमौ च द्विवचनैकवचनप्रत्ययपरत्वाऽभावेऽपि भवतः, युवावादेशविधौ द्विवचनशब्दस्य, त्वमादेशविधौ एकवचनशब्दस्य च यौगिकत्वाश्रयणात्। एकवचने प्रत्यये परतस्त्वमादेशौ, द्विवचने प्रत्यये परतो युवावादेशौ इत्यर्थाश्रयणे तु त्वां मां वा अतिक्रान्तौ, अतिक्रान्ता इति विग्रहे अतियुष्मद्()शब्दे अत्यस्मच्छब्दे च युष्मदस्मदोर्द्विवचने बहुवचने च प्रत्यये परे त्वमै न स्याताम्। तथा युवामावां वा अतिक्रान्तः, अतिक्रान्तौ, अतिक्रान्ता इति विग्रहे युष्मदस्मदोरेकवचने बहुवचने च प्रत्यये परे युवावौ न स्यातामित्यव्याप्तिः स्यादित्यर्थः। ननु युष्मद्समदोद्व्र्यर्थकत्वे युवावौ, एकार्थकत्वे तु त्वमौ इति किं सार्वत्रिकम्?।

नेत्याह--सुजस्ङेङस्सु इति। द्वितीयश्लोकेऽस्मिन् उत्तरार्धे त्वाहावित्यादि तत्तत्सूत्रप्रतीकग्रहणम्। "इती"त्यनन्तरं "ये" इत्यध्याहार्यम्। "त्वाहौ सौ", "यूयवयौ जसि", "तुभ्यमह्रौ ङयि", "तवममौ ङसी"ति सुजस्ङेङस्सु ये आदेशा विहितास्ते अतियुष्मदत्यस्मच्छब्दाभ्यामेकद्विबह्वर्थवृत्तित्वेऽपि स्युरित्यर्थः। ननु तत्रापि द्व्यर्थकत्वे युवावौ एकार्थकत्वे त्वमौ कुतो नेत्यत आह-एति इति। तृतीयश्लोके पूर्वाद्र्धमेकं वाक्यम्।

एते=त्वाहादयः, स्वके=स्वीये विषये सुजसादौ, युवाबौ बाधन्ते। कुतः?। परत्वात्। युवावापेक्षया एतेषां परत्वादित्यर्थः। नन्वस्त्वेवं त्वाहादिभिर्युवाबयोर्बाधः, त्वमौ तु तेभ्यः परौ कथं तैर्बाध्येतामित्यत आह--त्वमावपीति। पूर्वेति। विप्रतिषेधे सति पूर्वं पूर्वविप्रतिषेधः। "सुप्सुपा" इति समासः। तृतीयान्तात्तसिः। विप्रतिषेधसूत्रे परशब्दस्य इष्टवाचितया क्वचिद्विप्रतिषेधे पूर्वकार्यस्य प्रवृत्त्याश्रयणादिति भावः। "प्रत्ययोत्तरण्दयोश्च" इति सूत्रभाष्ये तु "त्वमावेकवचने" इति सूत्रे "शेष" इत्यनुवत्र्य "सुजस्ङेङस्()भिन्नविभक्तिषु" इति व्याख्यातम्।

तदेवं "त्वमावेकवचने", "युवावौ द्विवचने" इत्यत्र एकद्विवचन्शब्दयोर्यौगिकत्वाश्रयणस्याऽव्याप्तिपरिहारार्रथत्वमुक्त्वाऽतिव्याप्तिपरिहारार्थत्वमाह-द्व्यकसङ्ख्य इति। चतुर्थश्लोकेऽस्मिन् "यदा" "तदे"त्यध्याहार्यम्। यदा युष्मान् अस्मान्वा अतिक्रान्तौ अतिक्रान्ता इति विग्रहे समासे सति द्वित्वैकत्वविशिष्टः समासार्थः=समासस्य मुख्यविशेष्यभूतः, युष्मदस्मदी तु बह्वर्थके, तदा युवावौ त्वमौ च न स्तः, तयोः युष्मदस्मदोर्द्वित्वैकत्वविशेष्टार्थकत्वाऽभावात्। युवावविधौ त्वमविधौ च युष्मदस्मदोर्द्वित्वैकत्वविशिष्टवाचित्वे सत्येव प्रवृत्तेराश्रयणात्। द्विवचने एकवचने च प्रत्यये परत