सनि परतः इणो ऽबोधनार्थस्य गमिरादेशो भवति। जिगमिषति, जिगमिषतः, जिगमिषन्ति। अबोधने इत्येव, अर्थान् प्रतीषिषति। इण्वदिक इत्येव, अधिजिगमिषति। योगविभाग उत्तरार्थः। इङश्च
२।४।४८ इति सन्येव यथा स्यात्।
"जिगमिषति" इति। "गमेरिट् परस्मैपदेषु"
७।२।५८ इतीट्। "प्रतीषिषति" इति। "अजादेर्द्वितीयस्य"
६।१।२ इति "सन्यङोः"
६।१।९ इत्यनेन स इत्यस्य द्वर्वचनम्। "सन्यतः"
७।४।७९ इतीत्त्वम्। उपसर्गेकारस्य धातोरिकारेण सह "अकः सवर्णे दीर्घः"
६।१।९७। "इङश्च"
२।४।४८ इत्यादिना योगविभागस्योत्तरार्थतां दर्शयति। एकयोगे हि णेरप्युत्तरत्रानुवृत्तिः स्यात्, ततश्च तत्राप्ययमादेशः प्रसज्येत॥
सनि च। "इणो गा लुङी"त्यत इण इति, "णौ गमिरबोधने" इत्यतो "गमिरबोधने" इति चानुवर्तते। तदाह-- इणो गमिरित्यादि। जिगमिषतीति। "गमे"रिति इट्। अत्र "अज्झनगमा"मिति दीर्घो स्थिते "अजादेर्द्वितीयस्ये"ति सनो द्वित्वे अभ्यासेत्त्वम्। प्रतिना सवर्णदीर्घे सकारद्वयस्यापि षत्वमिति भावः। "इक स्मरणे" इत्यस्याह-- इण्वदिक इति। अनेन वार्तिकेन इक्धातुरिण्वद्भवतीत्यर्थः। ततस्च "सनि चे"ति गमिरादेश इति भावः। कर्मणि तङिति। इण्धातोरिग्धातोश्च सन्नन्तात्कर्मणि लटस्तङित्र्थः। "भावकर्मणो"रित्यनेनेति भावः। परस्मैपदेष्विति। "गमेरिट्परस्मैपदेषु" इत्युक्तेस्तङि नेडित्यर्थः। झलादाविति। "अज्झने"ति झलादौ सनि वहितो दीर्घ इत्यर्थः। जिगांस्यते इति। गन्तुमिष्यते इत्यर्थः। इणो रूपम्। अधिजिगांस्यते इति। स्मर्तुमिष्यत इत्यर्थः। इको रूपम्। जिगंस्यते इति। गम्लृधातोः सन्नन्तात्कर्मणि तङि रूपम्। गमेरजादेशत्वाऽभावान्न दीर्घः।