पूर्वम्: ७।१।६७
अनन्तरम्: ७।१।६९
 
सूत्रम्
न सुदुर्भ्यां केवलाभ्याम्॥ ७।१।६८
काशिका-वृत्तिः
न सुदुर्भ्यां केवलाभ्याम् ७।१।६८

सु दुरित्येताभ्यां केवलाभ्याम् अन्योपसर्गरहिताभ्याम् उपसृष्टस्य लभेः खल्घञोः परतः नुमागमो न भवति। सुलभम्। दुर्लभम्। घञि सुलाभः। दुर्लाभः। केवलाभ्याम् इति किम्? सुप्रलम्भः। दुष्प्रलम्भः। सुदुर्भाम् इति तृतीयां मत्वा केवलग्रहणं क्रियते। पञ्चम्यां हि व्यवहितत्वादेव अप्रसङ्गः। अतिसुलभम् इत्यत्र कर्मप्रवचनीयत्वादेतेः केवल एव सुशब्द उपसर्गः इति भवति प्रतिषेधः। यदा तु अतिशब्दो न कर्मप्रवचनीयः, तदा नुम् भवति एव अतिसुलम्भः इति। पञ्चमीनिर्देशपक्षे ऽप्येवम् अर्थं केवलग्रहणम् कर्तव्यम्।
न्यासः
न सुटुभ्र्यां केवलाभ्याम्?। , ७।१।६८

"उपसृष्टस्य" इति। उपसर्गेण सम्बद्धस्येत्यर्थः, "सुलाभः" इति। सुशब्दोऽयमाधिक्यार्थः, नाकृच्छ्रार्थः, यथा--सुषिक्तं नाम किं तवात्रेत। "दुर्लाभः" इति। "दुशब्दो निन्दार्थः, न कृच्छ्रार्थः, यथा--दुब्र्राह्रण इति। तेन घञेव भवति, न खल्()। "सुदुम्र्यामिति तृतीयां मत्वा केवलग्रहणं क्रियते" इति। "सुदिभ्र्याम्()" इति। तृतीयायामभ्युपेतायां सुदुभ्र्यामुपसृष्टस्य लभेर्नुम्? न भवतीत्येषोऽर्थः सम्पद्यते। व्यवहितेनाऽप्युपसृष्टो भवत्येव। तत्रासति केवलग्रहणे सुप्रलम्भः, दुष्प्रलम्भ इत्यत्रापि प्रतिषेधः स्यात्()। तस्मात्? तृतयायामभ्युपेतायां केवलग्रहणं क्रियते। अथ पञ्चत्र्यां केवलग्रहणं कस्मान्न क्रियेतेति प्रश्नावसरत आह--"पच्चम्यां हि" इत्यादि। पञ्चम्यां ह्रस्यां निर्दिष्टग्रहणस्यानन्तर्यार्थत्वादनन्तरस्यैव प्रतिषेधेन भवितव्यम्(), इह च प्रशब्देन व्यवधानम्(), अतः प्रसङ्ग एव नास्ति, तत्? किं केवलग्रहणेन? यद्येवम्? न कत्र्तव्यमेव केवलग्रहणम्(), पञ्चमीमेनां प्रतिज्ञास्याम इति? नैतदस्ति; सुप्रलम्भः दुष्प्रलम्भ इति--प्रत्युदाहणद्वयमभिप्रेत्यैतदुक्तम्()। "पञ्चम्यां हि व्यवहितत्वादेवाप्रसङ्गः" इति। अतिसुलम्भ इत्यत्र यदाभिशब्दोऽप्युपसर्गस्तदा ह्रसति केवलग्रहणे प्रतिषेधः प्रसज्येत; अव्यवधानात्()। तस्मात्? सर्वधा केवलग्रहणस्य कत्र्तव्यत्वात्(), कमव्यतिक्रमे च प्रयोजनाभावात्? तृतीयैवेषा युक्ता प्रतिज्ञातुम्()। अतिसुलभमित्यत्रातिनोपर्गेन सुशब्देन लभिरुपसृष्टः, तस्मात्? प्रतिषेधेन भवितव्यमिति कस्याचिद्भ्रान्तिः स्यात्(), अतस्तां निराकर्त्तुमाह--"अतिसुलभमित्यत्र" इत्यादि। कर्मप्रवचनीयत्वं पुनरतिशब्दस्य "अतिरतिक्रमणे च" १।४।९४ इति कर्मप्रवचनीसंज्ञाविधानात्()। यस्य कर्मप्रवचनीयसंज्ञा तस्योपसर्गसंज्ञा नास्ति; एकसंज्ञाधिकारात्(), कर्मप्रववनायसंज्ञयोपसर्गसंज्ञाया बाधतत्वात्()। कथं पुनः कर्मप्रचवनीयस्य हि तस्यापि केवलत्वमुपपद्यते? एवं मन्यते--केवग्रहणात्? स्वशब्दोपात्तादन्यत्? तुल्यजातीयमेव व्यवच्छेद्यम्(), न तु विजातीयम्()। तथा हि--"केवलभ्यां विझातीयेन कर्कटादिना सहितौ प्रविशत एव। अत एवान्योपसर्गरहिताभ्यामित्यनेन तुल्यजातीयनिवृत्तयर्थता केवलग्रहणस्य दर्शिता। यदि तु सर्वस्य तुल्यजातीयस्य विजातीयस्यापि केवलग्रहणेन निवृत्तिः कर्त्तु शक्यते, तदोपसर्गगरहणमनर्थकं स्यात्(), अन्यरहिताभ्यामित्येवं ब्राऊयात्()। तस्माद्विजातीयेन केवलग्रहणेन निवृत्तिः कर्त्तु शक्यते, तदोपसर्गग्रहणमनर्थकं स्यात्(), अन्यरहिताभ्यामित्येवं ब्राऊयात्()। तस्माद्विजातीयेन सहितावपि तौ केवलावेवेत्यतिसुलभमित्यत्र कर्मप्रवचनीयसहितेनापि सुशब्देनोपसृष्टस्य भवत्येव प्रतिषेधः। यत्र तर्हि पूजातिक्रमणाभ्यामन्यत्र वृत्तिः, अतिशब्दसय तत्र कर्मप्रवचनीयसंज्ञा न भवति, तदा कथम्()? इत्याह--"यदा तु" इत्यादि। पञ्चमीनिर्देशेऽप्येवमर्थं केवलग्रहणं कत्र्तव्यमिति; अन्यथा ह्रत्र व्यवधानाभावात्? प्रतिषेधः प्रसज्येतेत्यभिप्रायः। ननु च प्रसुलम्भः--इत्येवमर्थं केवलग्रहणं कत्र्तव्यम्()? नैतदस्ति; उक्तं हि भाषेय--"नैषोऽस्ति प्रयोगः" इति॥
तत्त्व-बोधिनी
न सुदुभ्र्यां केवलाभ्याम् १५८०, ७।१।६८

यदा स्वती इति। "सुः पूजायाम्", "अतिरतिक्रमणे चे"ति तयोः कर्मप्रवचनीयत्वम्।