इत्यर्थाश्रयणे तत्राऽतिव्याप्तिः स्यादित्यर्थः। अत्र "प्रत्ययोत्तरपदयोश्चे"ति सूत्रे भाष्ये "त्रिचतुर्युष्मदस्मद्ग्रहणेष्वर्थग्रहण"मिति वार्तिकव्याख्यावसरे "युवावौ द्विवचने" "त्वमावेकवचने" इत्यत्र द्विवचनैकवचनशब्दयोर्यौगिकत्वाश्रयणमुपक्षिप्य युवाम् आवां वा अतिक्रान्तः, अतिक्रान्तौ, अतिक्रान्ता इति विग्रहान् प्रदश्र्य, त्वा मां वा अतिक्रान्तः, अतिक्रान्तौ, अतिक्रान्ता इति च विग्रहान् प्रदश्र्य, अतियुष्मदत्यस्मच्छब्दयो सुजस्()ङेङस्भ्योऽन्यत्र सर्वासु विभक्तिषु एकद्विबहुवचनेषु सर्वत्र युवावादेशौ त्वमादेशौ च उदाह्मत्य प्रदर्शितौ। सुजसङेङस्सु तु त्वाहौ यूयवयौ तुभ्यमह्रौ तवममौ इत्येत एवादेशा उदाह्मताः। तदिदं श्लोकचतुष्टयेन संगृहीतम्। तदिदानीं तत्प्रपञ्चनपरभाष्यानुसारेणोदाह्मत्य प्रदर्शयति-त्वा मां वा अतिक्रान्त इत्यादिना। अतिक्रान्तौ अतिक्रान्ता इति च विग्रहयोरुपलक्षणमिदम्। "विग्रहे" इत्यनन्तरं "रूपाणि वक्ष्यन्ते" इति शेषः। सुजस्()ङेङस्()भ्योऽन्यत्र सर्वासु विभक्तिषु एकद्विबहुवचनेषु मपर्यन्तस्य त्वमावे भवतः। अवशिष्टप्रक्रियास्तु केवलयुष्मदस्मद्वज्ज्ञेयाः। सुजस्()ङेङस्सु तु त्वाहौ, यूयवयौ, तुभ्यमह्रौ, तवममौ इत्येते एवादेशाः पूर्वप्रतिषेधात्त्वमौ बाधित्वा भवन्ति। ततश्च सुजस्()ङेङस्सु केवलयुष्मदस्मद्वदेनव रूपाणीति निष्कर्षः। अतित्वाकम् अतिमाकमिति। ननु "सामः आक"मिति ससुट्()कनिर्देशाद्यत्र आमः सुट्संभवस्तत्रैवाकम्, नचात्र सुट् संभाव्यते, इह युष्मदस्मदोरुपसर्जनत्वे सर्वनामत्वाऽभावात्। सुटः सर्वनाम्नः परस्यामो विहितत्वादिति चेत्, मैवम्-ससुट्कत्वस्य संभावनामात्रविषयत्वात्। एवंच सुट् यत्र संभविष्यति तत्र सुटो निवृत्त्यर्थं ससुट्कनिर्देशः। यत्र तु सुट् न संभवति, तत्र केवलस्य आमः सुट्। अत्र च "प्रत्ययोत्तरपदयोश्चे"ति सूत्रेऽतित्वाकमतिमाकमिति भाष्ये तदुदाहरणं प्रमाणमित्यास्तां तावत्। तदेवमुपसर्जनयोः युष्मद्समदोरेकार्थवाचित्वं उदाहरणान्युक्त्वा द्व्यर्थवाचित्वे उदाहरति--युवाम् आवां वा अतिक्रान्त इति। अतिक्रान्तौ अतिक्रान्ता इति विग्रहयोरुपलक्षणम्। अत्र युष्मदस्मदोद्वर्य्र्थृत्तित्वात्सुजस्()ङेङस्भ्योऽन्यत्र सर्वासु विभक्तिषु एकद्विबहुवचनेषु मपर्यन्तस्य युवावावेव भवतः। अवसिष्टास्तु प्रक्रियाः केवलयुष्मदस्मद्वज्ज्ञेयाः। सुजस्()ङेङस्सु केवलयुष्मदस्मद्वदेव रूपाणिति निष्कर्षः। अथ युष्मदस्मदोरुपसर्जनयोर्बह्वर्थवाचित्वे उदाहरणान्याह--युष्मान् अस्मान्वेति। युष्मानस्मान्वा अतिक्रान्तः, अतिक्रान्तौ, अतिक्रान्ता