पूर्वम्: ७।१।५५
अनन्तरम्: ७।१।५७
 
सूत्रम्
श्रीग्रामण्योश्छन्दसि॥ ७।१।५६
काशिका-वृत्तिः
श्रीग्रामण्योश् छन्दसि ७।१।५६

श्री ग्रामणी इत्येतयोः छन्दसि विषये आमो नुडागमो भवति। श्रीणामुदारो धरुणो रयीणाम्। अपि तत्र सूतग्रामणीनाम्। श्रीशब्दस्य वामि १।४।५ इति विकल्पेन नदीसंज्ञा, तत्र नित्यार्थं वचनम्। सूतग्रामणीनाम् इति यदा सूताश्च ते ग्रामण्यश्च सूतग्रामण्यो भवन्ति तदर्थम् इदं वचनम्। यदा तु सूतश्च ग्रामणीश्च सूतग्रामणि, सूतग्रामणि च सूतग्रामणि च सूतग्रामणि च इति सूतग्रामणीनाम् इति, तदा ह्रस्वातित्येव सिद्धम्।
न्यासः
श्रीग्रामण्योश्छन्दसि। , ७।१।५६

श्रीग्रामण्योरिति सम्बन्धलक्षणा षष्ठी। "नित्यार्थं "वचनम्()" इति। श्रीशब्दस्य, न तु ग्रामणीशब्दस्य। तस्तु तु प्राप्त्यर्थमेव। यथैव हि भाषायां नदीसंज्ञापक्षे "ह्यस्वनद्यापो नुट्()" ७।१।५४ इति सिध्यति तथा छन्दस्यपि। तस्मान्नित्य यथा स्यादित्येवमर्थम्()। असति ह्रस्मिन्? यदा नदीसंज्ञा, तदैव स्यात्(), नान्यदा। "यदा सूताश्च" इत्यादि। एतेनैतद्दर्शयति--यदा सूतशब्दस्य ग्रामणीशब्देन सह कर्मधारयः क्रियते तदा सूतग्रामणीशब्दो न ह्यस्वान्तः न नद्यन्तः, नाप्याबन्त इति न प्राप्नोति, इष्यते च, ततो यथा स्यादित्यवमर्थं वचनम्()। यदा सूतग्रामणीशब्दयोः "सर्वो द्वन्द्वो विभाषयैकवद्भवति" (पु।प।वृ।५०) इत्येकवद्भावी द्वन्द्वः, तदा "स नपुंसकम्()" २।४।४७ इति नपुंसकत्वात्(), "ह्यस्वो नपुंसके प्रातिपदिकस्य" १।२।४७ इति ह्यस्वत्वं कृत्वा बहूनां सूतग्रामणीशब्दानामेकशेषञ्च, ततः षष्ठीबहुवचनं विधीयते। तदा ह्यस्वान्तत्वादेव सिद्धमिति नार्थस्तवर्थेन वचनेन॥