पूर्वम्: ७।१।३५
अनन्तरम्: ७।१।३७
 
सूत्रम्
विदेः शतुर्वसुः॥ ७।१।३६
काशिका-वृत्तिः
विदेः शतुर् वसुः ७।१।३६

विद ज्ञाने इत्येतस्माद् धातोरुत्तरस्य शतुः वसुरादेशः भवति। विद्वान्, विद्वांसौ, विद्वांसः। स्थानिवद्भावादुगित्कार्ये सिद्धे वसोः उकारकरणं वसोः सम्प्रसारणम् ६।४।१३१ इत्यत्र क्वसोरपि सामान्यग्रहणार्थम्। एकानुबन्धकग्रहणे न द्व्यनुबन्धकस्य इत्येतदपि न भवति। तथा सति उकारकरणम् अनर्थकं स्यात्। अन्यतरस्यांग्रहणं केचिदनुवर्तयन्ति। विदन्, विदन्तौ, विदन्तः।
लघु-सिद्धान्त-कौमुदी
विदेः शतुर्वसुः ८३६, ७।१।३६

वेत्तेः परस्य शतुर्वसुरादेशो वा। विदन्। विद्वान्॥
न्यासः
विदेः शतुर्वसुः। , ७।१।३६

यद्यपि विदेरिति सामान्यनिर्देशोऽयम्(), तथधापि ज्ञानार्थस्य ग्रहणं विज्ञायते। तस्यैव हि शतानन्तरः सम्भवति, नान्येषां विदीनाम्()। तत्र सत्ताविचारणार्थयोः शतुरसम्भव एव; आत्मनेपदित्वम्()। लाभार्थस्य तूभययदित्वात्? सम्भवत्यसौ, न त्वनन्तरः; शप्रत्ययेन व्यवधानात्()। ज्ञानार्थस्य तु लुग्विकरणत्वाच्छतुर्विकरणकृतं व्यवधानं नास्ति, अतस्तस्यैव ग्रहणमित्याह--"विद ज्ञाने" इति। "विद्वान्()" इति। उगित्त्वान्नुम्(), "सान्तमहतः संयोगस्य" ६।४।१० इति दीर्घः। अन्यतरस्यांग्रहणमनुवत्र्तते। तेन पक्षे विदन्(), विदन्तौ, विदन्त इत्याद्यपि भवति। एचच गम्यमानत्वाद्वृत्तौ नोक्तम्()। अथ किमर्थमुकारोऽनुबन्धः क्रियते, नुमाद्युगित्कार्यं यथा स्यादिति चेत्()? न; तस्य स्थानिवद्भावेनैव सिद्धत्वादित्यत आह--"स्थानिवद्भावात्()" इत्यादि। "क्वसोऽपि" इति। अपिशब्दादस्यापि। असत्युकारे सामान्यार्थे क्वसोरेव ग्रहणं स्यात्(), नान्यस्य। अथ "वसोः सम्प्रसारणम्()" ६।४।१३१ इति सूत्रं क्रियत एवास्यैव ग्रहणार्थम्(), न क्वसोः; ननु च सत्यप्युकारकरणे सामान्यग्रहणं नोपपद्यते, एकानुबन्धकपरि(व्या।प।५२) भा,यास्यैव ग्रहणं स्यात्(), न क्वसोः? इत्याह--"एकानुबन्धकग्रहणे" इत्यादि। एतत्? परिभाषासूत्रम्()। न भवति। नोपतिष्ठत इत्यर्थः। किं कारणं न भवति? इत्याह--"तथा च सति" इत्यादि। एवञ्च सतीत्यर्थः। यदि क्रियमाणेऽप्युकार एकानुबन्धपरिभाषोपतिष्ठते, एवं सत्युकारकरणमनर्थकं स्यात्()। विनाऽपि तेन "वसः सम्प्रसारणम्()" इत्युच्यमाने केवलस्यास्य ग्रहणं लभ्यत एव। तस्मादुकारकरणसामथ्र्यादियं परिभाषा नोपतिष्ठते॥
बाल-मनोरमा
विदेः शतुर्वसुः ९०७, ७।१।३६

विदेः शतुर्वसुः। वेत्तेरिति। "विद ज्ञाने" इति लुग्विकरणस्यैव ग्रहणम्, शतुः परस्मैपदत्वात्, विद्यतेर्विन्त्तेश्चात्मनेपदित्वात्। यद्यपि विन्दतिरुभयपदी, तथापि तस्य ग्रहणं, "निरनुबन्धकग्रहणे न सानुबन्धकस्ये"त्युक्तेरिति भावः। वा स्यादिति। "तुह्रोस्तात"ङ्ङित्यतस्तदनुवृत्तेरिति भावः। विदुषीति। उगित्त्वान्ङीप्, वनसोः संप्रसारणं, पूर्वरूपम्, षत्वम्।

तत्त्व-बोधिनी
विदेः शतुर्वसुः ७४६, ७।१।३६

विदेः। स्थानिवत्त्वादेव सिद्धे वसोरुगित्करणं "वसोः संप्रसारण"मित्यत्र क्वसोरपि सामान्यग्रहणार्थम्। तत्सामथ्र्याच्च "एकानुबन्धग्रहणे न द्वयनुबन्धकस्ये"त्येतदपि न प्रवर्तते।