इति विग्रहेष्वित्यर्थः। "द्वयेकसङ्ख्यः समासार्थः" इति चतुर्थश्लोकस्योदाहरणान्येतानि। अत्र युष्मस्स्मदोरेकद्व्यर्थवाचित्वाऽभावात्सुजस्()ङेङस्भ्योऽन्यत्र मपर्यन्तस्य क्वापि न त्वमौ, नापि युवावौ। "ङे प्रथमयोः" इत्याद्यास्तु भवन्त्येव। सुजस्()ङेङस्सु तु त्वाहौ यूयवयौ तुभ्यमह्रौ तवममौ इत्येते भवन्त्येव। तेषामेकद्व्यर्थविशेषनिबन्धनत्वाऽभावात्। प्राग्वदिति। केवलयुष्मस्मद्वदित्यर्थः। इत्यधिकृत्येति। "विधयो वक्ष्यते" इति शेषः। अष्टमस्य प्रथमे पादे इमानि सूत्राणि पठितानि। तत्र "पदस्ये"टत्येतत् "अपदान्तस्य मूर्धन्यः" इत्यतः प्रागधिक्रियते। "पदात्" इत्येतत्तु "कृत्सने च सुप्यगोत्रादौ" इत्यतः प्रागदिक्रियते। "अनुदात्तं सर्वमपादादौ" इति पदत्रयं तु आ पादसमाप्तेरधिक्रियते इति भाष्यादिषु स्पष्टम्।

तत्त्व-बोधिनी
साम आकम् ३५३, ७।१।३३

तव ममेति। नन्वत्रान्त्यलोपपक्षेऽशः स्यादेशः स्यात्, यत्वमिवृत्त्यर्थतया अ()आचनस्य चरितार्थत्वात्। नच स्यादेशस्यापवादोऽशिति वाच्यम्, अशादेशप्रवृत्तिकाले शेषे लोपाऽभावेन स्यादेशस्यऽप्रसक्तेः। अत्राहुः--अङ्गवृत्तपरिभाषया स्यादेशे वारणीयः। यदि तु अङ्गस्य तत्कार्यं तद्विषययिण्येव सा परिभाषा, न त्वङ्गाधिकारपरेति दुराग्रहस्तह्र्रशित्यत्र "अतो गुणे"इति पररूपेणाऽकारान्तरं प्रश्लिष्याऽकाररूप एवाऽश् भवति न तु विक्रियत इति व्याख्येयमिति। नन्वाकमादेशात्पूर्वमनादेशत्वाद्योचीति यत्वेन भाष्यं, ततश्च शेषे लोपाऽभावादवर्णान्तादिति विधायमानस्य सुडागमस्या।ञप्रसक्त्या साम इति ससुट्कनिर्देशो व्यर्थ इत्यत आह--भाविन इति। कृते हि शेषेलोप अकारान्तत्वात्प्राप्तः सुट् ससुट्कस्य स्थानित्त्वेन निर्देशसामथ्र्यान्निवर्तत इति भावः। "शेषे लोपष्टिलोपः"इति पक्षे तु सुङ्ग्रहणं व्यर्थमेन। आकमि दीर्घोच्चारणं सवर्णदीर्घार्थम्। अन्यथा पररूपं स्यात्। न चाऽकारोच्चारणसामथ्र्यम्, एत्वनिवृत्त्या अभ्यमैव चरितार्थत्वात्। इह "युवावौ द्विवचने""त्वमावेकवचने"इति सूत्रद्वयेऽपि द्विवचनैकवनशब्दार्थपरौ, नतु प्रत्ययपराविति व्याख्यातं, तत्फलं दर्शयति--समस्यमान इत्यादिना। द्व्येकत्ववाचिनी इति। "पञ्चकं प्रातिपदिकार्थं"इति पक्षाभिप्रायेणेदमुक्तम्। अस्मिस्तु पक्षे सङ्ख्याया अपि प्रातिपदिकार्थत्वात्। त्रिकपक्षे चु "द्व्येकार्थवाचिनी"इति पाट()म्। सङ्ख्याया विभक्त्यर्थत्वेऽपि सङ्खयेयस्य प्रातिपदिकार्यत्वानपायात्। अन्यसङ्ख्यश्चेदिति। युष्मदस्मदर्थगतसङ्ख्येतरसङ्ख्यायुक्तश्चेदित्यर्थः। स्त इति। अर्थपरत्वाश्रयणसामथ्र्यादेव भूतपूर्वगतेरपि स्वीकाराद्युवावौ त्वमावपि स्तः। प्रत्ययपरत्वे तु न स्यातामित्यव्याप्तिः स्यादिति भावः। एवं चतुर्थश्लोकेऽपि "न युवावौ त्वौ न चे"त्युक्त्या प्रत्ययपरत्वेऽतिव्याप्तिध्र्वनिता। एवं चाऽव्याप्त्यतिव्याप्तिपरिहारायार्थपरत्वमाश्रितमिति फलितम्। नन्वेवं सुजस्()ङेङस्स्वपि युष्मदस्मदोद्वर्य्र्थत्वे युवावौ स्यातामेकार्थंत्वे तु त्वमावित्याशङ्कायामाह--सुजस्()ङेङस्सु परत इति। के ते आदेशा इत्यत त्याह---त्वाहौ यूयवयावित्यादि। अस्त्वेवं त्वाहागिभिर्युवावयोर्बाधस्त्वमौ तु तेभ्यः परौ कथं तैर्बाध्येतामित्यत आह---त्वमावपीति। "विप्रतिषेधे पर"मित्यत्र परशब्दस्येष्टवाचित्वादिति भावः। अतित्वामतिमामिति। त्वां मा#ं वा अतिक्रान्ताविति विग्रहः। अतियूयम्। अतिवयमिति। त्वां मां वा अतिक्रान्ता इति विग्रहः। एवमग्रेऽप्यूह्रम्। अतित्वाकम्। अतिमाकमिति। अत्रान्त्यलोपपक्षे त्वङ्गवृत्तपरिभाषया नुडागमो निवार्यः, "ह्यस्वनद्यापः"इत्यत्र "ह्यस्वान्ताद्विहितस्यामो नु"डिति व्याख्यानाद्वा। नन्वेवं भिन्नविषयतया सुटो नुडपवादत्वाऽभावेनाऽवर्णान्तसर्वनामाभ्यो विहितस्यामो नुडेव परत्वात्स्यात्, नतु सुडागमः, तस्य "येषां""ताषा"मित्यादौ सावकाशत्वादिति चेदत्राहुः--"त्यदादेरमि सु"डिति वक्तव्ये"आमि सर्वनाम्नः"इति सर्वानामग्रहणसामथ्र्याद्धलि सर्वेषैमित्यादिनिर्देशाच्च अवर्णान्तसर्वनामभ्योऽप्यामः सुडेव भवति, नतु नुट्। "शस्प्रभृतिषु"इति च विषयसप्तसी, तेन पद्दन्नादिष्वप्यामि न नुडिति। एवं च "साम"इतिससुट्कनुर्देशेन युष्माकमस्माकमित्यत्र सुडादमाऽभावेऽपि नुडागमो दुर्वाप इत्याशङ्काया अपि निरवकाश एवेति बोध्यम्। यत्त्ु वदन्ति--"साम आक"मित्यत्र यद्यपि सुड्ग्रहणं न स्थानिविशेषणं, बाधात्, तथापि उपलक्षणं तु भवति। यस्यामः सुडग्रे भावी तस्यैवाम आकमा भवितव्यं, न चैतद्रौत्वे संभवतीत्यकम्न?प्रवर्तते। तथाच "अतित्वयाम्"तिमया"मित्येव रूपं, न त्वतित्वाकमतिमाकमिति। तदसत्। आकमाऽपह्मतस्यामः सुडन्वयाऽभावात्। "आकमः सुड्भावी"ति चेत्तर्हि तमेवोपलक्षयेत्। आदेशद्वारकेण परम्परासंबन्धेन स्थानिनमुपलक्षयति चेदेवं तर्हि "युष्माक"--मित्यादौ सुट् श्रूयते। "साम"इति निर्देशसामथ्र्यान्न श्रूयतेति चेन्न, निर्देशस्य गौणव्यावृत्त्या चरितार्थत्वेन सामथ्र्याऽभावादित्यन्यत्र विस्तरः। गुणभूतयोर्युष्मदस्मदोरेकार्थत्वे उदाहरणान्युत्क्वा सम्प्रति द्द्यर्थवाचित्वे उदाहरति--युवामावां वा अतिक्रान्त इत्यादिना। बह्वर्थयोस्तूदाहरति---युष्मानस्मान्वेति।""""